मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ९

3
प्रभासखण्डः · अर्बुदखण्डः · 9

केदारमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥

केदारमिति विख्यातं सर्वपापहरं नृणाम्

॥१॥

यत्र मन्दाकिनी पुण्या सरस्वत्या समागता ॥

तत्र स्नातो नरो राजन्मुच्यते सर्वकिल्बिषैः

॥२॥

शृणु राजन्यथावृत्तमितिहास पुरातनम् ॥

ऋषिभिर्बहुधा गीतमर्बुदे पर्वतोत्तमे

॥३॥

अजपालो नृपश्रेष्ठः सूर्यवंशसमुद्भवः ॥

सप्तद्वीपवतीं पृथ्वीं स पाति नात्र संशयः

॥४॥

न हस्तिनो न पादाता न चाश्वास्तस्य भूपतेः ॥

न रथाश्च महाराज न कोशाश्च तथाविधाः

॥५॥

न गृह्णाति करं राजन्प्रजाभ्योथाधिकं नृप ॥

राज्यं स ईदृशं चक्रे सर्वलोकहिते रतः

॥६॥

जातापराधो भूपृष्ठे जायते चेत्कथंचन ॥

तं गत्वा निग्रहं तस्य चक्रुः शस्त्राणि तत्क्षणात्

॥७॥

एवमस्य नरेन्द्रस्य वर्त्तमानस्य भूतले ॥

सुखेन रमते लोको राज्ये निहतकंटके

॥८॥

कामं वर्षति पर्जन्यः सस्यानि रसवंति च ॥

गावः प्रभूतदुग्धाश्च विद्यमाने नराधिपे

॥९॥

केनचित्त्वथ कालेन वसिष्ठो भगवान्मुनिः ॥

तीर्थयात्राप्रसंगेन तस्य गेहमुपागतः

॥१०॥

तं दृष्ट्वा पूजयामास शास्त्रदृष्टेन वर्त्मना ॥

प्रत्युत्थानाभिवादाभ्यामर्घ्यपाद्यादिभिस्तथा

॥११॥

एवं संपूजितस्तेन भक्त्या परमया नृप ॥

सुखोपविष्टो विश्रांतो वसिष्ठो मुनिसत्तमः ॥

राजर्षीणां कथाश्चक्रे देवर्षीणां तथैव च

॥१२॥

ततः कथावसाने तु कस्मिंश्चिन्नृपसत्तम ॥

पप्रच्छ विनयोपेतस्तं मुनिं शंसितव्रतम्

॥१३॥

अजपाल उवाच

अतीतानागतं विप्र वर्त्तमानं तथैव च ॥

त्वं वेत्सि सकलं ब्रह्मंस्तपश्चर्याप्रभावतः

॥१४॥

कौतुकं हृदि मे जातं वर्त्तते मुनिपुंगव ॥

प्रसादः क्रियतां मह्यं कथयस्व प्रसादतः

॥१५॥

वसिष्ठ उवाच

ब्रूहि पार्थिवशार्दूल यत्ते मनसि वर्त्तते ॥

कथयिष्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम्

॥१६॥

राजोवाच

केन कर्मविपाकेन ममैतद्राज्यमुत्तमम् ॥

निष्कण्टकं सदा क्षेमं सर्वकामसमन्वितम्

॥१७॥

न दीनो न च दुःखार्त्तो व्याधिग्रस्तो न कोऽपि च ॥

विद्यते मम राज्ये च न दरिद्रो महामुने

॥१८॥

नारीयं मम साध्वी च प्राणेभ्योऽपि गरीयसी ॥

मच्चित्ता मद्गतप्राणा नित्यं मम हिते रता ॥

अनया चिंतितं ब्रह्मन्सर्वं विस्तरतो वद

॥१९॥

किं दानस्य प्रभावेन व्रतयागस्य वा मुने ॥

तपसो वा मुनिश्रेष्ठ व्रतस्य नियमस्य च

॥२०॥

जन्मान्तरकृतं पुण्यं परं कौतूहलं हि मे ॥

कथयस्व प्रसादेन विस्तरेण द्विजोत्तम

॥२१॥

वसिष्ठ उवाच

शृणु सर्वं महीपाल विस्तरेण च कथ्यते ॥

न च मन्युस्त्वया कार्यो न च व्रीडा महामते

॥२२॥

अन्यदेहांतरे राजञ्छूद्रजातिसमुद्भवः ॥

शूद्रजातिरियं साध्वी तव पत्नी ह्यभूत्पुरा

॥२३॥

केनचित्त्वथ कालेन दुर्भिक्षे समुपस्थिते ॥

अन्नक्षयान्महाराज सर्व लोकः क्षुधार्दितः

॥२४॥

ततस्त्वं भार्यया सार्द्धमन्यदेशांतरे गतः ॥

समारुह्य च कृच्छ्रेण कस्मिंश्चिद्गिरिनिर्झरे

॥२५॥

त्वया दृष्टं मनोहारि शुभं पंकजकाननम् ॥

तत्र स्नात्वा पयः पीत्वा पितृदेवाः प्रतर्पिताः

॥२६॥

मनसा चिंतितं ह्येतत्पद्मान्यादाय करोम्यहम् ॥

विक्रयं येन चाहारो भवेन्मम च सर्वथा

॥२७॥

ततः पद्मानि भूरीणि गृहीत्वा भार्यया सह ॥

गतो यत्र जनो भूरि गतः पार्थिवसत्तम

॥२८॥

न केऽपि प्रति गृह्णंति लोका दुर्भिक्षपीडिताः ॥

भ्रमितस्त्वं च सर्वत्र श्रांतो वैराग्यमागतः

॥२९॥

ततो दिनावसाने तु गुहामेकां समाश्रितः ॥

भूमौ पद्मानि निक्षिप्य क्षुधाविष्टः प्रसुप्तवान्

॥३०॥

एतस्मिन्नेव काले तु कर्णयोस्ते समागतः ॥

पठतां द्विजमुख्यानां ध्वनिर्वेदपुराणयोः

॥३१॥

तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः ॥

पद्मान्यादाय तत्रैव सभार्यः शिवमंदिरे

॥३२॥

तत्र नागवती वेश्या शिवरात्रिपरायणा ॥

केदारे परया भक्त्या करोति निशि जागरम्

॥३३॥

तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर ॥

देवस्य पुरतो बाले किमर्थं रात्रिजागरम्

॥३४॥

तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी ॥

कुरुते नागवती नाम रात्रौ भक्त्या च जागरम्

॥३५॥

यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम् ॥

पूजयित्वा महादेवं स याति परमं पदम्

॥३६॥

कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः ॥

स याति रुद्रसालोक्यं सेव्यमानो ऽप्सरोगणैः

॥३७॥

सकामो लभते कामान्देवैरपि सुदुर्ल्लभान् ॥

स त्वं पद्मानि मे देहि कांचनं च पलत्रयम् ॥

एतेषां मूल्यमादाय प्राणाधारं समाचर

॥३८॥

ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने ॥

न ग्राह्यं मूल्यमेतेषां त्वया नाथ कथंचन

॥३९॥

उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि ॥

पद्मैरेभिर्हरः पूज्यो द्वाभ्यामेवाद्य निश्चयम्

॥४०॥

इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम् ॥

भार्याया वचनं श्रुत्वा तैः पद्मैः पूजितः शिवः

॥४१॥

श्रद्धया च सभार्येण जागरं च शिवाग्रतः ॥

कृतं त्वया महाराज भार्यया शिवमंदिरे

॥४२॥

पुराणश्रवणं जातं तत्र पार्थिवसत्तम ॥

शिवरात्र्यां महाराज पद्मैस्तु पूजितः शिवः

॥४३॥

केदारस्याग्रतो भक्त्या रात्रौ जागरणं तथा ॥

कृतं त्वया महाराज एकाग्रेण च चेतसा

॥४४॥

ततःप्रभाते संजाते भिक्षां कृत्वा च पारणा ॥

कृता त्वया महाराज शिवाग्रे सह भार्यया

॥४४॥

ततः कालांतरेणैव कालधर्मं गतो भवान् ॥

भार्येयं च त्वया सार्धं संप्रविष्टा हुताशनम्

॥४६॥

ततो जाता महाराज दशार्णाधिपतेः सुता ॥

वैदेहे नगरे राजा जातस्त्वं पार्थिवोत्तम

॥४७॥

अजपाल इति ख्यातो नाम्ना च धरणीतले ॥

सर्वेषां प्राणिनां त्वं च वल्लभो नृपसत्तम

॥४८॥

एतस्मात्कारणाज्जाता भार्येयं प्राणसंमता ॥

भूयोऽपि तव संजाता यन्मां त्वं परिपृच्छसि

॥४९॥

तस्य देवस्य माहात्म्यात्केदारस्य महीपतेः ॥

राज्यं ते सुखदं नृणां तथा निहतकण्टकम्

॥५०॥

प्राप्तं त्वया महाराज केदारस्य प्रसादतः ॥

येन त्वं सैन्यहीनोऽपि पृथिवीं परिरक्षसि

॥५१॥

पुलस्त्य उवाच

तस्य तद्वचनं श्रुत्वा स राजा विस्मयान्वितः ॥

गमनाय मतिं चक्रे केदारं प्रति भूमिपः

॥५२॥

स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम् ॥

शिवरात्रिपरः सम्यग्वर्षेवर्षे बभूव ह

॥५३॥

पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत् ॥

प्राप्तो मुक्तिं ततो भूयः सभार्यस्तत्प्रभावतः

॥५४॥

एतत्ते सर्वमाख्यातं केदारस्य महीपते ॥

माहात्म्यं शुभदं नृणां सर्व पापप्रणाशनम्

॥५५॥

माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी ॥

शिवरात्रिरिति ख्याता भूतलेऽस्मिन्महामते

॥५६॥

तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत् ॥

केदारस्य महाराज प्रकुर्यात्पूजनं नृप

॥५७॥

माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम् ॥

कृतोपवासो नृपते शिवलोकं स गच्छति

॥५८॥

स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे ॥

ये प्रपश्यन्ति केदारं ते यास्यंति परां गतिम्

॥५९॥

कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम् ॥

सप्तपूर्वान्सप्त परान्पूर्वजांस्तारयेत्तु सः

॥६०॥

यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप ॥

सोऽपि पापैर्विमुच्येत केदारस्य प्रभावतः

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे केदारमाहात्म्यवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥