शुक्रेश्वरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततः शुक्रेश्वरं गच्छेच्छुक्रेण स्थापितं पुरा ॥
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते
॥१॥दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम ॥
चिन्तयामास मेधावी भार्गवस्तान्प्रति द्विजः
॥२॥कथं दैत्याः सुराञ्जित्वा प्राप्स्यंति च महायशः ॥
आराध्य शंकरं सिद्धिं गच्छामि मनसेप्सितम्
॥३॥एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम् ॥
भूमे विवरमासाद्य तपस्तेपे सुदारुणम्
॥४॥शिवलिंगं प्रतिष्ठाप्य धूपगंधानुलेपनैः ॥
अनिशं पूजयामास श्रद्धया परयान्वितः
॥५॥ततो वर्षसहस्रांते तुतोष भगवाञ्छिवः ॥
तस्य संदर्शनं दत्त्वा वाक्यमेतदुवाच ह
॥६॥श्रीमहादेव उवाच
परितुष्टोऽस्मि ते विप्र भक्त्या तव द्विजोत्तम ॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम्
॥७॥शुक्र उवाच
यदि तुष्टो महादेव विद्यां देहि महेश्वर ॥
यया जीवंति संप्राप्ता मृत्युं संख्येपि जंतवः
॥८॥पुलस्त्य उवाच
प्रदाय वै शिवस्तस्मै तां विद्यां नृपसत्तम ॥
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे
॥९॥शुक्र उवाच
एतत्कार्तिकमासस्य शुक्लाष्टम्यां तु यः स्पृशेत् ॥
ततो लिंगं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः
॥१०॥अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः ॥
इष्टान्कामानवाप्नोतु इहलोके परत्र च
॥११॥पुलस्त्य उवाच
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत ॥
शुक्रोपि दानवान्संख्ये हतान्देवैरनेकशः
॥१२॥विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः ॥
तस्याग्रेऽस्मिन्महाकुण्डं निर्मलं पापनाशनम्
॥१३॥तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते ॥
तत्र श्राद्धेन राजेंद्र तुष्टा यांति पितामहाः
॥१४॥तर्पिताः सलिलेनैव किं पुनः पिंडदानतः ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
॥१५॥इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे शुक्रेश्वरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥