हृषीकेशमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
अंबरीषस्य राजर्षेरैशान्यां पापनाशनम्
॥१॥यत्र स्वयं हृषीकेशः काले च कलिसंज्ञके ॥
तस्य वाक्यादृतस्तीर्थे स्वयं हि परितिष्ठति
॥२॥पुरासीत्पृथिवीपालो ह्यंबरीषो युगे कृते ॥
हरिमाराधयामास तपस्तेपे सुदुष्करम्
॥३॥तस्मिंस्तीर्थे स राजेन्द्रो मितभक्षो जितेन्द्रियः ॥
सहस्रमेकं वर्षाणां तत आसीत्फलाशनः
॥४॥सहस्रे द्वे ततो राजञ्छीर्णपर्णाशनोऽभवत् ॥
सहस्रे द्वे ततो भूयो जलाहारो बभूव ह
॥५॥सहस्रत्रितयं राजन्वायुभक्षो बभूव ह ॥
चिन्तयन्पुंडरीकाक्षं मानसे श्रद्धयान्वितः
॥६॥दश वर्षसहस्रान्ते ततश्च नृपसत्तम ॥
तुतोष भगवान्विष्णुस्तस्यासौ दर्शनं ददौ
॥७॥कृत्वा देवपते रूपमारुह्यैरावतं गजम् ॥
अब्रवीद्वरदोऽस्मीति अंबरीषं नराधिपम्
॥८॥इंद्र उवाच
वरं वरय भद्रं ते राजन्यन्मनसीप्सितम् ॥
त्वां दृष्ट्वा भक्तिसंयुक्तमागतोऽहमसंशयम्
॥९॥अंबरीष उवाच
मुक्तिं दातुमशक्तोसि त्वं च वृत्रनिषूदन ॥
तव प्रसादाद्देवेश त्रैलोक्यं मम वर्त्तते ॥
स्वागतं गच्छ देवेश न वरो रोचते मम
॥१०॥सर्वथा दास्यते मह्यं वरं तुष्टश्चतुर्भुजः ॥
तदाहं प्रतिगृह्णामि गच्छ देव नमोस्तु ते
॥११॥इन्द्र उवाच
वरं वरय राजर्षे यत्ते मनसि वर्त्तते ॥
ब्रह्मविष्णुत्रिनेत्राणामहमीशो नृपोतम
॥१२॥अन्येषां चैव देवानां त्रैलोक्यस्याप्यहं विभुः ॥
वरं वरय तस्मात्त्वं प्रसादान्मे सुदुर्ल्लभम्
॥१३॥प्रसन्ने मयि राजेन्द्र प्रसन्नाः सर्वदेवताः ॥
कुरु मे वचनं राजन्गृह्यतां वरमुत्तमम्
॥१४॥अंबरीष उवाच
राजा त्वं सर्वदेवानां त्रैलोक्यस्य तथेश्वरः ॥
सप्तद्वीपवती राजा अहं वृत्रनिषूदन
॥१५॥हषीकेशस्य सद्भक्तं विद्धि मां तात निश्चयम् ॥
आगतश्च हृषीकेशो वरं दास्यत्यसंशयम्
॥१६॥इन्द्र उवाच
ददतो मम भूपाल न गृह्णासि वरं यदि ॥
वज्रं त्वां प्रेरयिष्यामि वधाय कृतनिश्चयः
॥१७॥एवमुक्त्वा सहस्राक्षः सृक्किणी परिलेलिहन् ॥
कुलिशं भ्रामयामास गृहीत्वा दक्षिणे करे
॥१८॥तस्येवं भ्राम्यमाणस्य महोत्पाता बभूविरे ॥
ततः पर्वतशृंगाणि विशीर्णानि समंततः
॥१९॥आवृतं गगन मेघैर्विधुन्वानैर्महीं तदा ॥
न किंचिद्दृश्यते तत्र सर्वं संतमसावृतम्
॥२०॥एतस्मिन्नेव काले तु स राजा हरिवत्सलः ॥
निमील्य लोचने स्वीये समाधिस्थो बभूव ह
॥२१॥ततस्तुष्टो जगन्नाथ साक्षात्प्रत्यक्षतां गतः ॥
ऐरावतः स गरुडस्तत्क्षणात्समजायत
॥२२॥तमुवाच हृषीकेशो मेघगंभीरया गिरा ॥
ध्यानस्थितं नृपश्रेष्ठं शंख चक्रगदाधरः
॥२३॥श्रीभगवानुवाच
परितुष्टोऽस्मि ते वत्सानन्यभक्त जनेश्वर ॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम्
॥२४॥अंबरीष उवाच
यदि प्रसन्नो भगवन्यदि देयो वरो मम ॥
संसाराब्धेस्तारणाय वरदो भव मे हरे
॥२५॥पुलस्त्य उवाच
अथाह भगवान्विष्णुरंबरीषं जनाधिपम् ॥
ज्ञानयोगं सुविस्तीर्णं संसारक्षयकारणम्
॥२६॥यस्मिञ्जाते नरः सद्यः संसारान्मुच्यते नृप ॥
श्रुत्वा स नृपतिः सम्यक्प्रणम्योवाच केशवम्
॥२७॥अंबरीष उवाच
भगवन्यस्त्वया प्रोक्तो योगोऽयं मम विस्तरात् ॥
दुर्ज्ञेयः स नृणां देव विशेषाच्च कलौ युगे
॥२८॥अपि चेत्सुप्रसन्नोऽसि क्रियायोगं ब्रवीहि मे ॥
लोकानां तारणार्थाय शंखचक्रगदाधर
॥२९॥पुलस्त्य उवाच
ततस्तस्मै नरेन्द्राय क्रियायोगं जनार्द्दनः ॥
यथायोग्यं नृपश्रेष्ठ कथयामास केशवः
॥३०॥तं श्रुत्वा तुष्टहृदयोंऽबरीषो वाक्यमब्रवीत्
॥३१॥अंबरीष उवाच
यदि तुष्टोऽसि भगवन्रूपेणानेन माधव ॥
ममाश्रमे त्वं देवेश सदा सन्निहितो भव
॥३२॥यतस्त्वत्प्रतिमामेकामर्चयामि विधानतः ॥
पूजयिष्यंति लोकास्त्वां शंखचक्रगदाधरम्
॥३३॥पुलस्त्य उवाच
तथोक्तो माधवेनासौ चकार हरिमंदिरम् ॥
प्रतिमां पूजयामास गन्धपुष्पानुलेपनैः
॥३४॥ततः कालेन महता भगवान्विष्णुमंदिरे ॥
तेनैव वपुषा प्राप्तः सपुत्रः सहबांधवः
॥३५॥अद्यापि भगवान्विष्णुः सत्यवाक्येन भूपतेः ॥
सदा संनिहितो विष्णुस्तस्मिन्नवसरे कलौ
॥३६॥तदारभ्य महाराज क्रियायोगो धरातले ॥
प्रवृत्तः प्रतिमाकारः काले च कलिसंज्ञके
॥३७॥यस्तं पूजयते भक्त्या हृषीकेशे नृपार्बुदे ॥
स याति विष्णुसालोक्यं प्रसादाच्च हरेर्नृप
॥३८॥एकादश्यां महाराज जागरं यः सदा नृप ॥
करिष्यति निराहारो हृषीकेशाग्रतः स्थितः ॥
स यास्यति परं स्थानं दुर्ल्लभं त्रिदशैरपि
॥३९॥यत्पुण्यं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे ॥
तत्फलं लभते मर्त्त्यो हृषीकेशस्य दर्शनात्
॥४०॥शुक्ले वा यदि वा कृष्णे संप्राप्ते हरिवासरे ॥
यः पश्यति हृषीकेशमश्वमेधफलं लभेत्
॥४१॥तस्मात्सर्वप्रयत्नेन पूजयेत्तु विधानतः ॥
यस्तत्र चतुरो मासन्सम्यग्व्रतपरायणः ॥
अभ्यर्चयेद्धृषीकेशं न स भूयोऽभिजायते
॥४२॥एकः सर्वाणि तीर्थानि करोति नृपसत्तम ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४३॥एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४४॥एकः कन्यासहस्रं तु प्रदद्याच्च यथाविधि ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४५॥सूर्यग्रहे कुरुक्षेत्रे दद्याद्दानमनुत्तमम् ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४६॥अग्निष्टोमादिभिर्यज्ञैर्यजत्येकः सदक्षिणैः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४७॥एको हिमालयं गत्वा त्यजति स्व कलेवरम् ॥
पश्यत्यन्यो हषीकेशं चातुर्मास्यं समाहितः
॥४८॥एकस्तु भृगुपातेन त्यजेद्देहं सुतीर्थके ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥४९॥एकः प्रायोपवेशेन प्राणांस्त्यजति मानवः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥५०॥ब्रह्मज्ञानं वदत्येकः श्रुत्वा ज्ञानवि शारदः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥५१॥गयाश्राद्धं करोत्येकः पितृपक्षे नृपोत्तम ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥५२॥चांद्रायणसहस्रं च करोत्येकः समाहितः ॥
पश्यत्यन्यो हृषीकेशं चातुमास्यं समाहितः
॥५३॥व्रतं तपः सहस्राब्दमेकः सम्यक्चरेन्नरः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥५४॥एकस्तु चतुरो वेदान्सम्यक्पठति ब्राह्मणः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः
॥५५॥बहुना किमिहोक्तेन शृणु संक्षेपतो नृप ॥
एकतस्तु भवेत्सर्वमेकतो हरिदर्शनम्
॥५६॥तस्मात्सर्वप्रयत्नेन स्थातव्यं हरिसंनिधौ ॥
अम्बरीषस्य राजर्षेः स्थानके पापनाशने
॥५७॥एकतस्तु हृषीकेश एकतः कर्णिकेश्वरः ॥
तयोर्मर्त्या मृता ये च मानवा नृपसत्तम
॥५८॥अपि कृत्वा महत्पापं गच्छंति हरिसन्निधौ ॥
हृषीकेशं समालोक्य सद्यो मुक्तिमवाप्नुयात्
॥५९॥पुष्पमेकं हृषीकेशे यश्चारोपयते नृप ॥
सुखसौभाग्यसंयुक्त इह लोके परत्र च
॥६०॥हृषीकेशस्य यो भक्त्या करिष्यत्यनुलेपनम् ॥
स यास्यति परं स्थानं जरामरणवर्जितम्
॥६१॥संमार्जनं च तस्याग्रे यः करोति समाहितः ॥
यावत्यो रेणवस्तत्र तावद्वर्षशतानि सः ॥
मोदते विष्णुलोकस्थो नात्र कार्या विचारणा
॥६२॥कार्तिके शुक्लपक्षे च एकादश्यां नृपोत्तम ॥
दीपमारोपयेद्यश्च हृषीकेशाग्रतो नृप
॥६३॥यथायथा प्रकाशेत पापं जन्मांतरार्जितम् ॥
तथातथा व्रजेन्नाशं तस्य कायादशेषतः
॥६४॥पंचामृतेन यः पूजां हृषीकेशे करिष्यति ॥
दध्ना क्षीरेण वा यस्तु न स भूयोऽभिजायते
॥६५॥तस्मात्सर्वप्रयत्नेन हृषीकेशं समर्चयेत् ॥
संसारबंधतो राजन्मुक्तिमाप्नोति मानवः
॥६६॥हृषीकेशे विशेषेण कर्त्तव्यं पूजनं सदा
॥६७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे हृषीकेशमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥