मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय १६

3
प्रभासखण्डः · अर्बुदखण्डः · 16

मणिकर्णिकेश्वरमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥

मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्

॥१॥

यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः ॥

तैस्तत्र निर्मितं कुण्डं सुरम्यं गिरि गह्वरे

॥२॥

तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम् ॥

महाश्चर्यमभूत्तत्र तत्त्वं शृणु नराधिप

॥३॥

किरातवनिता काचिन्नाम्ना च मणिकर्णिका ॥

अतिकृष्णा विरूपाक्षी कराला भीषणाकृतिः

॥४॥

तृषार्त्ता तत्र संप्राप्ता मध्यंदिनगते रवौ ॥

ग्रस्ते च राहुणा सूर्ये प्रविष्टा सलिले तु सा

॥५॥

एतस्मिन्नेव काले तु दिव्यरूपवपुर्धरा ॥

मुनीनां पश्यतां चैव विनिष्क्रांता सुमध्यमा

॥६॥

अथ तस्याः पतिः प्राप्तस्तदन्वेषणतत्परः ॥

पप्रच्छ तां वरारोहां पत्न्या दुःखेन दुःखितः

॥७॥

मम भार्यात्र संप्राप्ता यदि दृष्टा सुमध्यमे ॥

शीघ्रं वद वरारोहे बालकोऽयं तदुद्भवः

॥८॥

तृषार्त्तश्च क्षुधाविष्टो रुदते च मुहुर्मुहुः ॥

दृष्टा चेत्कथ्यतां सुभ्रूर्विनाऽयं तां मरिष्यति

॥९॥

स्त्र्युवाच

साऽहं ते दयिता कान्त तीर्थस्यास्य प्रभावतः ॥

दिव्यरूपमिदं प्राप्ता देवैरपि सुदुर्लभम्

॥१०॥

त्वं चापि सलिले ह्यस्मिन्कुरु स्नानं त्वरान्वितः ॥

प्राप्स्यसि त्वं परं रूपं यथा प्राप्तं मयाऽनघ

॥११॥

अथासौ सह पुत्रेण प्रविष्टस्तत्र निर्झरे ॥

विमुक्ते भास्करे राजन्विरूपश्चाभवत्पुनः

॥१२॥

दुःखेन मृत्युमापन्नस्तस्मिन्नेव जलाशये ॥

अथ सा भर्तृशोकाच्च मरणे कृतनिश्चया

॥१३॥

चितिं कृत्वा समं तेन ज्वालयामास पावकम् ॥

अथ ते मुनयो दृष्ट्वा तथाशीलां शुभांगनाम्

॥१४॥

कृपया परयाविष्टास्तामूचुर्विस्मयान्विताः ॥

सर्वे तस्याश्च संदृष्ट्वा साहसं च नृपोत्तम

॥१५॥

ऋषय ऊचुः

दिव्यरूपं त्वया प्राप्तं देवैरपि सुदुर्लभम् ॥

कस्मादेनं सुपाप्मानमनुगच्छसि भामिनि

॥१६॥

स्त्र्युवाच

पतिव्रताहं विप्रेन्द्राः सदा भर्तृपरायणा ॥

किं रूपेण करिष्यामि विना पत्या निजेन च

॥१७॥

विरूपो वा सुरूपो वा दरिद्रो वा धनाधिपः ॥

स्त्रीणामेकः पतिर्भर्त्ता गतिर्नान्या जगत्त्रये

॥१८॥

बालकोऽयं मुनिश्रेष्ठा भवच्छरणमागतः ॥

अहं कान्तेन संयुक्ता प्रविशामि हुताशनम्

॥१९॥

पुलस्त्य उवाच

अथ ते मुनयः सर्वे ज्ञात्वा तस्याः सुनिश्चयम् ॥

कृपया परयाविष्टाः संवीक्ष्य च परस्परम्

॥२०॥

ततो जीवापयामासुस्तत्पतिं ते मुनीश्वराः ॥

सद्रूपेण समायुक्तं दिव्य लक्षणलक्षितम्

॥२१॥

एतस्मिन्नेव कालं तु विमानं मनसेप्सितम् ॥

देवकन्यासमाकीर्णं सद्यस्तत्र समागतम्

॥२२॥

अथ तौ दंपती तेषां मुनीनां भावितात्मनाम् ॥

पुरतः प्रणिपत्याथ प्रस्थितौ त्रिदिवं प्रति

॥२३॥

अथ तैर्मुनिभिः प्रोक्ता सा नारी मणिकर्णिका ॥

वरं वरय कल्याणि सर्वे तुष्टा वयं तव

॥२४॥

पतिव्रतत्वेन तुष्टाः सत्येन च विशेषतः ॥

नास्माकं दर्शनं व्यर्थं जायते च कथंचन

॥२५॥

मणिकर्णिकोवाच

यदि मां मुनयस्तुष्टाः प्रयच्छथ वरं मुदा ॥

यदत्रास्ति महालिंगं मन्नाम्ना तद्भविष्यति

॥२६॥

एतदेव ममाभीष्टं नान्यदस्ति प्रयोजनम् ॥

सर्वेषां च प्रसादेन स्वर्गं गच्छामि सांप्रतम्

॥२७॥

ऋषय ऊचुः

एवं भवतु ते ख्यातिस्तीर्थलिंगे वरानने ॥

तव नामान्वितं जातं तीर्थं वै मणिकर्णिका

॥२८॥

पुलस्त्य उवाच

भर्त्रा सह दिवं प्राप्ता पुत्रेणैव समन्विता ॥

वालखिल्यास्तपोनिष्ठा विशेषात्तत्र संस्थिताः

॥२९॥

तत्र सूर्यग्रहे प्राप्ते स्नानदानादिकाः क्रियाः ॥

यः करोति फलं तस्य कुरुक्षेत्र समं भवेत्

॥३०॥

यं यं काममभिध्याय स्नानं तत्र करोति यः ॥

तं तं प्राप्नोति राजेन्द्र सम्यग्ध्यानसमन्वितः

॥३१॥

तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥

तीर्थे दानं यथाशक्त्या देवर्षिपितृतर्पणम्

॥३२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे मणिकर्णिकेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥