मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३७

3
प्रभासखण्डः · अर्बुदखण्डः · 37

नागोद्भवतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

नागह्रदं ततो गच्छेत्तीर्थं पापप्रणाशनम् ॥

यत्र नागैस्तपस्तप्तं रम्ये पर्वतरोधसि

॥१॥

कद्रूशापं पुरा श्रुत्वा नागाः सर्वे भयातुराः ॥

पप्रच्छुर्नागराजानं शेषं प्रणतकन्धराः

॥२॥

मातृशापेन संतप्ता वयं पन्नगसत्तम ॥

किं कुर्मः क्व च गच्छामः शापमोक्षो भवेत्कथम्

॥३॥

शेष उवाच

प्रसादिता मया माता शापमुक्तिकृते पुरा ॥

तयोक्तं ये तपोयुक्ता धर्मात्मानः सुसंयताः

॥४॥

न दहिष्यति तान्वह्निर्यज्ञे पारिक्षितस्य हि ॥

तस्माद्गत्वार्बुदंनाम पर्वतं धरणीतले

॥५॥

तत्र यूयं तपोयुक्ता भवध्वं सुसमाहिताः ॥

यत्रास्ते सा स्वयं देवी चंडिका कामरूपिणी

॥६॥

यस्याः संकीर्त्तनेनापि नश्यंति विपदो ध्रुवम् ॥

आराधयध्वमनिशं तां देवीं मम वाक्यतः

॥७॥

तस्याः प्रसादतः सर्वे भविष्यथ गतज्वराः ॥

एतमेवात्र पश्यामि उपायं नागसत्तमाः ॥

दैवो वा मानुषो वाऽपि नान्यो वो मुक्तिकारकः

॥८॥

पुलस्त्य उवाच

एवमुक्तास्ततो नागा नागराजेन पार्थिव ॥

प्रणम्य तं ततो जग्मुरर्बुदं पर्वतं प्रति

॥९॥

ते भित्त्वा धरणीपृष्ठं पर्वते तदनन्तरम् ॥

निजग्मुर्बिलमार्गेण कृत्वा श्वभ्रे सुविस्तरम्

॥१०॥

ततो धृतव्रताः सर्वे देवी भक्तिपरायणाः ॥

वसंति भक्तिसंयुक्ताश्चण्डिकाराधनाय ते

॥११॥

तस्थुस्तत्र सदा होमं कुर्वन्तो जाप्यमुत्तमम् ॥

एकाहारा निराहारा वायुभक्षास्तथा परे

॥१२॥

दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे ॥

पञ्चाग्निसाधकाश्चान्ये सद्यः प्रक्षालकास्तथा

॥१३॥

गीतं वाद्यं तथा चक्रुरन्ये देवाः पुरस्तदा ॥

अनन्यश्रदयोपेतांस्तान्दृष्ट्वा पन्नगोत्तमान्

॥१४॥

ततो देवी सुसन्तुष्टा वाक्यमेतदुवाच ह

॥१५॥

देव्युवाच

परितुष्टास्मि वो वत्साः किमर्थं तप्यते तपः ॥

वरयध्वं वरं मत्तो यः स्थितो भवतां हृदि

॥१६॥

नागा ऊचुः

मातृशापेन संतप्ता वयं देवि निराश्रयाः ॥

नागराजसमादेशाच्छरणं त्वां समागताः

॥१७॥

सा त्वं रक्ष भयात्तस्माच्छापवह्निसमुद्भवात् ॥

वयं मात्रा पुरा शप्ताः कस्मिंश्चित्कारणान्तरे ॥

पारिक्षितस्य यज्ञे वः पावको भक्षयिष्यति

॥१८॥

देव्युवाच

यावत्तस्य भवेद्यज्ञ स्तावद्यूयं ममान्तिके ॥

संतिष्ठत विना भीत्या भोगान्भुङ्ध्वं सुपुष्कलान्

॥१९॥

समाप्ते च क्रतौ भूयो गंतारः स्वं निकेतनम् ॥

युष्माभिर्भेदितं यस्मादेतत्पर्वतकन्दरम्

॥२०॥

नागह्रदं तु तत्तीर्थमेतद्भावि धरातले ॥

अत्र यः श्रावणे मासि पञ्चम्यां भक्तितत्परः

॥२१॥

करिष्यति नरः स्नानं तस्य नाहिकृतं भयम् ॥

भविष्यति पुनः श्राद्धात्पितॄन्संतारयिष्यति

॥२२॥

ये भोगा भूतले ख्याता ये दिव्या ये च मानुषाः ॥

नरो नित्यं लभिष्यति न संशयः

॥२३॥

पुलस्त्य उवाच

ततो हृष्टा बभूवुस्ते मुक्त्वा तद्दारुणं भयम् ॥

देव्याः शरणमापन्नास्तस्थुस्तत्र नगोत्तमे

॥२४॥

ततः कालेन महता सत्रे पारिक्षितस्य च ॥

निर्वृत्ते ते तदा जग्मुः सुनिर्वृत्ता रसातलम्

॥२५॥

देव्या चैवाभ्यनुज्ञाताः प्रणिपत्य मुहुर्मुहुः ॥

कृच्छ्रात्पार्थिवशार्दूल तद्भक्त्या निश्चलीकृताः

॥२६॥

अद्यापि कृष्णपंचम्यां श्रावणे मासि पार्थिव ॥

सान्निध्यं तत्र कुर्वंति देवीदर्शनलालसाः

॥२७॥

तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥

स्नानं च पार्थिवश्रेष्ठ य इच्छेच्छ्रेय आत्मनः

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागोद्भवतीर्थमाहात्म्य वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥