मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३८

3
प्रभासखण्डः · अर्बुदखण्डः · 38

कुंडं तु शिवलिंगाख्यं ततो गच्छेन्महीपते

पुलस्त्य उवाच

कुंडं तु शिवलिंगाख्यं ततो गच्छेन्महीपते ॥

यत्र सा जाह्नवी गुप्ता तिष्ठते भूपसत्तम

॥१॥

तस्यां स्नातो नरः सम्यक्सर्वतीर्थफलं लभेत् ॥

मुच्यते पातकात्कृत्स्नादाजन्ममरणांतिकात्

॥२॥

ययाति रुवाच

किमर्थं तत्र सा गुप्ता जाह्नवी तिष्ठते विभो ॥

कस्मिन्काले समायाता परं कौतूहलं हि मे

॥३॥

पुलस्त्य उवाच

यदा प्रसादितो देवैर्भगवान्वृषभध्वजः ॥

अर्बुदेऽस्मिन्सदा स्थेयमचलेन त्वया विभो

॥४॥

तत्र संस्थापिते लिंगे स्वयं देवेन शंभुना ॥

यत्पातितं पुरा लिंगं वालखिल्यैर्महर्षिभिः

॥५॥

अतिकोपसमायुक्तैः कस्मिंश्चित्कारणांतरे ॥

तदा देवेन प्रतिज्ञातं सर्वेषां त्रिदिवौकसाम्

॥६॥

अचले तु मयात्रैव स्थातव्यं नात्र संशयः ॥

ततः कालेन महता वसतस्तस्य तत्र च

॥७॥

अचलेश्वररूपस्य गंगा चित्ते व्यजायत ॥

कथं नित्यं तया सार्द्धं भविष्यति समागमः

॥८॥

अथ जानाति नो गौरी मानिनी परमेश्वरी ॥

तस्यैवं चिन्तयानस्य बहुशो नृपसत्तम

॥९॥

उपायं सुमहद्ध्यात्वा जाह्नवीसंगसंभवम् ॥

तेनादिष्टा गणाः सर्वे नंदिभृङ्गिपुरःसराः

॥१०॥

अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः ॥

क्रियतामुत्तमं कुण्डमस्मिन्पर्वतरोधसि

॥११॥

तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः ॥

तच्छ्रुत्वा त्वरितं चक्रुर्गणाः कुण्डमनेकशः

॥१२॥

स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम् ॥

ततो गौरीमनुज्ञाप्य जाह्नवीसंगलालसः

॥१३॥

व्रतव्याजेन देवेशो विवेश तदनन्तरम् ॥

चिन्तयामास तत्रस्थो गंगां त्रैलोक्यपाविनीम्

॥१४॥

सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता ॥

एवं स भगवांस्तत्र जाह्नवीं भजते सदा

॥१५॥

व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत ॥

कस्यचित्त्वथ कालस्य नारदो भगवान्मुनिः ॥

कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन्

॥१६॥

स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम् ॥

कामजैरिंगितैर्युक्तं तत्राऽसौ विस्मयान्वितः

॥१७॥

वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः ॥

ईदृक्कामसमायुक्तस्ततो ध्यानस्थितो मुनिः

॥१८॥

अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम् ॥

गौर्या भयेन सव्याजं ततो विस्मयमागतः

॥१९॥

तदा स कथयामास सर्वं हरविचेष्टितम्

॥२०॥

ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः ॥

आताम्रनयना रोषाद्वेपमाना मुहुर्मुहुः

॥२१॥

तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम् ॥

उवाच जाह्नवी भीता ज्ञात्वा दिव्येन चक्षुषा

॥२२॥

आवयोः संगमे देवी नारदेन निवेदिता ॥

सेयं रुष्टा समायाति कुरुष्व यदनन्तरम्

॥२३॥

श्रीमहादेव उवाच

कर्त्तव्यं जाह्नवि श्रेयः पुरो गत्वा नगात्मजाम् ॥

अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी

॥२४॥

तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव ॥

नो चेच्छापं मया सार्धं तव दास्यत्यसंशयम्

॥२५॥

एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम ॥

कुण्डान्निर्गत्य सा गंगा सम्मुखं प्रययौ तदा

॥२६॥

प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा ॥

प्रणम्य शिरसा चेयं ततः प्राह स्वलंकृता

॥२७॥

पुराऽहं तव कांतेन निपतन्ती नभस्तलात् ॥

धृता देवि तवा प्येतद्विदितं नृपतेः कृते

॥२८॥

भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत ॥

आवयोस्तव भीत्या च नाभूत्क्वापि समागमः

॥२९॥

अधुना तव वाक्येन जानेऽहं न सुरेश्वरि ॥

समाहूताऽस्मि रुद्रेण किं वा स्वच्छन्दतः शुभे

॥३०॥

त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन ॥

तस्मादत्रैव संप्राप्ता सत्यमेतन्मयोदितम्

॥३१॥

पुलस्त्य उपाच ॥

तस्यास्तद्वचनं श्रुत्वा ततो देवी प्रहर्षिता ॥

प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम्

॥३२॥

तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम् ॥

मुक्त्वैकं पतिधर्म्मत्वे मम कांतं महेश्वरम्

॥३३॥

गंगोवाच

अपि दौर्भाग्ययुक्ताऽहं भार्या जाताऽस्मि शूलिनः ॥

तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु

॥३४॥

चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि ॥

शिवकुंडं तथास्त्वेतन्मया यस्मात्समावृतम्

॥३५॥

शिवगंगाभिधानं च तस्मात्कुण्डं धरातले ॥

ख्यातिं यातु प्रसादेन तव पर्वतनंदिनि

॥३६॥

पुलस्त्य उवाच

एवमस्त्विति सा देवी प्रोच्य गंगां महानदीम् ॥

ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः

॥३७॥

गतायामथ गंगायामधोवक्त्रं सुलज्जितम् ॥

पाणौ गृह्य ययौ रुद्रं भ्रममाणा गृहं प्रति

॥३८॥

एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप ॥

तस्मात्सर्वप्रयत्नेन चतुर्द्दश्यां समाहितः

॥३९॥

शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत् ॥

सांनिध्याद्देवदेवस्य गंगायाश्च नृपोत्तम

॥४०॥

यत्र संक्षयमायाति सर्वं तत्राशुभं कृतम् ॥

तत्र यो वृषभं दद्याद्ब्राह्मणाय नृपोत्तम ॥

तद्रोमसंख्ययास्वर्गे स पुमान्वसति ध्रुवम्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥