मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३

3
प्रभासखण्डः · अर्बुदखण्डः · 3

विवरपूरणवर्णनम्

सूत उवाच

श्रुत्वा हिमाचलो वाक्यं वसिष्ठस्य महात्मनः ॥

चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे

॥१॥

चिरं विचार्य तमृषिमिदमाह नगोत्तमः ॥

क उपायो नगानां वै तत्र गंतुं वदस्व मे

॥२॥

पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः ॥

तस्मादस्य मुनिश्रेष्ठ कार्यस्य पश्य निश्चयम्

॥३॥

वसिष्ठ उवाच

अस्त्युपायो नगानां तु तत्र नेतुं महानग ॥

तवायं तनयस्तत्र विख्यातो नंदिवर्द्धनः

॥४॥

तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः ॥

नागः प्राणभृतां श्रेष्ठः खेचरोऽपि च वीर्यवान्

॥५॥

स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः ॥

लीलया सर्वकृत्येषु तं विदित्वाऽहमागतः

॥६॥

आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि ॥

अवश्यं यदि भक्तोऽसि तत्र प्रेषय सत्वरम्

॥७॥

सूत उवाच

वसिष्ठस्य वचः श्रुत्वा हिमवान्पुत्रवत्सलः ॥

दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः

॥८॥

मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात् ॥

ज्येष्ठं तु सर्वथा चाथ वसिष्ठो नेतुमागतः ॥

किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति

॥९॥

इतः शापभयं तीव्रमितो दुःखं च पुत्रजम् ॥

वरं पुत्रवियोगोऽस्तु न शापो द्विजसंभवः

॥१०॥

स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान् ॥

गच्छ त्वं पुत्र मे वाक्याद्वसिष्ठस्याश्रमं प्रति

॥११॥

तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम् ॥

अर्बुदं नागमादाय मित्रं प्राणभृतां वरम्

॥१२॥

नंदिवर्द्धन उवाच

पापीयान्स विभो देशः फलमूलैर्विवर्जितः ॥

पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा

॥१३॥

सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि ॥

नद्यो वहंति नो तत्र दुष्टा लोकाश्च वासिनः ॥

नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन

॥१४॥

अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम् ॥

मा भीः कार्या त्वया तत्र देशे दौष्ट्यात्कथंचन

॥१५॥

तव मूर्ध्नि सदा वासो मम तत्र भविष्यति ॥

तीर्थानि सरितो देवाः पुण्यान्यायतनानि च

॥१६॥

वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः ॥

सदा तत्र भविष्यंति मृगाश्च विहगाः शुभाः

॥१७॥

अहमेवानयिष्यामि तवार्थे च महेश्वरम् ॥

तदा स्थास्यंति वै तत्र सर्वे देवाः सवासवाः

॥१८॥

सूत उवाच

वसिष्ठस्य वचः श्रुत्व संहृष्टो नंदिवर्द्धनः ॥

अर्बुदं नागमासाद्य वाक्यमेतदुवाच ह

॥१९॥

तत्र यावोऽद्य भद्रं ते वयस्य विनयान्वित ॥

एतत्कार्यमहं मन्ये सांप्रतं द्विजसंभवम्

॥२०॥

अर्बुद उवाच

अहं तत्रागमिष्यामि स्नेहात्ते पर्वतात्मज ॥

तत्रैव च वसिष्यामि त्वया सार्द्धमसंशयम्

॥२१॥

किं त्वहं प्रणयाद्भ्रातर्वक्ष्यामि यद्वचः शृषु ॥

प्रणयान्नान्यथा कार्यं यद्यहं तव संमतः

॥२२॥

मन्नाम्ना ख्यातिमायातु नान्यत्किंचिद्वृणोम्यहम् ॥

ततः सोऽपि प्रतिज्ञाय आरूढस्तस्य चोपरि ॥

प्रणम्य पितरौ चैव प्रतस्थे मुनिना सह

॥२३॥

दिव्यैर्वृक्षैः शुभैः पूर्णैर्नदीनिर्झरसंकुलैः ॥

मधुरैर्विहगैर्युक्तो मृगैः सौम्यैः समन्वितः

॥२४॥

मुक्तोऽर्बुदेन तत्रैव विवरे मुनिवाक्यतः ॥

समस्तस्तत्रानासाग्रं गतः पर्वतसत्तमः

॥२५॥

विमुक्तो विवरे तस्मिन्नर्बुदेन महात्मना ॥

परिपूर्णे महारौद्रे संतुष्टो मुनिपुंगवः

॥२६॥

ब्रवीच्चार्बुदं नागं वरं वरय सुव्रत ॥

परितुष्टोऽस्मि ते भद्र कर्मणानेन पन्नग

॥२७॥

अर्बुद उवाच

एष एव वरोऽस्माकं यत्त्वं तुष्टो महामुने ॥

अवश्यं यदि दातव्यं तच्छृणुष्व द्विजोत्तम

॥२८॥

यच्चैतच्छिखरे ह्यस्मिन्निर्झरं निर्मलोदकम् ॥

नागतीर्थमिति ख्यातिं भूतले यातु सर्वतः

॥२९॥

अत्रैवाहं वसिष्यामि मित्रस्नेहात्सदा मुने ॥

तत्र स्नात्वा दिवं यातु मानवस्त्वत्प्रसादतः

॥३०॥

अपि वंध्या च या नारी स्नानमात्रं समाचरेत् ॥

सा स्यात्पुत्रवती विप्र सुखसौभाग्यसंयुता

॥३१॥

वसिष्ठ उवाच

या वंध्यास्मिञ्जले पूर्णे स्नानमात्रं करिष्यति ॥

सापि पुत्रमवाप्नोति सर्वलक्षणलक्षितम्

॥३२॥

नभसः शुक्लपंचम्यां फलैः पूजां करोति च ॥

अपि वर्षशता नारी सा भविष्यति पुत्रिणी

॥३३॥

येऽत्र स्नानं करिष्यंति ह्यस्मिंस्तीर्थे च भक्तितः ॥

यास्यंति ते परं स्थानं जरामरणवर्जितम्

॥३४॥

श्राद्धं चात्र करिष्यंति पंचम्यां ये समाहिताः ॥

मासे नभसि तीर्थस्य फलं तेषां भविष्यति

॥३५॥

सूत उवाच

एवं दत्त्वा वरं तस्य वसिष्ठो भगवान्मुनिः ॥

नंदिवर्द्धनमभ्येत्य वाक्यमेतदुवाच ह

॥३६॥

वरं च व्रियतां वत्स परितुष्टोऽस्मि तेऽनघ ॥

विनयात्सौहृदात्सर्वं दास्यामि यत्सुदुर्ल्लभम्

॥३७॥

नंदिवर्द्धन उवाच

तवास्तु वचनं सत्यं पूर्वोक्तं मुनिसत्तम ॥

सांनिध्यं जायतामत्र अवश्यं तव सर्वदा

॥३८॥

यथाहमर्बुदेत्येवं ख्यातिं गच्छामि भूतले ॥

प्रसादाच्चैव ते भूयादेतन्मे मनसि स्थितम्

॥३९॥

सूत उवाच

एवमस्त्विति तं प्रोच्य वसिष्ठो भगवान्मुनिः ॥

चक्रे स्वमाश्रमं तत्र तस्य वाक्येन नोदितः

॥४०॥

पनसैश्चंपकैराम्रैः प्रियंगुबिल्वदाडिमैः ॥

नानापक्षिसमायुक्तो देवगन्धर्वसेवितः

॥४१॥

तस्थौ तत्र मुनिश्रेष्ठो ह्यरुंधत्या समन्वितः ॥

गोमतीमानयामास तपसा मुनिसत्तमः

॥४२॥

यस्यां स्नात्वा दिवं यांति अतिपापकृतो नराः ॥

माघमासे विशेषेण मकरस्थे दिवाकरे

॥४३॥

येत्र स्नानं करिष्यंति ते यास्यंति परां गतिम्

॥४४॥

माघमासे विशेषेण तिलदानं करोति यः ॥

तिलसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः

॥४५॥

बहुना किमिहोक्तेन स्तानमात्रं समाचरेत्

॥४६॥

वसिष्ठस्य मुखं दृष्ट्वा पुनर्जन्म न विद्यते ॥

अरुंधती पूजनीया पूजनीया विशेषतः

॥४७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाज्ञया नन्दिवर्धनपर्वतेन विवरपूरणवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥