रूपतीर्थमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ रूपतीर्थमनुत्तमम् ॥
सर्वपापहरं नॄणां रूपसौभण्यदायकम्
॥१॥तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः ॥
सिद्धिं गता महाराज यथा पूर्वं निगद्यते
॥२॥पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना ॥
लम्बोदरी च कुग्रीवा स्थूलदंतशिरोरुहा
॥३॥एकदा फलमादातुं भ्रममाणाऽर्बुदाचले ॥
माघशुक्लतृतीयायां पतिता गिरिनिर्झरे
॥४॥दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता ॥
पद्मनेत्रा सुकेशांता सर्वलक्षणलक्षिता
॥५॥सा संजाता महाराज तीर्थस्यास्य प्रभावतः ॥
एतस्मिन्नेव काले तु शक्रस्तत्र समागतः
॥६॥क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम् ॥
ततः कामशरैर्विद्धस्तामुवाच सुमध्यमाम्
॥७॥इन्द्र उवाच
का त्वं वद वरारोहे किमर्थं त्वमिहागता ॥
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा
॥८॥मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया ॥
शक्रोऽहं सर्वदेवेशो भज मां चारुहासिनि
॥९॥नार्युवाच
आभीरी त्रिदशाधीश तथाहं बहुभर्तृका ॥
फलार्थं तु समायाता पतिता गिरिनिर्झरे
॥१०॥स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया ॥
दुर्ल्लभस्त्वं हि देवानां किं पुनर्मर्त्यजन्मनाम्
॥११॥वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा ॥
भज मां त्रिदशाधीश यथाकामं सुराधिप
॥१२॥पुलस्त्य उवाच
एवमुक्तस्तया शक्रः कामयामास तां तदा ॥
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम्
॥१३॥इन्द्र उवाच
वरं वरय कल्याणि यत्ते मनसि वर्त्तते ॥
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम्
॥१४॥नार्युवाच
माघशुक्लतृतीयायां नरो वा वनिता तथा ॥
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः
॥१५॥सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि ॥
मां नय त्वं सहस्राक्ष सुरावासं सुराधिप
॥१६॥पुलस्त्य उवाच
एवमस्त्विति तामुक्त्वा गृहीत्वा तां सुराधिपः ॥
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति
॥१७॥वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम ॥
नाम्ना वपुरिति ख्याता सा बभूव वराप्सराः
॥१८॥माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये ॥
स्नानं सर्वे प्रकुर्वंति प्रभाते भक्तिसंयुताः
॥१९॥तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा ॥
यस्तत्र कुरुते स्नानं तस्मिन्काले नराधिप
॥२०॥रूपं च लभते तादृग्यादृग्लब्धं तया पुरा ॥
सर्वे तत्र भविष्यंति सिद्धविद्याधरोरगाः
॥२१॥तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम् ॥
यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः
॥२२॥तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः ॥
तत्र वैनायके पीठे महत्पाषाणजं जलम्
॥२३॥तेनोदकेन संयुक्तः सिद्धो भवति मानवः ॥
गृहीत्वा तज्जलं यस्तु यत्र यत्राभिगच्छति
॥२४॥स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते ॥
तत्रास्ति विवरद्वारे तिलकोनाम पादपः
॥२५॥तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति ॥
भक्षणाद्धारणाद्वापि सिद्धो भवति मानवः
॥२६॥तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः ॥
तेनोदकेन संस्पृष्टा भवंति च हिरण्मयाः
॥२७॥वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम् ॥
अपि वर्षशताब्दा च सद्यो गर्भवती भवेत्
॥२८॥व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत् ॥
नीरोगो जायते सद्यो ग्रहग्रस्तो विमुच्यते
॥२९॥भूतप्रेतपिशाचानां दोषः सद्यः प्रणश्यति ॥
तेनोदकेन संस्पृष्टे सर्वं नश्यति दुष्कृतम्
॥३०॥अपि कीटपतंगा ये पिशाचाः पक्षिणो मृगाः ॥
तेनोदकेन ये स्पृष्टाः सद्यो यास्यंति सद्गतिम्
॥३१॥ययातिरुवाच
अप्यद्भुतमिदं ब्रह्मन्माहात्म्यं भवता मम ॥
कथितं रूपतीर्थस्य न भूतं न भविष्यति
॥३२॥किमत्र कारणं ब्रह्मन्सर्वेभ्योऽप्यधिकं स्मृतम् ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि मे
॥३३॥पुलस्त्य उवाच
तत्र पूर्वं तपस्तप्तमदित्या नृपसत्तम ॥
इन्द्रे राज्यपरिभ्रष्टे बलौ त्रैलोक्यनायके ॥
अवतीर्णश्चतुर्बाहुरदित्यां नृपसत्तम
॥३४॥तस्मिञ्जाते महाविष्णावदित्या चासुरान्तके ॥
गुप्तया विवरद्वारे भयाद्दानवसंभवात्
॥३५॥जातमात्रो हरिस्तस्मिन्स्थापितो निर्झरे तया ॥
तस्मात्पवित्रतां प्राप्तं तीर्थं नॄणामभीष्टदम्
॥३६॥न चान्यत्कारणं राजन्सत्यमेतन्मयोदितम् ॥
माघशुक्लतृतीयायां तत्र जातस्त्रिविक्रमः
॥३७॥तिलकः सर्व वृक्षाग्र्यः पुत्रवत्परिपालितः ॥
अदित्या सेवितो नित्यं स्वहस्तेन जलैः शुभैः
॥३८॥एतत्ते सर्वमाख्यातं तीर्थमाहात्म्यमुत्तमम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
सर्वकामप्रदं नॄणामिह लोके परत्र च
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रूपतीर्थमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥