मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५३

3
प्रभासखण्डः · अर्बुदखण्डः · 53

ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेद्ब्रह्मपदं तीर्थं त्रैलोक्यविश्रुतम् ॥

यत्र पूर्वं पदं न्यस्तं ब्रह्मणा लोककारिणा

॥१॥

पुरा ब्रह्मादयो देवास्तत्र सर्वे समाहिताः ॥

अर्बुदे पर्वते रम्य ऋषयश्च सुनिर्मलाः

॥२॥

अचलेश्वरयात्रायां सुभक्त्या भाविता नृप ॥

अथ ते मुनयः सर्वे प्रोचुर्देवं पितामहम्

॥३॥

ऋषय ऊचुः

प्रभूतनियमैर्होमैर्व्रतस्नानैश्च नित्यशः ॥

उपवासैश्च निर्विण्णा वयं सर्वे पितामह

॥४॥

तस्मात्सदुपदेशं त्वं किंचिद्दातुमिहार्हसि ॥

तरामो येन देवेश दुर्गं संसारसागरम्

॥५॥

अयाचितोपचारैश्च जपहोमैः सुदुष्करैः ॥

मन्त्रैर्व्रतैस्तथा दानैः स्वर्गप्राप्तिं वदस्व नः

॥६॥

तेषां तद्वचनं श्रुत्वा तदा देवः कृपान्वितः ॥

चिंतयामास सुचिरमिह किंचित्प्रहस्य च

॥७॥

ततः स्वकं पदं त्यक्त्वा रम्ये पर्वतरोधसि ॥

अथोवाच मुनीन्सर्वान्ब्रह्मा संश्लक्ष्णया गिरा

॥८॥

ब्रह्मोवाच

एतन्महापदं रम्यं सर्वपातकनाशनम् ॥

स्पृशंतु ऋषयः सर्वे ततो यास्यथ सद्गतिम्

॥९॥

विना स्नानेन दानेन व्रतहोमजपादिभिः ॥

हितार्थं सर्वलोकानां मया न्यस्तं पदं शुभम्

॥१०॥

अस्मिन्पदे मया न्यस्ते यांति लोकाः सहस्रशः ॥

स्पृशंतु ऋषयः सर्वे देवाश्चापि पदं मम

॥११॥

एकैवात्र प्रकर्त्तव्या श्रद्धा वाऽव्यभिचारिणी ॥

यश्च श्रद्धान्वितः सम्यक्पदमेतन्मुनीश्वराः

॥१२॥

पूजयिष्यति संप्राप्ते कार्तिके पूर्णिमादिने ॥

तोयैः फलैश्च विविधैर्गंधमाल्यानुलेपनैः

॥१३॥

ब्राह्मणान्भोजयित्वा तु मिष्टान्नेन स्वशक्तितः ॥

स यास्यति न सन्देहो मम लोकं सुदुर्लभम्

॥१४॥

पुलस्त्य उवाच

ततो मुनिगणाः सर्वे सम्यक्छ्रद्धासमन्विताः ॥

पूजयित्वा पदं तत्र ब्रह्मलोकं समागताः

॥१५॥

तस्मात्सर्वप्रयत्नेन पदं पूज्यं नरोत्तम ॥

पितामहपदं सम्यक्छ्रद्धया स्वर्गदायकम्

॥१६॥

अन्यत्कौतूहलं राजन्महद्दृष्टं महाद्भुतम् ॥

पदस्य तस्य यच्छ्रुत्वा जायते विस्मयो महान्

॥१७॥

आयामविस्तरेणाऽपि प्राप्ते कृतयुगे नृप ॥

न संख्या जायते राजञ्छुक्लवर्णस्य मानवैः

॥१८॥

ततस्त्रेतायुगे प्राप्ते रक्तवर्णं प्रदृश्यते ॥

सुव्यक्तं संख्यया युक्तं सर्वलोकनमस्कृतम्

॥१९॥

द्वापरे कपिलं तच्च लघुमात्रं प्रदृश्यते ॥

कलौ कृष्णं सुसूक्ष्मं च रम्ये पर्वतरोधसि

॥२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥