चंडिकाश्रमोत्पत्तिमाहात्म्यवर्णनम्
ययातिरुवाच
चंडिकाया द्विजश्रेष्ठ कथं तत्राश्रमोऽभवत् ॥
कस्मिन्काले फलं तेन किं दृष्टेन भवेन्नृणाम्
॥१॥पुलस्त्य उवाच
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मानवः सम्यक्सर्वपापैः प्रमुच्यते
॥२॥पुरा देवयुगे राजन्महिषोनाम दानवः ॥
पितामहवराद्दृप्तः सर्वदेवभयंकरः
॥३॥तेन शक्रादयो देवा जिताः संख्ये सहस्रशः ॥
भयात्तस्य दिवं हित्वा गतास्ते वै यथादिशम्
॥४॥त्रैलोक्यं स वशे कृत्वा स्वयमिन्द्रो बभूव ह
॥५॥आदित्या वसवो रुद्रा नासत्यौ मरुतां गणाः ॥
कृतास्तेन तथा दैत्या यथार्हं बलवत्तराः
॥६॥वह्निर्भयं समापन्नस्त्यक्त्वा देवगणांस्तदा ॥
दानवेभ्यो हविर्भागं देवेभ्यो न प्रयच्छति
॥७॥उद्द्योतं कुरुते सूर्यो यादृक्तस्याभिसंमतः ॥
यज्ञभागं विनाऽप्येष भयात्पार्थिवसत्तम
॥८॥लोकपालास्तथा सर्वे तस्य कर्म प्रचक्रिरे ॥
दासवत्पार्थिवश्रेष्ठ यज्ञभागं विनाकृताः
॥९॥कस्यचित्त्वथ कालस्य सर्वे देवाः समेत्य तु ॥
पप्रच्छुर्विनयोपेता विप्रश्रेष्ठं बृहस्पतिम्
॥१०॥भगवान्किं वयं कुर्मः कुत्र यामो निराश्रयाः ॥
तस्माद्ब्रूहि क्षयोपायं महिषस्य दुरात्मनः
॥११॥एवमुक्तो गुरुर्द्देवैर्ध्यात्वा कालं चिरं नृप ॥
ततस्तांस्त्रिदशान्प्राह जीवयन्निव भूपतेः
॥१२॥बृहस्पतिरुवाच
ब्रह्मलब्धवरो दैत्यः पौरुषे च व्यवस्थितः ॥
अवध्यः सर्वदेवानां मुक्त्वेकां योषितं सुराः ॥
व्रजध्वं सहितास्तस्मादर्बुदं पर्वतोत्तमम्
॥१३॥तपोऽर्थं तत्र संसिद्धिर्जायतामचिराद्धि वः ॥
शक्तिरूपां परां देवीं चंडिकां कामरूपिणीम्
॥१४॥आराधयध्वमेकांते यया व्याप्तमिदं जगत् ॥
सा तुष्टा वै वधार्थं तु महिषस्य दुरात्मनः
॥१५॥करिष्यति समुद्योगमवतारसमुद्भवम् ॥
तस्या हस्तेन सोऽवश्यं वधं प्राप्स्यति दुर्मतिः
॥१६॥अहं वः कीर्तयिष्यामि शक्तियं मंत्रमुत्तमम् ॥
पूजाविधानसंयुक्तं भुक्तिमुक्तिप्रदं शुभम्
॥१७॥पुलस्त्य उवाच
एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः ॥
तेनैव सहिता राजन्गताः पर्वतमर्बुदम्
॥१८॥तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः ॥
शक्तियैः परमैर्मंत्रैः सद्यःसिद्धिकरैर्नृप
॥१९॥सार्धयामत्रयं तत्र परिवारसमन्विताः ॥
बलिपूजोपहारैश्च गंधं माल्यानुलेपनैः
॥२०॥मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः ॥
प्रार्थयंतस्तथा नित्यं दीपज्योतिः समाहिताः
॥२१॥निर्ममा निरहंकारा गुरुभक्तिपरायणाः ॥
अंगन्याससमायुक्ताः समदर्शित्वमागताः
॥२२॥एवं संतिष्ठमानानां तेषां पार्थिवसत्तम ॥
सप्त मासा व्यतिक्रांतास्ततस्तुष्टा सुरेश्वरी
॥२३॥दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव ॥
मंत्रेण परिपूतानां परं तेजो व्यवर्धत
॥२४॥द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते ॥
अथ तांस्तेजसा युक्ताञ्ज्ञात्वा जीवो महीपते
॥२५॥मंडलं रचयामास सर्वसिद्धिप्रदायकम् ॥
उपवेश्य ततः सर्वान्समस्तांस्त्रिदशालयान्
॥२६॥तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः ॥
आकृष्य न्यसयामास मंडले तत्र पार्थिव
॥२७॥ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी ॥
शक्तिरूपा महाकाया दिव्यलक्षणलक्षिता
॥२८॥इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः ॥
शक्तिं च भगवानग्निः सिंहयानं धनाधिपः
॥२९॥अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः ॥
तस्यै ददुर्नृपश्रेष्ठ स्तुतिं चक्रुः समाहिताः
॥३०॥देवा ऊचुः
नमस्ते देवदेवेशि नमस्ते कांचनप्रभे ॥
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके
॥३१॥नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते ॥
त्वं मतिस्त्वं धृतिः कांतिस्त्वं सुधा त्वं विभावरी
॥३२॥क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती ॥
त्वं गौरी त्वं महामाया चामुण्डा त्वं सरस्वती
॥३३॥भैरवी भीषणाकारा चंडमुंडासिधारिणी ॥
भूतप्रिया महाकाया घटाली विक्रमोत्कटा
॥३४॥मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा ॥
त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
॥३५॥पुलस्त्य उवाच
एवं स्तुता सुरैः सर्वैस्ततो देवी प्रहर्षिता ॥
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः
॥३६॥देवा ऊचुः
दानवो महिषो नाम पितामहवरान्वितः ॥
अवध्यः सर्वभूतानां देवानां च तथा कृतः
॥३७॥मुक्त्वैकां योषितं देवि तस्मात्त्वं विनिपातय
॥३८॥देव्युवाच
गच्छध्वं त्रिदशाः सर्वे स्वानि स्थानानि निर्वृताः
॥३९॥अहं तं सूदयिष्यामि समये पर्युपस्थिते ॥
एवमुक्ता गताः सर्वे देवाः स्थानानि हर्षिताः
॥४०॥देवी तत्रैव संहृष्टा स्थिता पर्वतरोधसि ॥
कस्यचित्त्वथकालस्य नारदो भगवान्मुनिः
॥४१॥तत्र देवीं च संदृष्ट्वा तीर्थयात्रापरायणः ॥
त्रिविष्टपमनुप्राप्तो महिषो यत्र तिष्ठति
॥४२॥तत्र दृष्ट्वा मुनिं प्राप्तं प्रणम्य महिषासुरः ॥
विनयेन समायुक्तो ह्यभ्युत्थानमथाकरोत्
॥४३॥ततस्तं पूजयामास मधुपर्कार्घविष्टरैः ॥
सुखासीनं सुविश्रांतं ज्ञात्वा वाक्यमुवाच ह
॥४४॥कुतो भवानितः प्राप्तः किमर्थं मुनिसत्तम ॥
अमी पुत्रास्तथा राज्यं कलत्राणि धनानि च
॥४५॥अहं भृत्यसमायुक्तः किमनेन द्विजोत्तम ॥
सर्वं तेऽहं प्रदास्यामि ब्रूहि येन प्रयोजनम्
॥४६॥नारद उवाच
अभिनंदामि ते सर्वमेतत्त्वय्युपपद्यते ।
निःस्पृहा हि वयं नित्यं मुनिधर्मं समाश्रिताः
॥४७॥कौतूहलादिह प्राप्तश्चिरात्ते दर्शनं गतः ॥
मर्त्त्यलोकात्समायातो यास्यामि ब्रह्मणः पदम्
॥४८॥महिषासुर उवाच
क्वचिद्दृष्टं त्वया किञ्चिदाश्चर्यं भूतले मुने ॥
दैवं वा मानुषं वापि दानवा लंभिता विभो
॥४९॥नारद उवाच
अत्याश्चर्यं मया दृष्टं दानवेन्द्र धरातले ॥
यत्र दृष्टं क्वचित्पूर्वं त्रैलोक्ये सचराचरे
॥५०॥अस्त्यर्बुद इति ख्यातः पर्वतो धरणीतले ॥
सर्वर्तुपुष्पितैर्वृक्षैः शोभितः स्वर्गसन्निभः
॥५१॥बकुलैश्चंपकैश्चाम्रैरशोकैः कर्णिकारकैः ॥
शालैस्तालैश्च खर्जूरैर्वटैर्भल्लातकैर्धवैः
॥५२॥सरलैः पनसैर्वृक्षैस्तिंदुकैः करवीरकैः ॥
मंदारैः पारिजातैश्च मलयैश्चंदनैस्तथा
॥५३॥पुष्पजातिविशेषैश्च सुगंधैरप्यनेककैः ॥
खाद्यैः सर्वेस्तथा लेह्यैश्चोष्यैः फलवरैर्वृतः
॥५४॥न स वृक्षो न सा वल्ली नौषधी सा धरातले ॥
न तत्र याऽसुरज्येष्ठ पर्वते वीक्षिता मया
॥५५॥पक्षिणो मधुरारावाश्चकोरशिखिचातकाः ॥
कोकिला धार्तराष्ट्राश्च भ्रमराः श्वेतपत्रकाः
॥५६॥येषां शब्दं समाकर्ण्य मुनयोऽपि समाहिताः ॥
क्षोभं यांति त्रिकालज्ञाः कंदर्पशरपीडिताः
॥५७॥निर्झराणि सुरम्याणि नद्यश्च विमलोदकाः ॥
पद्मिनीखंडसंयुक्ता ह्रदाः शतसहस्रशः
॥५८॥पद्मपत्रविशालाक्षा मध्यक्षामाः शुचिस्मिताः ॥
विवेकिनो नरास्तत्र शास्त्रव्रतसमन्विताः
॥५९॥किं चात्र बहुनोक्तेन यत्किंचित्तत्र पर्वते ॥
स्वेदजांडजसंज्ञेया उद्भिज्जाश्च जरायुजाः ॥
सर्वलोकोत्तरास्तत्र दृश्यंते पर्वतोत्तमे
॥६०॥दशयोजनविस्तारो द्वाभ्यां संहितपर्वतः ॥
उच्चैः पंच च स श्रीमान्मर्त्ये स्वर्गो व्यजायत
॥६१॥तत्राऽहं कौतुकाविष्ट इतश्चेतश्च वीक्षयन् ॥
सर्वाश्चर्यमयीं नारीमपश्यं लोकसुंदरीम्
॥६२॥न देवी नापि गंधर्वी नासुरी न च मानुषी ॥
तादृग्रूपा मया दृष्टा न श्रुता च वरांगना
॥६३॥रतिः प्रीतिरुमा लक्ष्मीः सावित्री च सरस्वती ॥
तस्या रूपस्य लेशेन नैतास्तुल्याः स्त्रियोऽखिलाः
॥६४॥अहं दृष्ट्वा तथा रूपां नारीं कामेन पीडितः ॥
तदा दानवशार्दूल वैक्लव्यं परमं गतः
॥६५॥ततो धैर्यमवष्टभ्य मया मनसि चिंतितम् ॥
न करिष्ये समालापं तया सह च कर्हिचित्
॥६६॥यस्या दर्शनमात्रेण कामो मे हृदि वर्द्धितः ॥
तस्याः संभाषणेनेव किं भविष्यति मे पुनः
॥६७॥चिरकालं तपस्तप्तं ब्रह्मचर्येण वै मया ॥
नाशं यास्यति तत्सर्वं विषयैर्निर्जितस्य च ॥
तस्माद्गच्छामि चान्यत्र यावन्न विकृतिर्भवेत्
॥६८॥नारीनाम तपोविघ्नं पूर्वं सृष्टं स्वयंभुवा ॥
अर्गला स्वर्गमार्गस्य सोपानं नरकस्य च
॥६९॥तावद्धैर्यं तपः सत्यं तावत्स्थैर्यं कुलत्रपा ॥
यावत्पश्यति नो नारीमैकांते च विशेषतः
॥७०॥एतत्संचिंत्य बहुधा निमील्य नयने ततः ॥
अप्रजल्प्य वरारोहां तामहं चात्र संस्थितः
॥७१॥पुलस्त्य उवाच
नारदस्य वचः श्रुत्वा महिषः कामपीडितः ॥
श्रवणादपि राजेंद्र पुनः पप्रच्छ तं मुनिम्
॥७२॥महिषासुर उवाच
काऽसौ ब्राह्मणशार्दूल तादृग्रूपा वरांगना ॥
यस्याः संदर्शनादेव भवानेव स्मरान्वितः
॥७३॥देवी वा मानुषी वापि यक्षिणी पन्नगी मुने ॥
कुमारी वा सकांता वा ब्रूहि सर्वं सविस्तरम्
॥७४॥नारद उवाच
न सा पृष्टा मया किंचिन्न जानामि तदन्वयम् ॥
एतन्मे वर्त्तते वित्ते सा कुमारी यशस्विनी
॥७६॥अक्षमालाधरा बाला कमंडलुसमन्विता ॥
तपस्तेपे गिरौ तत्र हेतुना केनचिच्छुभा
॥७६॥सोऽहं यास्यामि दैत्येश ब्रह्मलोकं सनातनम् ॥
नोत्सहे तत्कथां कर्तुं कामबाणभयातुरः
॥७७॥एवमुक्त्वा ततो राजन्ब्रह्मलोकं गतो मुनिः ॥
महिषोऽपि स्मराविष्टश्चरं तस्याः समादिशत्
॥७८॥गत्वा भवान्द्रुतं तत्र दृष्ट्वा तां च वरांगनाम् ॥
किमर्थं सा तपस्तेपे को वै तस्याः परिग्रहः
॥७९॥अथाऽसौ महिषादेशाद्दूतो गत्वार्बुदाचलम् ॥
दृष्ट्वा तां पद्मगर्भाभां ज्ञात्वा सर्व विचेष्टितम्
॥८०॥तस्मै निवेदयामास महिषाय सविस्मयः ॥
दृष्टा दैत्यवर स्त्री च सर्वलक्षणलक्षिता
॥८१॥देवतेजोभवा कन्या साऽद्यापि वरवर्णिनी ॥
त्वद्वधार्थं तपस्तेपे कौमारव्रतमाश्रिता
॥८२॥एवं तत्र भवंती स्म पृष्टाः सर्वे तपस्विनः ॥
सत्यमेतन्महाभाग कुरुष्व यदनंतरम्
॥८३॥तस्या रूपं वयः कांतिर्वर्णितुं नैव शक्यते ॥
नालापं कुरुते बाला सा केनापि समं विभौ
॥८४॥पुलस्त्य उवाच
तच्छ्रुत्वा महिषो वाक्यं भूयः कामनिपीडितः ॥
दूतं संप्रेषयामास दानवं च विचक्षणम्
॥८५॥विचक्षण द्रुतं गत्वा मदर्थे तां तपस्विनीम् ॥
सामभेदप्रदानेन दंडेनापि समानय
॥८६॥अथाऽसौ प्रययौ शीघ्रं प्रणिपत्य विचक्षणः ॥
अर्बुदे पर्वतश्रेष्ठे यत्र सा परमेश्वरी ॥
प्रणम्य विनयोपेतो वाक्यमेतदुवाच ताम्
॥८७॥महिषो नाम विख्यातस्त्रैलोक्याधिपतिर्बली ॥
दनुवंशसमुद्भूतः कामरूपसमन्वितः
॥८८॥स त्वां वांछति कल्याणि धर्मपत्नीं स्वधर्मतः ॥
तस्माद्वरय भद्रं ते सर्वकामप्रदं पतिम्
॥८९॥यदि स्यात्तव कांतोऽसौ त्वं च तस्य तथा प्रिया ॥
तत्कृतार्थं द्वयोरेव यौवनं नात्र संशयः
॥९०॥एवमुक्ता ततस्तेन देवी वचनमब्रवीत् ॥
किञ्चित्कोपसमायुक्ता मुहुः प्रस्फुरिताधरा
॥९१॥देव्युवाच
अवध्यः सर्वथा दूतः सर्वत्र परिकीर्तितः ॥
अवस्थासु ततो न त्वं सहसा भस्मसात्कृतः
॥९२॥गत्वा ब्रूहि दुराचारं महिषं दानवाधमम् ॥
नाहं शक्या त्वया पाप लब्धुं नान्येन केनचित्
॥९३॥वधार्थं ते समुद्योग एष सर्वो मया कृतः ॥
तस्यास्तद्वचनं श्रुत्वा महिषं स पुनर्ययौ
॥९४॥भयेन महताविष्टस्तस्या रूपेण विस्मितः ॥
सर्वं निवेदयामास महिषाय विचेष्टितम् ॥
तस्याश्चैव तथाऽऽलापानस्पृहत्वं च कृत्स्नशः
॥९५॥तच्छुत्वा महिषो राजन्कामबाणप्रपीडितः ॥
सेनापतिं समाहूय वाक्यमेतदुवाच ह
॥९६॥अर्बुदे पर्वते सेनां कल्पयस्व सुदुर्धराम् ॥
हस्त्यश्वकल्पितां भीमां रथपत्तिसमाकुलाम्
॥९७॥ततोऽसौ कल्पयामास चतुरंगां वरूथिनीम् ॥
पताकाच्छत्रशबलां वादित्रारावभूषिताम्
॥९८॥ततो द्विपाश्च संनद्धा दृश्यंतेऽधिष्ठिता भटैः ॥
इतश्चेतश्च धावन्तः सपक्षाः पर्वता इव
॥९९॥अश्वाश्चैवाप्यकल्माषा वायुवेगाः सुवर्चसः ॥
अंगत्राणसमायुक्ताः शतशोऽथ सहस्रशः
॥१००॥विमानप्रतिमाकारा रथास्तेन प्रकल्पिताः ॥
किंकिणीजालसद्घंटापताकाभिरलंकृताः
॥१०१॥पत्तयश्च महाकाया महेष्वासा महाबलाः ॥
असिचर्मधराश्चान्ये प्रासपट्टिशपाणयः
॥१०२॥लक्षमेकं मतंगानां रथानां त्रिगुणं ततः ॥
अश्वा दशगुणा राजन्नसंख्याताः पदातयः
॥१०३॥ततश्चार्बुदमासाद्य वेष्टयित्वा स दूरतः ॥
संमितैः सचिवैः सार्धं तदंतिकमुपाद्रवत्
॥१०४॥ध्यानस्थां वीक्ष्य तां देवीं कन्दर्पशरपीडितः ॥
ततोऽब्रवीत्स तां वाक्यं विनयेन समन्वितः
॥१०५॥श्रुत्वा तवेदृशं रूपमहं प्राप्तो वरानने ॥
गांधर्वेण विवाहेन तस्माद्वरय मां द्रुतम्
॥१०६॥षष्टिभार्यासहस्राणि मम संति शुचिस्मिते ॥
कृत्वा मां दर्पितं कांतं तासां त्वं स्वामिनी भव
॥१०७॥अनर्हं ते तपो बाले भुंक्ष्व भोगान्यथेप्सितान् ॥
त्रैलोक्यस्वामिनी भूत्वा मया सार्धमहर्निशम्
॥१०८॥एवमुक्ताऽपि सा तेन नोत्तरं प्रत्यभाषत ॥
ततः कामसमाविष्टस्तदंतिकमुपाययौ
॥१०९॥ततस्तं लोलुपं दृष्ट्वा सा देवी कोपसंयुता ॥
अस्मरद्वाहनं सिंहं समायातः स साऽऽरुहत्
॥११०॥अब्रवीत्परुषं वाक्यं गच्छगच्छेति चासकृत् ॥
नो चेत्त्वां च वधिष्यामि स्थानेऽस्मिन्दानवाधम
॥१११॥अथाऽसौ सचिवैः सार्द्धं समंतात्पर्यवेष्टयत् ॥
प्रग्रहार्थं तु तां देवीं कामबाणप्रपीडितः
॥११२॥ततो जहास सा देवी सशब्दं परमेश्वरी ॥
तस्मादहर्निशं सार्द्धं निष्क्रांता पुरुषा घनाः
॥११३॥सुसन्नद्धाः सशस्त्राश्च रोषेण महताऽन्विताः ॥
ततस्तानब्रवीद्देवी पापोऽयं वध्यतामिति
॥११४॥ततस्ते सहिताः सर्वे महिषं समुपाद्रवन् ॥
तिष्ठतिष्ठेति जल्पन्तो मुंचन्तोऽस्त्रणि भूरिशः
॥११५॥ततः समभवद्युद्धं गणानां दानवैः सह ॥
ततस्ते सचिवाः सर्वे वैवस्वतगृहं गताः
॥११६॥अथाऽसौ महिषो रुष्टः सचिवैर्विंनिपातितैः ॥
स्वसैन्यमानयामास तस्मिन्पर्वतरोधसि
॥११७॥रथप्रवरमारुह्य सारथिं समभाषत ॥
नय मां सारथे तूर्णं यत्र साऽऽस्ते व्यवस्थिता
॥११८॥हत्वैनामद्य यास्यामि पारं रोषस्य दुस्तरम् ॥
एवमुक्तस्ततो राजन्प्रेरयामास सारथिः
॥११९॥रथं तेनैव मार्गेण यत्र सा तिष्ठते ध्रुवम् ॥
एतस्मिन्नेव काले तु तत्रोत्पाताः सुदारुणाः
॥१२०॥बहवस्तेन मार्गेण येनासौ प्रस्थितो नृप ॥
सम्मुखः प्रववौ वातो रूक्षः कर्करसंयुतः
॥१२१॥पपात महती चोल्का निहत्य रविमंडलम् ॥
अपसव्यं मृगाश्चक्रुस्तस्य मार्गे नृपोत्तम
॥१२२॥उपविष्टास्तथा वांता बहुमूत्रं प्रसुस्रुवुः ॥
रथध्वजे समाविष्टो गृध्रः शब्दमथाकरोत्
॥१२३॥स तान्सर्वाननादृत्य महोत्पातान्सुदारुणान् ॥
प्रययौ सम्मुखस्तस्या देव्याः कोपपरायणः
॥१२४॥विमुंचंश्च शरान्नादांस्तिष्ठतिष्ठेति च ब्रुवन् ॥
न कश्चिद्दृश्यते तत्र तेषां मध्ये नृपोत्तम
॥१२५॥महिषं रोषसंयुक्तं यो वारयति संगरे ॥
तेन हत्वा गणगणान्कृतं रुधिरकर्दमम्
॥१२६॥ततो देवी समासाद्य प्रोक्ता गर्वेण पार्थिव ॥
न त्वया संगरो भीरु नूनं कर्तुं ममोचितः
॥१२७॥न च बालिशि मे वीर्यं न सौभाग्यं न वा धनम् ॥
न करोषि हि तेन त्वं मम वाक्यं कथञ्चन
॥१२८॥नूनं तत्त्वेन जानामि अवलिप्तासि भामिनि ॥
कुरुष्वाद्यापि मे वाक्यं भार्या भव मम प्रिया
॥१२९॥स्त्रियं त्वां नोत्सहे हंतुं पौरुषे च व्यवस्थितः ॥
असकृन्निर्जितः संख्ये मया शक्रः सुरैः सह
॥१३०॥त्रैलोक्ये नास्ति मत्तुल्यः पुमान्कश्चिच्च बालिशि ॥
एवमुक्ता ततो देवी कोपेन महताऽन्विता
॥१३१॥प्रगृह्य सशरं चापं वाक्यमेतदुवाच ह ॥
नालापो युज्यते पाप कर्तुं सह मम त्वया
॥१३२॥कुमार्याः कामयुक्तेन तथापि शृणु मे वचः ॥
न त्वया निर्जितः शक्रः स्ववीर्येण रणाजिरे
॥१३३॥पितामह वरं देवा मन्यंते दानवाधम ॥
गौरवात्तस्य तेन त्वमात्मानं मन्यसेऽधिकम्
॥१३४॥मुक्त्वैकां कामिनीं पाप त्वं कृतः पद्मयोनिना ॥
अवध्यः सर्वसत्त्वानां पुंसः जातौ धरातले
॥१३५॥पितामहवरः सोऽत्र जयशीलोऽसि दानव ॥
यदि ते पौरुषं चास्ति तच्छीघ्रं संप्रदर्शय
॥१३६॥एषा त्वामिषुभिस्तीक्ष्णैर्नयामि यमसादनम् ॥
एवमुक्त्वा ततो देवी शरानष्टौ मुमोच ह
॥१३७॥चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥
सारथेश्च शिरः कायाच्छरेणैकेन चाक्षिपत्
॥१३८॥ध्वजं चिच्छेद चैकेन ततोऽन्येन हृदि क्षतः ॥
स गात्रविद्धो व्यथितो ध्वजयष्टिं समाश्रितः
॥१३९॥मूर्छया सहितो राजन्किंचित्कालमधोमुखः ॥
ततः स चेतनो भूत्वा मुमोच निशिताञ्छरान्
॥१४०॥देवी सखीसमायुक्ता सर्वदेशेष्वताडयत् ॥
ततः क्षुरप्रबाणेन धनुस्तस्य द्विधाऽकरोत्
॥१४१॥छिन्नधन्वा ततो दैत्यश्चर्मखङ्गसमन्वितः ॥
विद्राव्य सहसा देवीं तिष्ठतिष्ठेति चाब्रवीत्
॥१४२॥तस्य चापततस्तूर्णं खड्गं द्वाभ्यां ह्यकृन्तयत् ॥
शराभ्यामर्धबाणेन प्रहस्य प्रासमेव च
॥१४३॥विशस्त्रो विरथो राजन्स तदा दानवाधमः ॥
ततोऽस्मरच्छरान्भूप शस्त्राणि विविधानि च
॥१४४॥ब्रह्मास्त्रं मनसि ध्यायंस्तृणं तस्यै मुमोच सः ॥
मुक्तेनास्त्रेण तस्मिंस्तु धूमवर्तिर्व्यजायत
॥१४५॥एतस्मिन्नेव काले तु स ब्रह्मास्ते दिवौकसः ॥
परं भयमनुप्राप्ता दृष्ट्वा तस्य पराक्रमम्
॥१४६॥ततो देवी क्षणं ध्यात्वा तदस्त्रं पार्थिवोत्तम ॥
ब्रह्मास्त्रेणाहनत्तूर्णं ततो व्यर्थं व्यजायत
॥१४७॥ब्रह्मास्त्रे विफले जाते ह्याग्नेयं दानवोत्तमः ॥
प्रेषयामास तां क्रुद्धो ह्यहनद्वारुणेन सा
॥१४८॥एवं नानाप्रकाराणि तेन मुक्तानि सा तदा ॥
अस्त्राणि विफलान्येव चक्रे देवी सहस्रशः
॥१४९॥एवं निःशेषितास्त्रोऽसौ दानवो बलवत्तरः।
. चकार परमां मायां दिव्यैरस्त्रैः सुरेश्वरी
॥१५०॥व्यक्षिपच्च महाकायं महिषं पर्वताकृतिम् ॥
दीर्घतीक्ष्णविषाणाभ्यां युक्तमंजनसंनिभम्
॥१५१॥सिंहस्कंधं च सा देवी ततस्तमध्यरोहत ॥
खड्गेन तीक्ष्णेन शिरो देवी तस्य न्यकृंतत ॥
शूलेन भेदयामास पृष्ठदेशे सुरेश्वरी ॥
ततः कलेवरात्तस्मान्निश्चक्राम महान्पुमान्
॥१५३॥चर्मखड्गधरो रौद्रस्तिष्ठतिष्ठेति चाब्रवीत् ॥
तमप्येवं गृहीत्वा तत्केशपाशे सुरेश्वरी
॥१५४॥निस्त्रिंशेनाहनत्प्रोच्चैः स च प्राणैर्व्ययुज्यत ॥
दानवः पार्थिवश्रेष्ठ पार्श्वे सिंहविदारिते
॥१५५॥ततो जघान भूयोऽपि दानवान्सा रुषान्विता ॥
हतशेषाश्च ये दैत्या निर्भिद्य धरणीतलम्
॥१५६॥प्रविष्टा भयसंत्रस्ताः पातालं जीवितैषिणः ॥
ततो देव गणाः सर्वे वसवो मरुतोऽश्विनौ
॥१५७॥विश्वेदेवास्तथा साध्या रुद्रा गुह्यककिन्नराः ॥
आदित्याः शक्रसंयुक्ताः समेत्य परमेश्वरीम्
॥१५८॥समंताद्दिव्यपुष्पैश्च तां देवीं समवाकिरन् ॥
स्तुवंतो विविधैः स्तोत्रैर्नमंतो भक्तितत्पराः
॥१५९॥युक्तं कृतं महेशानि यद्धतः पापकृत्तमः ॥
त्रैलोक्यं सकलं ध्वस्तं पापेनानेन सुंदरि
॥१६०॥त्वया दत्तं पुना राज्यं वासवस्य त्रिविष्टपे ॥
तस्माद्वरय भद्रं ते वरं यन्मनसीप्सितम् ॥
सर्वे देवाः प्रसन्नास्ते प्रदास्यंति न संशयः
॥१६१॥देव्युवाच
यदि देवाः प्रसन्ना मे यदि देयो वरो मम ॥
आश्रमोऽत्रैव मे पुण्यो जायतां ख्यातिसंयुतः
॥१६२॥अस्मिंश्चाहं सदा देवाः स्थास्यामि वरपर्वते
॥१६३॥रूपेणानेन देवेशि ये त्वां द्रक्ष्यंति मानवाः ॥
आश्रमेऽत्र महापुण्ये ते यास्यंति परां गतिम्
॥१६४॥ब्रह्मज्ञानसमायुक्तास्ते भविष्यंति मानवाः
॥१६५॥यस्माच्चंडं कृतं कर्म त्वया दानवसूदनात् ॥
तस्मात्त्वं चंडिकानाम लोके ख्यातिं गमिष्यसि
॥१६६॥तव नाम्ना तथा ख्यात आश्रमोऽयं भविष्यति
॥१६७॥येऽत्र कृष्ण चतुर्द्दश्यामाश्विने मासि शोभने ॥
पिंडदानं करिष्यंति स्नानं कृत्वा समाहिताः
॥१६८॥गयाश्राद्धफलं कृत्यं तेषां देवि भविष्यति ॥
त्वद्दर्शनात्तथा मुक्तिः पातकस्य भविष्यति
॥१६९॥कृष्ण उवाच
एकरात्रिं भविष्यंति येऽत्र श्रद्धासमन्विताः ॥
उपवासपरास्तेषां पापं यास्यति संक्षयम्
॥१७०॥पुत्रहीनश्च यो मर्त्यो नारी वापि समाहिता ॥
तन्मनाः पिंडदानं वै तथा स्नानं करिष्यति ॥
अपुत्रो लभते शीघ्रं सुपुत्रं नात्र संशयः
॥१७१॥इन्द्र उवाच
भ्रष्टराज्यो नृपो योऽत्र स्नानं दानं करिष्यति ॥
सर्वशत्रुक्षयस्तस्य राज्यावाप्तिर्भविष्यति
॥१७२॥अग्निरुवाच
अत्रागत्य शुचिः श्राद्धं यः करिष्यति मानवः ॥
आत्मवित्तानुसारेण तस्य यज्ञफलं भवेत्
॥१७३॥यम उवाच
अत्र स्नात्वा तिलान्यस्तु ब्राह्मणेभ्यः प्रदास्यति ॥
अल्पमृत्युभयं तस्य न कदाचिद्भविष्यति
॥१७४॥राक्षसा ऊचुः
पिंडदानं नरा येऽत्र करिष्यंति तवाऽऽश्रमे ॥
प्रेतोत्थं न भयं तस्य देवि क्वापि भविष्यति
॥१७५॥वरुण उवाच
स्नानार्थं ब्राह्मणेंद्राणां योऽत्र तोयं प्रदास्यति ॥
विमलस्तु सदा भावि इह लोके परत्र च
॥१७६॥वायुरुवाच
विलेपनानि शुभ्राणि सुगंधानि विशेषतः ॥
योत्र दास्यति विप्रेभ्यो नीरोगः स भविष्यति
॥१७७॥धनद उवाच
योऽत्र वित्तं यथाशक्त्या ब्राह्मणेभ्यः प्रदास्यति ॥
न भविष्यति लोके स वित्तहीनः कथंचन
॥१७८॥ईश्वर उवाच
योऽत्र व्रतपरो भूत्वा चातुर्मास्यं वसिष्यति ॥
इह लोके परे चैव तस्य भावि सदा सुखम्
॥१७९॥वसव ऊचुः
त्रिरात्रं यो नरः सम्यगुपवासं करिष्यति ॥
आजन्ममरणात्पापान्मुक्तः स च भविष्यति
॥१८०॥आदित्य उवाच
अत्राश्रमपदे पुण्ये ये नरा भक्तिसंयुताः ॥
छत्रोपानत्प्रदातारस्तेषां लोकाः सनातनाः
॥१८१॥अश्विनावूचतुः
मिष्टान्नं श्रद्धयोपेतो ब्राह्मणाय प्रदास्यति ॥
योऽत्र तस्य परा प्रीतिर्भविष्यत्यविनाशिनी १
॥१८२॥तीर्थान्यूचुः
अद्यप्रभृति सर्वेषां तीर्थानामिह संस्थितिः ॥
भविष्यति विशेषेण ह्याश्रमे लोकविश्रुते
॥१८३॥कृष्णपक्षे चतुर्द्दश्यामाश्विने मासि भक्तितः ॥
उपवासपरो भूत्वा योऽत्र स्नानं करिष्यति ॥
सर्वेषामेव तीर्थानां स फलं हि लभिष्यति ॥
गंधर्वा ऊचुः ॥
गीतवाद्यानि यश्चात्र प्रकरिष्यति मानवः ॥
सप्तजन्मांतराण्येव रूपवान्स भविष्यति
॥१८५॥ऋषय ऊचुः
आश्रमेऽस्मिंस्त्रिरात्रं य उपवासं करिष्यति ॥
चांद्रायणसहस्रस्य फलं तस्य भविष्यति
॥१८६॥पुलस्त्य उवाच
एवं सर्वे वरान्दत्त्वा देव्यै देवा नृपोत्तम ॥
तदाज्ञया दिवं जग्मुर्देवी तत्रैव संस्थिता
॥१८७॥अथ मर्त्त्या दिवं जग्मुर्दृष्ट्वा देवीं तदाश्रमे ॥
अनायासेन संपूर्णास्ततो मर्त्यैस्त्रिविष्टपः
॥१८८॥अग्निष्टोमादिकाः सर्वाः क्रिया नष्टा धरातले ॥
धर्मक्रियास्तथा चान्या मुक्त्वा देव्याः प्रपूजनम्
॥१८९॥ततो भीतः सहस्राक्षः संमंत्र्य गुरुणा सह ॥
आह्वयामास वेगेन कामं क्रोधं भयं मदम्
॥१९०॥व्यामोहं गृहपुत्रोत्थं तृष्णामायासमन्वितम् ॥
गत्वा यूयं द्रुतं मर्त्ये स्थातुकामान्नरान्स्त्रियः
॥१९१॥चंडिकायतने पुण्ये सेवध्वं हि ममाज्ञया ॥
विशेषेणाश्विने मासि कृष्णपक्षेंऽत्यवासरे
॥१९२॥एवमुक्तास्ततः सर्वे कामाद्यास्ते द्रुतं ययुः ॥
मर्त्यलोके महाराज रक्षां चक्रुश्च सर्वशः
॥१९३॥एवं ज्ञात्वा द्रुतं गच्छ तत्र पार्थिवसत्तम ॥
यदीच्छसि परं श्रेय इह लोके परत्र च
॥१९४॥यो याति चंडिकां द्रष्टुमबुर्दं प्रति पार्थिव ॥
नृत्यंति पितरस्तस्य गर्जंति च पितामहाः
॥१९५॥तारयिष्यति नः सर्वान्स पुत्रो य इहाश्रमे ॥
चंडिकायाः प्रगत्वाऽथ कुर्याच्छ्राद्धं समाहितः
॥१९६॥एकया लभ्यते राज्यं स्वर्गश्चैव द्वितीयया ॥
तृतीयया भवेन्मोक्षो यात्रया तत्र पार्थिव
॥१९७॥तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत् ॥
अर्बुदे पर्वतश्रेष्ठे सर्वतीर्थमये शुभे
॥१९८॥तत्र श्लोकः पुरा गीतो नारदेन महर्षिणा ॥
स्नात्वा तत्राश्रमे पुण्ये बहुविप्र समागमे
॥११९॥पुनंत्येवान्यतीर्थानि स्नानदानैरसंशयम् ॥
अर्बुदालोकनादेव विपाप्मा तत्र जायते
॥२००॥यः शृणोति सदाख्यानमेत च्छ्रद्धासमन्वितः ॥
स प्राप्नोति नरश्रेष्ठ कामान्मनसि वांछितान्
॥२०१॥यस्यैतत्तिष्ठते गेहे लिखितं पुस्तकं नृप ॥
तस्यापि वांछिताः कामाः संपद्यते दिनेदिने
॥२०२॥पठति श्रद्धयोपेतो यो वा भूमिपते नरः ॥
सोऽपि यात्राफलं राजँल्लभते पुरुषोत्तमः
॥२०३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे .तृतीयेऽर्बुदखण्डे चंडिकाश्रमोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥