मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय २७

3
प्रभासखण्डः · अर्बुदखण्डः · 27

चक्रतीर्थप्रभाववर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ चक्रतीर्थमनुत्तमम् ॥

यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना

॥१॥

निहत्य दानवान्संख्ये कृत्वा स्नानं सुनिर्झरे ॥

विष्णुः प्राक्षालयत्तोयं तेन तन्मेध्यतां गतम्

॥२॥

तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः ॥

आकल्पं पितरस्तस्य तृप्तिं यांति नराधिप

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे चक्रतीर्थप्रभाववर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥