मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ६३

3
प्रभासखण्डः · अर्बुदखण्डः · 63

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि

पुलस्त्य उवाच

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

अर्बुदस्य महाराज माहात्म्यं हि समासतः

॥१॥

विस्तरेण च संख्या स्यादपि वर्षशतैरपि ॥

असंख्यानीह तीर्थानि पुण्यान्यायतनानि च ॥

पदेपदे गृहाण्येव निर्मितानि महर्षिभिः

॥२॥

न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते ॥

न सा नदी न देवेशो यस्य तत्रास्ति न स्थितिः

॥३॥

ये वसंति महाराज सुरम्येऽर्बुदपर्वते ॥

नूनं ते पुण्यकर्माणो न वसंति त्रिविष्टपे

॥४॥

किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप ॥

यो न पश्यति मन्दात्मा समन्तादर्बुदाचलम्

॥५॥

अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥

स्वेदजाश्चाण्डजाश्चापि ह्युद्भिज्जाश्च जरायुजाः

॥६॥

तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा ॥

ते यान्ति शिवसायुज्यं जरा मरणवर्जितम्

॥७॥

यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः ॥

अर्बुदस्य महाराज स यात्राफलमश्नुते

॥८॥

तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत् ॥

य इच्छेदात्मनः सिद्धिमिह लोके परत्र च

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे तृतीयमर्बुदखण्डं सम्पूर्णम्