मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३०

3
प्रभासखण्डः · अर्बुदखण्डः · 30

तृतीयेऽर्बुदखण्डेऽग्नितीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

अग्नितीर्थं ततो गच्छेत्पावनं परमं नृणाम् ॥

तत्र वह्निः पुरा नष्टो लब्धश्च त्रिदशैरपि

॥१॥

ययातिरुवाच

किमर्थं भगवन्वह्निः पुरा नष्टो द्विजोत्तम ॥

कथं तत्रैव लब्धस्तु कौतुकं मे महामुने

॥२॥

पुलस्त्य उवाच

पुरा वृष्टिनिरोधोऽभूद्यावद्द्वादशवत्सरान् ॥

संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः

॥३॥

प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले ॥

नष्टा अरण्यजा ग्राम्याः पशवः पक्षिणो मृगाः

॥४॥

एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः ॥

विश्वामित्रो मुनिवरः संदेहं परमं गतः

॥५॥

अन्नौषधिरसाभावादस्थिशेषो व्यजायत ॥

अन्यस्मिन्दिवसे प्राप्तः क्षुत्क्षामः पर्यटन्दिशः

॥६॥

चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम् ॥

तत्रापश्यन्मृतं श्वानं शुष्कं पार्थिवसत्तम

॥७॥

तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु ॥

क्षुत्क्षामः पाचयामास ततस्तं पावकेऽजुहोत्

॥८॥

अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप ॥

शक्रस्योपरि मन्युं स्वं चक्रेऽतीव महीपते

॥९॥

नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम् ॥

यादृगाप्तं हविस्तादृगग्निभक्षो विशिष्यते

॥१०॥

नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम् ॥

येन शक्रादयो देवा यांति कष्टतरां दशाम्

॥११॥

एवं संचिंत्य मनसा सकोपो हव्यवाहनः ॥

प्रणष्टः सकलं हित्वा मर्त्यलोकं चराचरम्

॥१२॥

प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः ॥

प्रणष्टास्तु जनाः सर्वे विशेषात्संशयं गताः

॥१३॥

ततो देवगणाः सर्वे संदेहं परमं गताः ॥

यज्ञभागविहीनत्वान्मंत्रं चक्रुस्ततो मिथः

॥१४॥

त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः ॥

शेषनाशाद्वयं सर्वे विनंक्ष्यामो न संशयः

॥१५॥

तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम् ॥

यथा चरति मर्त्ये च तथा नीतिर्विधीयताम्

॥१६॥

पुलस्त्य उवाच

एवं ते निश्चयं कृत्वा सर्वे देवाः सवासवाः ॥

अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले

॥१७॥

ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः ॥

पप्रच्छुः श्रद्धया वह्निर्यदि दृष्टः प्रकथ्यताम्

॥१८॥

शुक उवाच

योऽयं वंशो महानग्रे प्रदग्धो वह्निसंगतः ॥

प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः

॥१९॥

शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः ॥

गद्गदा भावि ते वाणी प्रोक्त्वेदं प्रस्थितो द्रुतम्

॥२०॥

प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम् ॥

तत्रस्थो द्विपराज्ञा स कथितो विबुधान्प्रति

॥२१॥

स तं प्रोवाच ते जिह्वा विपरीता भविष्यति ॥

ततो जलाशयं गत्वा पर्वतेऽर्बुदसंज्ञके

॥२२॥

प्रविष्टो भगवान्वह्निर्यथा देवैर्न लक्ष्यते ॥

तत्रोत्थेन दर्दुरेण तेषां प्रोक्तो हुताशनः

॥२३॥

अत्राऽसौ तिष्ठते वह्निर्निर्झरे पर्वतस्य च ॥

दग्धाश्च जलजाः सर्वे सुतप्तेनैव वारिणा

॥२४॥

कृच्छ्रादहं विनिष्क्रांतस्तस्मान्मृत्युमुखात्सुराः ॥

तच्छ्रुत्वा यत्नमास्थाय प्रविष्टो हव्यवाहनः

॥२५॥

भविष्यसि विजिह्वस्त्वं शप्त्वा तं दर्दुरं नृपः

॥२६॥

ततो देवगणाः सर्वे निष्क्रांताः सलिलाश्रयात् ॥

संवेष्ट्य तुष्टुवुः सर्वे स्तवैर्वेदोद्भवैर्नृप

॥२७॥

देवा ऊचुः

त्वमग्ने सर्वभूतानामंतश्चरसि पावक ॥

त्वया हीनं जगत्सर्वं नाशं यास्यति सत्वरम्

॥२८॥

त्वं मुखं सर्वदेवानां त्वयि लोकाः प्रतिष्ठिताः ॥

भूलोके च त्वया त्यक्ते वयं सर्वे सवासवाः ॥

विनाशमेव यास्यामस्तस्मात्त्वं त्रातुमर्हसि

॥२९॥

त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं दिवाकरः ॥

त्वं चंद्रस्त्वं च धनदो मरुत्त्वं च सुरेश्वरः

॥३०॥

इंद्राद्या विबुधाः सर्वे त्वदायत्ता हुताशन ॥

किमर्थं भगवन्मर्त्त्यं त्यक्त्वा त्वमत्र संस्थितः ॥

किमर्थं भगवन्नस्माननागांस्त्यक्तुमिच्छसि

॥३१॥

पुलस्त्य उवाच

वेष्टितो भगवान्वह्निर्देवैः स्तुतिपरायणैः ॥

तस्यैव निर्झरस्याथ तटस्थो वाक्यमब्रवीत्

॥३२॥

वह्निरुवाच

अभक्ष्यभक्षणे शक्रो मामिच्छति नियोजितुम् ॥

तेनैव न करोत्येष वृष्टिं मर्त्त्ये सुरेश्वरः

॥३३॥

अतोऽहं भूतलं त्यक्त्वा प्रविष्टो निर्झरे त्विह ॥

प्रणष्टान्नरसे लोके न चाहं स्थातुमुत्सहे

॥३४॥

शक्र उवाच

शृणु यस्मान्मया रोधः कृतो वृष्टेर्हुताशन ॥

देवापिर्नाम धर्मज्ञः क्षत्रियाणां यशस्करः

॥३५॥

प्रतीपस्तत्सुतः साधुः सर्वशीलवतां वरः ॥

देवापौ च गते स्वर्गं ज्येष्ठभ्रातरमग्रजम् ॥

संत्यक्त्वा जगृहे राज्यं शंतनुस्तत्सुतोऽवरः

॥३६॥

एतस्मात्कारणाद्राज्ये तस्य वृष्टिर्निराकृता ॥

तवादेशात्करिष्यामि निवर्तस्व हुताशन

॥३७॥

पुलस्त्य उवाच

एवमुक्त्वा सहस्राक्षः पुष्करावर्तकान्घनान् ॥

द्रुतमाज्ञापयामास वृष्ट्यर्थं जगतीतले

॥३८॥

अथ शक्रसमादिष्टा विद्युत्वन्तो बलाहकाः ॥

गम्भीरराविणः सर्वं भूतलं प्रचुरैर्जलैः ॥

पूरयामासुरत्युग्रा द्युतिमन्तो महीपते

॥३९॥

ततोऽगमत्परां तुष्टिं भगवान्हव्यवाहनः ॥

रोचयामास भूपृष्ठे वसतिं देवकारणात्

॥४०॥

देवा ऊचुः

तवाऽऽदेशात्कृता वृष्टिरन्यत्कार्यं हुताशन ॥

यत्ते प्रियं तदस्माकं सुशीघ्रं हि निवेदय

॥४१॥

अग्निरुवाच

एतज्जलाशयं पुण्यं मन्नाम्ना तीर्थमुत्तमम् ॥

ख्यातिं यातु धरापृष्ठे युष्माकं हि प्रसादतः

॥४२॥

देवा ऊचुः

अग्नितीर्थमिदं लोके प्रख्यातिं संप्रयास्यति ॥

अत्र स्नातो नरः सम्यगग्निलोकं प्रयास्यति

॥४३॥

यस्तिलान्दास्यति नरस्तीर्थेऽस्मिन्सुसमाहितः ॥

अग्निष्टोमस्य यज्ञस्य फलं तस्य भविष्यति

॥४४॥

पुलस्त्य उवाच

एवमुक्त्वा सुराः सर्वे स्वस्वस्थानं ययुस्ततः ॥

वह्निश्च भगवान्राजन्यथापूर्वमवर्तत

॥४५॥

यश्चैत्पठते नित्यं प्रातरुत्थाय चोत्तमम् ॥

अग्नितीर्थस्य माहात्म्यं मुच्यते सर्वपातकैः

॥४६॥

अहोरात्रकृतात्पापात्स शृण्वन्नपि मुच्यते

॥४७॥

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽग्नितीर्थमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥