मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४

3
प्रभासखण्डः · अर्बुदखण्डः · 4

तृतीयेऽर्बुदखंडेऽचलेश्वरोत्पत्तिवर्णनम्

सूत उवाच

स कृत्वा स्वाश्रमं तत्र वसिष्ठो भगवान्मुनिः ॥

तत्र शंभोर्निवासाय तपस्तेपे सुदारुणम्

॥१॥

स बभूव मुनिः सम्यक्फलाहारसमन्वितः ॥

शीर्ण पर्णाशनः पश्चाद्द्वे शते समपद्यत

॥२॥

जलाहारः पञ्चशतवर्षाणि संबभूव ह ॥

वर्षाणां वायुभक्षोऽभूत्ततो दशशतानि च

॥३॥

पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः ॥

वर्षास्वाकाशवासी च सहस्रं च ततोऽभवत्

॥४॥

ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः ॥

भित्त्वा तं पर्वतं सद्यस्तत्पुरो लिंगमुत्थितम् ॥

तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्

॥५॥

नमः शिवाय शुद्धाय सर्वगायाऽमृताय च ॥

कपर्द्दिने नमस्तुभ्यं नमस्तस्मै त्रिमूर्त्तये

॥६॥

नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने ॥

निषंगिणे नमस्तुभ्यं त्रिनेत्राय नमोनमः

॥७॥

नमश्चन्द्रकलाधार नमो दिग्वसनाय च ॥

पिनाकपाणये तुभ्यमष्टमूर्ते नमोनमः

॥८॥

नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः ॥

नमस्ते ज्ञानदेहाय सर्वज्ञानमयाय च

॥९॥

काशीपते नमस्तुभ्यं गिरिशाय नमोनमः ॥

जगत्कारणरूपाय महादेवाय ते नमः

॥१०॥

गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने ॥

ब्रह्मविष्णुस्वरूपाय त्रिनेत्राय नमोनमः

॥११॥

विश्वरूपाय शुद्धाय नमस्तुभ्यं महात्मने ॥

नमो विश्वस्वरूपाय सर्वदेवमयाय च

॥१२॥

सूत उवाच

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

परितुष्टोऽस्मि ते भद्रं वरं वरय सुव्रत

॥१३॥

इत्युक्त्वा पर्वतं भित्त्वा तत्पुरो लिंगमुत्थितम्

॥१४॥

वसिष्ठ उवाच

लिंगेऽस्मिंस्तव सांनिध्यं सदा भवतु शंकर ॥

मया पूर्वं प्रतिज्ञातं नगस्येह महात्मने ॥

सत्यं कुरु वचो मे त्वं यदि तुष्टोऽसि शंकर

॥१५॥

श्रीभगवानुवाच

अद्यप्रभृति लिंगेऽस्मिन्सांनिध्यं मे भविष्यति ॥

त्वद्वाक्याद्ब्राह्मणश्रेष्ठ सर्वं सत्यं भविष्यति

॥१६॥

स्तोत्रेणानेन यो मर्त्यो मां स्तविष्यति भक्तितः ॥

कृष्णपक्षे चतुर्दश्यामाश्विने मुनिसत्तम

॥१७॥

मत्प्रियार्थं तु शक्रेण प्रेषिता मुनिसत्तम ॥

मन्दाकिनीति विख्याता नदी त्रैलोक्यपाविनी

॥१८॥

देवस्योत्तरदिग्भागे कुंडं तिष्ठति नित्यशः ॥

तस्यां स्नात्वा मुनिश्रेष्ठ लिंगं मे पश्यते तु यः ॥

स याति परमं स्थानं जरामरणवर्जितम्

॥१९॥

अचलं भेदयित्वा तु यस्मान्मे लिंगमुद्गतम् ॥

अचलेश्वरनाम्नैव लोके ख्यातिं गमिष्यति

॥२०॥

अस्य लिंगस्य माहात्म्यान्न कदाचिच्चलिष्यति ॥

सर्वथा म इदं लिंगं प्रलयान्ते न चाल्यते

॥२१॥

सूत उवाच

एतावदुक्त्वा वचनं विरराम महेश्वरः ॥

वसिष्ठोऽपि सुहृष्टात्मा गौतमाद्या मुनीश्वराः

॥२२॥

शक्रादयस्ततो देवास्तीर्थान्यायतनानि च ॥

आनयामास ब्रह्मर्षिस्तपसा पर्वतोत्तमे

॥२३॥

ततस्तुष्टः सुरश्रेष्ठस्तत्र वासमथाकरोत्

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥