मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ३२

3
प्रभासखण्डः · अर्बुदखण्डः · 32

विनायकमाहात्म्यवर्णनम्

पुलस्त्य उवाच

महाविनायकं गच्छेत्ततः पार्थिवसत्तम ॥

यस्मिन्दृष्टे नृणां सद्यो निर्विघ्नत्वं प्रजायते

॥१॥

ययातिरुवाच

कथं महत्त्वमगमत्पूर्वं तत्र विनायकः ॥

कस्मिन्काले द्विजश्रेष्ठ सर्वं विस्तरतो वद

॥२॥

पुलस्त्य उवाच

पुरोद्वर्त्तनजं लेपं गृहीत्वा नृप पार्वती ॥

विनोदार्थं चकाराथ बालकं सुकुमारकम्

॥३॥

लेपाभावाच्छिरोहीनं शेषांगावयवं नृप ॥

यथोक्तं निर्मयित्वा तं स्कन्दं वाक्यमथाब्रवीत्

॥४॥

लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम् ॥

येनायं पुत्रको मे स्याद्भ्राता ते परदुर्जयः

॥५॥

ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम ॥

मत्तं गजवरं दृष्ट्वा शिरस्तस्य समानयत्

॥६॥

तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे ॥

महद्धीदं शिरो भावि पुत्र कस्मात्त्वयाऽऽहृतम्

॥७॥

ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः ॥

न्यस्ते शिरसि तद्गात्रे दैवयोगान्नराधिप

॥८॥

विशेषान्नायकत्वं च गात्रेभ्यः समजायत ॥

बालकप्रतिमं कान्तं सर्वलक्षणलक्षितम्

॥९॥

त्रिगंभीरं चतुर्हस्तं सप्तरक्तं महीपते ॥

षडुन्नतं पञ्चदीर्घं पश्चसूक्ष्मं सुसुन्दरम्

॥१०॥

त्रिविस्तीर्णं महाराज दृष्ट्वा गौरी सुविस्मिता ॥

सजीवं कारयामास स्वशक्त्या शक्तिरूपिणी

॥११॥

स सजीवः कृतो देव्या समुत्तस्थौ च तत्क्षणात् ॥

आदेशं याचयामास विनयानतकन्धरः

॥१२॥

तं दृष्ट्वा चाद्भुताकारं प्रोक्त्वा पुत्रं मुहुर्मुहुः ॥

शंभोः सकाशमनयत्प्रहृष्टेनान्तरात्मना

॥१३॥

ततोऽब्रवीत्सुतं देव ममैव गात्रलेपजम् ॥

देहि देव वरानित्थं महत्त्वं येन गच्छति

॥१४॥

श्रीभगवानुवाच

शरीरस्थं शिरो मुख्यं यस्मात्पर्वतनन्दिनि ॥

महत्त्विदं शिरः प्रोक्तं त्वया स्कन्देन योजितम्

॥१५॥

विशेषान्नायकत्वं च गात्रे चास्य यतः स्थितम् ॥

महाविनायको ह्येष तस्मान्नाम्ना भविष्यति

॥१६॥

गणानां चैव सर्वेषामाधिपत्यं नगात्मजे ॥

अस्य दत्तं मया यस्माद्भविष्यति गणाधिपः

॥१७॥

सर्वकार्येषु ये मर्त्याः पूर्वमेनं गणाधिपम् ॥

स्मरिष्यंति न वै तेषां कार्यहानिर्भविष्यति

॥१८॥

ततोऽस्य प्रददौ स्कन्दः प्रक्रीडार्थं कुठारकम् ॥

तदेव चायुधं तस्य सुप्रियं हि सदाऽभवत्

॥१९॥

ततो गौरी ददौ भोज्यपात्रं मोदकपूरितम् ॥

पुत्रस्नेहात्स तत्प्राप्य लास्यमेवं तदाऽकरोत्

॥२०॥

तस्य भक्ष्यस्य गन्धेन निष्क्रान्तो मूषको बिलात् ॥

भक्षणाच्चामरो जातस्तस्य वाह्यो व्यजायत

॥२१॥

पुलस्त्य उवाच

महाविनायको ह्येवं तत्र जातो मही पते ॥

तस्मिन्दृष्टे च यत्पुण्यं तत्त्वमेकमनाः शृणु

॥२२॥

बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि यत् ॥

करोति मानवो राजंस्तस्मात्पापात्प्रमुच्यते

॥२३॥

माघमासे सिते पक्षे चतुर्थ्यां समुपोषितः ॥

यस्तं पश्यति वाग्ग्मी स सर्वज्ञश्च प्रजायते ॥

तस्याग्रे सुमहत्कुण्डं स्वच्छोदकपूरितम्

॥२४॥

तत्र स्नात्वा नरो भक्त्या यः पश्यति विनायकम् ॥

तस्यान्वयेऽपि सर्वज्ञा जायन्ते मानवा नृप

॥२५॥

गणानां त्वेति मंत्रेण कृत्वा वै त्रिः प्रदक्षिणम् ॥

यस्तं पश्यति राजेन्द्र दुरितं न स पश्यति

॥२६॥

तस्मात्सर्वप्रयत्नेन तं प्रपश्येद्विनायकम् ॥

य इच्छेत्सकलान्कामानिह लोके परत्र च

॥२७॥

गृहस्थोऽपि च यो भक्त्या स्मरेत्कार्य उपस्थिते ॥

अविघ्नं तस्य तत्सर्वं संसिद्धिमुपगच्छति

॥२८॥

प्रातरुत्थाय यो मर्त्यः स्मरेद्देवं विनायकम् ॥

तस्य तद्दिनजातानि सिद्धिं कृत्यानि यांति हि

॥२९॥

विवाहे कलहे युद्धे प्रस्थाने कृषिकर्मणि ॥

प्रवेशे च स्मरेद्यस्तु भक्तिपूर्वं विनायकम् ॥

तस्य तद्वांछितं सर्वं प्रसादात्तस्य सिद्ध्यति

॥३०॥

महाविनायकीं शांतिं यः करोति समाहितः ॥

न तं प्रेता ग्रहा रोगाः पीडयंति विनायकाः

॥३१॥

ययातिरुवाच

महावैनायिकीं शांतिं वद मे मुनिसत्तम ॥

के मंत्राः किं विधानं च परं कौतूहलं हि मे

॥३२॥

पुलस्त्य उवाच

शुक्लपक्षे शुभे वारे नक्षत्रे दोषवर्जिते ॥

श्रेष्ठचंद्रबले शांतिं गणेशस्य समाचरेत्

॥३३॥

पूर्वोत्तरे समे देशे कृत्वा वेदिं च मंडपम् ॥

मध्ये चाष्टदलं पद्मं गृह्यसूत्रं प्रयोजयेत्

॥३४॥

इन्द्रादिलोकपालांश्च दिक्षु सर्वासु भूपते ॥

गणेशपूर्विकाश्चापि मातरश्च विशेषतः

॥३५॥

गंधपुष्पोपहारैश्च यथोक्तैर्बलिविस्तरैः ॥

श्वेतवस्त्रयुगच्छन्नं कलशं जलपूरितम्

॥३६॥

तस्यैव पूर्वदिग्भागे सहिरण्यं फलान्वितम्

॥३७॥

गणानां त्वेति मंत्रेण सहस्रं चाष्टसंयुतम् ॥

जपेत्तत्र तथा चारून्पंचांगान्नृपसत्तम

॥३५॥

विनायकं समुद्दिश्य पुरः कुण्डे करात्मके ॥

चतुरस्रे योनियुते मेखलाभिर्विभूषिते

॥३९॥

मधुदूर्वाक्षतैहोमैर्ग्रहहोमादनंतरम् ॥

गणानां त्वेति मंत्रेण दशसाहस्रिकस्तथा

॥४०॥

कार्यो वै पार्थिवश्रेष्ठ कार्यश्चोदङ्मुखैर्द्विजैः ॥

चतुर्भिश्चतुरै राजन्पीतवस्त्रानुलेपनैः

॥४१॥

पीतांबरधरैश्चैव धृतहेमांगुलीयकैः ॥

ततो होमावसाने तु यजमानं नृपोत्तम

॥४२॥

मृगचर्मोपरिस्थं च मंत्रैरेभिर्विधानतः ॥

स्नापयेत्प्राङ्मुखं शांतं शुक्लवस्त्रावगुंठितम्

॥४३॥

इमं मे गंगे यमुने पंचनद्यः सुपुष्करे ॥

श्रीसूक्तसहितं विष्णोः पावमानं वृषाकपिम्

॥४४॥

सम्यगुच्चार्य विघ्नानां ततो नाशं प्रपद्यते ॥

ग्रहाः सौम्यत्वमायांति भूता नश्यंति तत्क्षणात्

॥४५॥

आधयो व्याधयो रौद्रा दुष्टरोगा ज्वरादयः ॥

प्रणश्यंति द्रुतं सर्वे तथोत्पाताः सुदारुणाः

॥४६॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

विनायकस्य माहात्म्यं महत्त्वं शांतिकं तथा

॥४७॥

यश्च कीर्त्तयते सम्यक्चतुर्थ्यां सुसमाहितः ॥

शृणोति वा नृपश्रेष्ठ तस्याऽविघ्नं सदा भवेत्

॥४८॥

यंयं काममभिध्यायन्यजेच्चेदं समाहितः ॥

तत्तदाप्नोति नूनं च गणनाथप्रसादतः

॥४९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे विनायकमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥