मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय १७

3
प्रभासखण्डः · अर्बुदखण्डः · 17

पंगुतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

पंगु तीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥

यत्र पूर्वं तपस्तप्तं पंगुना ब्राह्मणेन च

॥१॥

पंगुनामा द्विजः पूर्वं च्यवनस्यान्वयेऽभवत् ॥

अशक्तश्चलितुं भूमौ पंगुभावान्नृपोत्तम

॥२॥

गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप ॥

पंगुर्गंतुं न शक्तोऽसौ परं दुःखमवाप्तवान्

॥३॥

अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम् ॥

एकं सरः समासाद्य तपस्तेपे सुदारुणम्

॥४॥

लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम् ॥

गन्धपुष्पादिनैवेद्यैः सम्यक्छ्रद्धासमन्वितः

॥५॥

शिवभक्तिपरो जातो वायुभक्षो बभूव ह ॥

जपहोमरतो नित्यं पंगुनामा द्विजोत्तमः

॥६॥

ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम ॥

पंगुं प्रति महाराज वाक्यमेतदुवाच ह

॥७॥

ईश्वर उवाच

पंगो तुष्टो महादेवो वरं वरय सुव्रत ॥

तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम्

॥८॥

पंगुरुवाच

नाम्ना मे ख्यातिमायातु तीर्थमेतत्सुरेश्वर ॥

पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर

॥९॥

तवास्तु सततं चात्र सांनिध्यं सह भार्यया ॥

एवमुक्तः स तेनाथ विप्रं प्रति वचोब्रवीत्

॥१०॥

ईश्वर उवाच

नाम्ना तव द्विजश्रेष्ठ तीर्थमेतद्भविष्यति ॥

ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम

॥११॥

चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा

॥१२॥

पुलस्त्य उवाच

स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह ॥

तत्र तस्थौ महादेवो गौर्या सह महेश्वरः

॥१३॥

तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत् ॥

स पंगुत्वाद्विनिर्मुक्तो दिव्यरूपमवाप्नुयात्

॥१४॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥