गुहेश्वरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ गुहेश्वरमनुत्तमम् ॥
गुहामध्ये गतं लिंगं सिद्धैः संपूजितं पुरा
॥१॥यंयं काममभिध्याय संपूजयति मानवः ॥
तंतं स लभते राजन्निष्कामो मोक्षमाप्नुयात्
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गुहेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥