मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४७

3
प्रभासखण्डः · अर्बुदखण्डः · 47

गौतमाश्रमतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ सुपूर्णं गौतमाश्रमम् ॥

यत्र पूर्वं तपस्तप्तं गौतमेन महात्मना

॥१॥

पुराऽऽसीद्गौतमो नाम मुनिः परमधार्मिकः ॥

स भक्त्याऽऽराधयामास देवदेवं महेश्वरम्

॥२॥

भक्त्याऽऽराधयमानस्य निर्भिद्य धरणीतलम् ॥

समुत्तस्थौ महल्लिंगं परं माहेश्वरं नृप

॥३॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

पूजयैतन्महल्लिंगं त्वद्भक्त्या समुपस्थितम् ॥

वरं वरय भद्रं ते यत्ते मनसि वर्तते

॥४॥

गौतम उवाच

अत्राश्रमपदे देव त्वया शम्भो जगत्पते ॥

सदा कार्यं हि सान्निध्यं यदि तुष्टो मम प्रभो

॥५॥

यस्त्वां पश्यति सद्भक्त्या ब्रह्मलोकं स गच्छतु

॥६॥

आकाशवाण्युवाच

माघमासे चतुर्द्दश्यां योऽत्र मां वीक्षयिष्यति ॥

कृष्णायां ब्राह्मणश्रेष्ठ स यास्यति परां गतिम्

॥७॥

एवमुक्त्वा ततो वाणी विरराम महीपते ॥

तत्रास्ति कुण्डमपरं पवित्रं जलपूरितम् ॥

तत्र स्नातो नरः सद्यः कुलं तारयतेऽखिलम्

॥८॥

यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये ॥

गयाश्राद्धफलं तस्य सकलं जायते ध्रुवम्

॥९॥

तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः ॥

तिलसंख्यानि वर्षाणि दानात्स्वर्गे वसेन्नृप

॥१०॥

अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ ॥

अमायां सोमवारेण द्विषड्गोदावरीफलम्

॥११॥

षष्टिवर्षसहस्राणि भागीरथ्यवगाहने ॥

सकृद्गोदावरीस्नानात्सिंहस्थे च बृहस्पतौ

॥१२॥

इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥