मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५७

3
प्रभासखण्डः · अर्बुदखण्डः · 57

तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनम्

पुलस्त्य उवाच

अवियुक्तवनं गच्छेत्ततः पार्थिवसत्तम ॥

यस्मिन्दृष्टे नरोभीष्टैर्न वियुज्येत कर्हिचित्

॥१॥

तत्र पूर्वं शची राजन्प्रविष्टा दुःखसंयुता ॥

नहुषेण हृते राज्ये देवेन्द्रस्य महात्मनः

॥२॥

तत्प्रभावात्पुनः प्राप्तो वियुक्तोऽपि शतक्रतुः ॥

ततस्तस्य वरो दत्तो वनस्य हि तया नृप

॥३॥

नरो वा यदि वा नारी वियुक्ताऽत्र वने शुभे ॥

प्रियैर्निवास एकस्मिन्रात्रिमेकां वसिष्यति

॥४॥

स तेन लभते संगं भूय एव यथा मया ॥

प्रियैः स लभते वासमेकरात्रं वसन्नृप

॥५॥

फलदानं प्रशंसंति तत्र ब्राह्मणसत्तमाः ॥

वंध्यानां च विशेषेण यतः पुत्रफलं लभेत्

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥