पार्थेश्वरमाहात्म्यवर्णनम्
पुलस्त्य उवाच
ततः पार्थेश्वरं गच्छेदेवं पातकनाशनम् ॥
यं दृष्ट्वा मानवः सम्यङ्मुच्यते सर्वपातकैः
॥१॥पार्थानाम्न्यभवत्साध्वी देवलस्य प्रिया सती ॥
तया पूर्वं तपस्तप्तं तत्र स्थाने महीपते
॥२॥सा पूर्वमभवद्वंध्या ऋषिपत्नी यशस्विनी ॥
वैराग्यं परमं गत्वा ततश्चैवार्बुदं गता
॥३॥वायुभक्षा निराहारा समचित्ताऽऽसने स्थिता ॥
ततो वर्षसहस्रांते भक्त्या तस्या महीपते
॥४॥उद्भिद्य धरणीपृष्ठं सहसा लिंगमुत्थितम् ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
॥५॥पूजयैतन्महाभागे शिवलिंगं सुपावनम् ॥
त्वद्भक्त्या धरणीपृष्ठान्निःसृतं कामदं महत्
॥६॥यो यं काममभिध्यायन्पूजयिष्यति मानवः ॥
अन्योपि तदभिप्रेतं प्राप्स्यते नात्र संशयः
॥७॥पार्थेश्वराख्यमेतद्धि लोके ख्यातिं गमिष्यति ॥
एवमुक्त्वा ततो वाणी विरराम महीपते
॥८॥ततः सा विस्मयाविष्टा पूजयामास तत्तदा ॥
ततः पुत्रशतं प्राप्तं दिव्यं वंशधरं तथा
॥९॥ततः प्रभृति तल्लिंगं विख्यातं धरणीतले ॥
तत्रास्ति निर्मलं तोयं गिरिगह्वरनिःसृतम्
॥१०॥तत्र स्नात्वा नरः सम्यग्यस्तं पश्यति भावतः ॥
न स पश्यति संसारे दुःखं संतानसंभवम्
॥११॥शुक्लपक्षे चतुर्द्दश्यां जागरं तस्य चाग्रतः ॥
यः करोति निराहारः स पुत्रं लभते धुवम्
॥१२॥पिंडनिर्वापणं तत्र यः करोति समाहितः ॥
तस्य पुत्रत्वमायाति पितरस्तत्प्रसादतः
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे पार्थेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥