मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५९

3
प्रभासखण्डः · अर्बुदखण्डः · 59

ततो महौजसं गच्छेत्तीर्थं पातकनाशनम्

पुलस्त्य उवाच

ततो महौजसं गच्छेत्तीर्थं पातकनाशनम् ॥

यस्मिन्स्नातो नरो राजंस्तेजसा युज्यते ध्रुवम् ॥

ब्रह्महत्याग्निना शक्रः पुरा दैन्यं परं गतः

॥१॥

निःश्रीकस्तेजसा हीनो दुर्गन्धेन समन्वितः ॥

परित्यक्तः सुरैः सर्वैर्विषादं परमं गतः

॥२॥

ततः पप्रच्छ देवेन्द्रो द्विजश्रेष्ठं बृहस्पतिम् ॥

भगवंस्तेजसो वृद्धिः कथं स्यान्मे यथा पुरा

॥३॥

बृहस्पतिरुवाच

तीर्थयात्रां सुरश्रेष्ठ कुरुष्व धरणीतले ॥

तीर्थं विना ध्रुवं वृद्धिस्तेजसो न भविष्यति

॥४॥

ततस्तीर्थान्यनेकानि भ्रांत्वा शक्रो नराधिप ॥

क्रमेणैवार्बुदं प्राप्तस्तत्र दृष्ट्वा जलाशयम् ॥

स्नानं चक्रे ततः श्रान्तो महौजाः प्रत्यपद्यत

॥५॥

दुर्गन्धेन विनिर्मुक्तस्ततो देवैः समावृतः ॥

उवाच प्रहसन्वाक्यं शृणुध्वं सर्वदेवताः

॥६॥

येऽत्र स्नानं करिष्यन्ति प्राप्ते शक्रोच्छ्रये सदा ॥

आश्विने शुक्लपक्षांते ते यास्यंति परां गतिम् ॥

सुश्रीकाश्च भविष्यंति सदा जन्मनिजन्मनि

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे महौजसतीर्थप्रभाववर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥