मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४९

3
प्रभासखण्डः · अर्बुदखण्डः · 49

रामतीर्थं ततो गच्छेत्पुण्यमृषिनिषेवितम्

पुलस्त्य उवाच

रामतीर्थं ततो गच्छेत्पुण्यमृषिनिषेवितम् ॥

तत्र स्नातस्य मर्त्त्यस्य जायते पापसंक्षयः

॥१॥

पितॄणां च परा तुष्टिर्यावदाभूतसंप्लवम् ॥

पुरासीद्भार्गवो रामः सर्वशस्त्रभृतां वरः

॥२॥

तेन पूर्वं तपस्तप्तं शत्रूणामिच्छता क्षयम् ॥

ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ

॥३॥

तपस्तुष्टो महादेवो गते वर्षशतत्रये ॥

अब्रवीद्वरदोऽस्मीति स वव्रे शत्रुसंक्षयम्

॥४॥

ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥

स्मरणेनापि शत्रूणां यस्य संजायते क्षयः

॥५॥

अब्रवीद्वचनं चापि प्रहस्य वृषभध्वजः ॥

जामदग्न्य महाबाहो शृणु मे परमं वचः

॥६॥

अस्त्रेणानेन युक्तस्त्वमजेयः सर्वदेहिनाम् ॥

भविष्यसि न संदेहो मत्प्रसादाद्भृगूद्वह

॥७॥

एतज्जलाशयं पुण्यं त्रैलोक्ये सचराचरे ॥

रामतीर्थमिति ख्यातं मत्प्रसादाद्भविष्यति

॥८॥

येऽत्र श्राद्धं करिष्यंति पौर्णमास्यां समाहिताः ॥

संप्राप्ते कार्त्तिके मासि कृत्तिकायोगसंयुते

॥९॥

पितृमेधफलं तेषामशेषं च भविष्यति ॥

तथा शत्रुक्षयो राजन्वासः स्वर्गेषु चाक्षयः

॥१०॥

पुलस्त्य उवाच

एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥

रामोऽप्यसूदयत्क्षत्रं पितृदुःखेन दुःखितः

॥११॥

त्रिःसप्त तर्पयामास पितॄंस्तत्र प्रहर्षितः ॥

जमदग्नौ मृते तेन प्रतिज्ञातं महात्मना

॥१२॥

दृष्ट्वा मातुः क्षतान्यंगे त्रिःसप्त मनुजाधिप ॥

शस्त्रजातानि विप्राणां समाजे समुपस्थिते

॥१३॥

पिता मे निहतो यस्मात्क्षत्रियैस्तापसो द्विजः ॥

अयुध्यमान एवाथ तस्मात्कृत्वा त्रिसप्त वै

॥१४॥

क्षत्त्रहीनामहं पृथ्वीं प्रदास्ये सलिलं पितुः ॥

तत्सर्वं तस्य संजातं तीर्थमाहात्म्यतो नृप

॥१५॥

तस्मात्सर्वं प्रयत्नेन श्राद्धं तत्र समाचरेत् ॥

क्षत्रियश्च विशेषेण य इच्छेच्छत्रुसंक्षयम्

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे रामतीर्थमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥