मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ६२

3
प्रभासखण्डः · अर्बुदखण्डः · 62

कटेश्वरगंगेश्वरमाहात्म्यवर्णनम्

पुलस्त्यस्य उवाच

ततः कटेश्वरं गच्छेल्लिंगं गौरीविनिर्मितम् ॥

तथा गंगेश्वरं चान्यद्गङ्गया निर्मितं स्वयम्

॥१॥

पुरा समभवद्युद्धमुमायाः सह गंगया ॥

सौभाग्यं प्रति राजेन्द्र ततो गौरीत्यभाषत

॥२॥

यया संपूजितः शंभुः शीघ्रं यास्यति दर्शनम् ॥

सा सौभाग्यवती नूनभावयोः संभविष्यति

॥३॥

एवमुक्ता ततो गंगा सत्वरैत्यात्र पर्वते ॥

लिंगमन्वेषयामास चिरकालादवाप सा

॥४॥

दृष्ट्वा गौर्याथ कटकं पर्वतस्य मनोहरम् ॥

लिंगाकारं महाराज पूजयामास सा तदा

॥५॥

सम्यक्छ्रद्धासमोपेता ततस्तुष्टो महेश्वरः ॥

प्रददौ दर्शनं तस्या वरदोऽस्मीति चाब्रवीत्

॥६॥

गौर्युवाच

सापत्न्यजेर्ष्यया देव मया लिंगं प्रकल्पितम् ॥

तस्मात्कटेश्वराख्या च लोके चास्य भविष्यति

॥७॥

या नारी पतिना मुक्ता सपत्नीदुःखदुःखिता ॥

अस्य संदर्शनादेव सा भविष्यति विज्वरा ॥

सुतसौभाग्यसंपन्ना भर्तृप्राणसमा तथा

॥८॥

गंगयाराधितो देव एवमेव वरं ददौ ॥

तस्माल्लिंगद्वयं तच्च द्रष्टव्यं मनुजाधिप

॥९॥

विशेषतश्च नारीभिः सपत्नीदोषहानिदम् ॥

सुखसौभाग्यदं नित्यं तथाऽभीष्टप्रदं नृणाम्

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कटेश्वरगंगेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥