मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४०

3
प्रभासखण्डः · अर्बुदखण्डः · 40

कामेश्वरमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततः कामेश्वरं गच्छेत्तत्र कामप्रतिष्ठितम् ॥

यस्मिन्दृष्टे सदा मर्त्यः सुरूपः सुप्रभो भवेत्

॥१॥

ययातिरुवाच

त्वया प्रोक्तं पुरा शंभुः कामबाण भयात्किल ॥

वालखिल्याश्रमं प्राप्तो यत्र लिंगं पपात ह

॥२॥

स कथं पूजितस्तेन शंभुर्मे कौतुकं महत् ॥

वद सर्वं द्विजश्रेष्ठ कामेश्वरनिवेशनम्

॥३॥

पुलस्त्य उवाच

मुक्तलिंगेऽपि देवेशे न स्मरस्तं मुमोच ह ॥

दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः

॥४॥

ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः ॥

तत्राऽपि च तथा दृष्ट्वा धृतचापं मनोभवम्

॥५॥

ततः प्रयागमापन्नः केदारं च ततः परम् ॥

नैमिषं भद्रकर्णं च जंबूमार्गे त्रिपुष्करम्

॥६॥

गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम् ॥

गगाद्वारं गयाशीर्षं कालाभीष्टं वटेश्वरम्

॥७॥

किं वा तेन बहूक्तेन तीर्थान्यायतनानि च ॥

असंख्यानि गतो देवः कामं च ददृशे तथा

॥८॥

यत्रयत्र महादेवस्तद्भयान्नृप गच्छति ॥

तत्रतत्र पुनः कामं प्रपश्यति धृतायुधम्

॥९॥

कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति ॥

तत्रापश्यत्तथा काममाकर्णाकर्षितायुधम् ॥

आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम

॥१०॥

अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः ॥

क्रोधं चक्रे विशेषेण दृष्ट्वा तं पुरतः स्थितम्

॥११॥

तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप ॥

निश्चक्राम महाज्वाला ययाऽसौ भस्मसात्कृतः

॥१२॥

सचापः सशरो राजंस्तस्मिन्पर्वतरोधसि ॥

शंकरो रोषपर्यंतं गत्वा सौख्यमवाप्तवान्

॥१३॥

कैलासं पर्वतश्रेष्ठं जगाम सुरपूजितः ॥

दग्धे मनोभवे भार्या रतिरस्य पतिव्रता ॥

व्यलपत्करुणं दीना पतिशोकपरि प्लुता

॥१४॥

ततो दारूणि चाहृत्य चितिं कृत्वा नराधिप ॥

आरुरोहाग्निसंदीप्तां चितिं सा पतिदुःखिता ॥

तावदाकाशगां वाणीं शुश्राव च यशस्विनी

॥१५॥

वागुवाच

मा पुत्रि साहसं कार्षीस्तपसा तिष्ठ सुन्दरि ॥

भूयः प्राप्स्यसि भर्त्तारं कामें तुष्टेन शंभुना

॥१६॥

सा श्रुत्वा तां तदा वाणीं समुत्तस्थौ समुमध्यमा ॥

देवमाराधयामास दिवानक्तमतंद्रिता ॥

व्रतैर्दानैर्जपैर्होमैरुपवासैस्तथा परैः

॥१७॥

ततो वर्ष सहस्रांते तुष्टस्तस्या महेश्वरः ॥

अब्रवीद्वद कल्याणि वरं यन्मनसि स्थितम्

॥१८॥

रतिरुवाच

यदि तुष्टोऽसि मे देव भगवँल्लोक भावनः ॥

अक्षतांगः पुनः कामः कांतो मे जायतां पतिः

॥१९॥

एवमुक्ते तया वाक्ये तत्क्षणात्समुपस्थितः ॥

यथा सुप्तो महाराज तद्वद्रूपः स हर्षित

॥२०॥

इक्षुयष्टिमयं चापं पुष्पबाणसमन्वितम् ॥

भृंगश्रेणिमय्या मौर्व्या शोभितं सुमनोहरम्

॥२१॥

ततो रतिसमायुक्तः प्रणिपत्य महेश्वरम् ॥

अनुज्ञातस्तु तेनैव स्वव्यापारेऽभ्यवर्त्तत

॥२२॥

स दृष्ट्वा शिवमाहात्म्यं श्रद्धां कृत्वा नृपोत्तम ॥

शिवं संस्थापयामास पर्वतेऽर्बुदसंज्ञिते

॥२३॥

यस्मिन्दृष्टे महाराज नारी वा यदि वा नरः ॥

सप्तजन्मांतराण्येव न दौर्भाग्यमवाप्नुयात्

॥२४॥

एवमेतन्मया ख्यातं यन्मां त्वं परिपृच्छसि ॥

कामेश्वरस्य माहात्म्यं कामदाह सविस्तरम्

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कामेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥