मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४५

3
प्रभासखण्डः · अर्बुदखण्डः · 45

श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनम्

पुलस्त्य उवाच

देवखातं ततो गच्छेत्सुपुण्यं तीर्थमुत्तमम् ॥

यत्ख्यातिर्विबुधैः सर्वैः स्वयमेव व्यधीयत

॥१॥

तत्र यः कुरुते श्राद्धममावास्यां विशेषतः ॥

कन्यागते रवौ राजन्स लभेत्परमं पदम् ॥

पितॄन्स तारयत्येव प्राप्तानपि सुदुर्गतिम्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥