ततो गच्छेन्नृपश्रेष्ठ सुपुण्यं मानुषं ह्रदम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ सुपुण्यं मानुषं ह्रदम् ॥
यत्र स्नातो नरः सम्यङ्मनुष्यो जायते सदा
॥१॥न तिर्यक्त्वमवाप्नोति कृत्वाऽपि बहुपातकम् ॥
तत्राश्चर्यमभूत्पूर्वं यत्तच्छृणु नराधिप
॥२॥मृगयूथमनुप्राप्त व्याधव्याप्तं समन्ततः ॥
ते मृगा भयसन्त्रस्ताः प्रविष्टा जलमध्यतः
॥३॥सद्यो मनुष्यतां प्राप्ताः पूर्वजातिस्मरास्तथा ॥
एतस्मिन्नेव काले तु व्याधास्ते समुपागताः
॥४॥चापबाणधराः सर्वे यथा वै यमकिंकराः ॥
पप्रच्छुश्च मृगान्भूप मानुषत्वमुपागतान्
॥५॥मृगयूथमनु प्राप्तमस्मिन्स्थाने जलाश्रये ॥
केन मार्गेण तद्यातं वदध्वं सत्वरं हि नः ॥
वयं सर्वे परिश्रांताः क्षुत्तृड्भ्यां च विशेषतः
॥६॥मनुष्या ऊचुः
वयं ते हरिणाः सर्वे मानुष्यं भावमाश्रिताः ॥
तीर्थस्यास्य प्रभावेण सत्यमेतदसंशयम्
॥७॥पुलस्त्य उवाच
ततस्ते शबराः सर्वे त्यक्त्वा चापानि पार्थिव ॥
कृत्वा स्नानं जले तस्मिन्सद्यः सिद्धिं गता नृप
॥८॥ततः शक्रस्तु तद्दृष्ट्वा तीर्थं पापहरं नृप ॥
पूरयामास सर्वत्र पांसुभिर्नृपसत्तम
॥९॥अद्यापि मनुजास्तत्र बुधाष्टम्यां नराधिप ॥
स्नानं ये प्रकरिष्यंति तिर्यक्त्वं न व्रजंति ते
॥१०॥पितृमेधफलं कृत्स्नं श्राद्धदानादवाप्नुयुः
॥११॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे मनुष्यतीर्थप्रभाव वर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥