मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय १८

3
प्रभासखण्डः · अर्बुदखण्डः · 18

ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम् ॥

मोचकं नरकेभ्यश्च प्राणिनां पापनाशनम्

॥१॥

पुरा चित्रांगदो नाम राजा परमलोभवान् ॥

न तेन सुकृतं किंचित्कृतं पार्थिवसत्तम

॥२॥

अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः ॥

परदारहरो नित्यं परवित्तहरस्तथा

॥३॥

सत्यशौचविहीनस्तु मायामत्सरसंयुतः ॥

स कदाचिन्मृगयासक्त आरूढोऽर्बुदपर्वते

॥४॥

अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः ॥

तेन तत्र ह्रदः प्राप्तः स्वच्छोदकप्रपूरितः

॥५८॥

पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः ॥

नानापक्षिसमायुक्तो मनोहारी सुविस्तरः

॥६॥

तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये ॥

ग्राहेण तत्क्षणाद्धृत्वा भक्षितो नृपसत्तम

॥७॥

तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च ॥

यमदूतैस्ततः क्षिप्तः स नीत्वा पापकृत्तमः

॥८॥

तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः ॥

ते दूता धर्मराजाय वृत्तांतं नरको द्भवम् ॥

आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम्

॥९॥

तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः ॥

तत्र मेऽतिप्रियं तीर्थं यत्र तप्तं मया तपः

॥१०॥

तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम् ॥

तैरुक्तं सत्यमेतद्धि मृतोऽसावर्बुदाचले ॥

ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः

॥११॥

यम उवाच

मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः ॥

ये मृता मम तीर्थे वै सर्वपातकनाशने

॥१२॥

ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम ॥

त्रिविष्टपं मुदा प्राप्तः सेव्यमानोऽप्सरोगणैः

॥१३॥

यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत् ॥

स याति परमं स्थानं जरामरणवर्जितम्

॥१४॥

तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥

चैत्रशुक्लत्रयोदश्यां यत्र सिद्धिं गतो यमः

॥१५॥

तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत् ॥

आकल्पं पितरस्तस्य स्वर्गे तिष्ठंति पार्थिव

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥