मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ४८

3
प्रभासखण्डः · अर्बुदखण्डः · 48

कुलसंतारणं गच्छेत्तत्र तीर्थमनुत्तमम्

पुलस्त्य उवाच

कुलसंतारणं गच्छेत्तत्र तीर्थमनुत्तमम् ॥

यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्

॥१॥

दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम ॥

उद्धरेच्छ्रद्धयायुक्तस्तत्र दानेन मानवः

॥२॥

आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत् ॥

नापि दानं तथा ज्ञानं न ध्यानं न च सत्क्रिया

॥३॥

तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन ॥

परदार रुचिर्नित्यं महादण्डपरश्च सः

॥४॥

न्यायतोऽन्यायतो वापि करोति धनसंग्रहम् ॥

स घातयति लोकांश्च निर्दोषान्पापकृत्तमः

॥५॥

ततो वार्धक्यमापन्नस्तथापि न शमं गतः ॥

कस्यचित्त्वथ कालस्य पितृभिः प्रतिबोधितः ॥

तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः

॥६॥

पितर ऊचुः

वयं शुद्धसमाचारा नित्यं धर्मपरायणाः ॥

दानयज्ञतपःशीलाः स्वदारनिरतास्तथा

॥७॥

स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः ॥

कुपुत्रं त्वां समासाद्य नरकं समुपस्थिताः ॥

तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम्

॥८॥

कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः ॥

नरकं दश यास्यंति भविष्याश्च तथा भवान्

॥९॥

एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः ॥

याताश्च नरकं भूयः प्रबुद्धः सोऽपि पार्थिवः

॥१०॥

ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन् ॥

रुरोद प्रातरुत्थाय तं भार्या प्रत्यभाषत

॥११॥

इन्दुमत्युवाच

किमर्थं राजशार्दूल त्वं रोदिषि महास्वनम् ॥

कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा

॥१२॥

राजोवाच

मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः ॥

अपश्यं दुःखितान्देवि ताभ्यामथाग्रजान्पितॄन्

॥१३॥

उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः ॥

दारुणे नरके प्राप्ता अधर्मादिविचेष्टितैः

॥१४॥

अथान्ये दश यास्यन्ति भविष्याश्च भवानपि ॥

तस्मात्कृत्वा शुभं कर्म दुर्गतेश्चोद्धरस्व नः

॥१५॥

एवमुक्तः प्रबुद्धोऽहं पितृभिर्वरवर्णिनि ॥

तेनाहं दुःखमापन्नस्तद्वाक्यं हृदि संस्मरन्

॥१६॥

इन्दुमत्युवाच

सत्यमेतन्महाराज यदुक्तोऽसि पितामहैः ॥

न त्वया सुकृतं कर्म संस्मरेऽहं कृतं पुरा

॥१७॥

यथा सुपुत्रमासाद्य तरंति पितरो नृप ॥

कुपुत्रेण तथा यांति नरकं नात्र संशयः

॥१८॥

स त्वमाहूय विप्रेंद्रान्धर्मशास्त्रविचक्षणान् ॥

पृष्ट्वा तान्कुरु यच्छ्रेयः पितॄणामात्मना सह

॥१९॥

आनयामास राजाऽसौ ततो विप्राननेकशः ॥

वेदवेदांगतत्त्वज्ञान्धर्मशास्त्रविचक्षणान् ॥

उवाच विनयोपेतो भार्यया सहितो हितान्

॥२०॥

राजोवाच

कर्मणा केन पितरो निरयस्था द्विजोत्तमाः ॥

स्वर्गं यांति सुपुत्रेण तारिताः प्रोच्यतां स्फुटम्

॥२१॥

ब्राह्मणा ऊचुः

पितृमेधेन राजेंद्र कृतेन विधिपूर्वकम् ॥

निरयस्था दिवं यांति यद्यपि स्युः सुपापिनः

॥२२॥

राजोवाच

दीक्षयंतु द्विजाः सर्वे तदर्थं मां धृतव्रतम् ॥

यत्किंचिदत्र कर्त्तव्यं प्रोच्यतामखिलं हि तत्

॥२३॥

तथोक्तास्ते नृपेंद्रेण ब्राह्मणाः सत्यवादिनः ॥

समग्राः पार्थिवं प्रोचुर्यदुक्तं यज्ञकर्मणि

॥२४॥

दीक्षा ग्राह्या नृपश्रेष्ठ पुरश्चरणमादितः ॥

कृत्वा कायविशुद्ध्यर्थं ततः श्रेयस्करी भवेत्

॥२५॥

स त्वं पापसमाचारो बाल्यात्प्रभृति पार्थिव ॥

असंख्यं पातकं तस्मात्तीर्थयात्रां समाचर

॥२६॥

सर्वतीर्थाभिषिक्तस्त्वं यदा स्यान्नृपसत्तम ॥

प्रायश्चित्तेन योग्यः स्यास्ततो यज्ञस्य नान्यथा

॥२७॥

प्रभासादीनि तीर्थानि यानि संति धरातले ॥

गंतव्यं तेषु सर्वेषु स्नानं कुरु समाहितः

॥२८॥

मनसा गच्छ दुर्गाणि ददद्दानमनुत्तमम् ॥

नश्येत्तेनाशुभं किंचिदपि ब्रह्मवधोद्भवम् ॥

यन्न याति नृणां राजंस्तीर्थस्नानादिना भुवि

॥२९॥

पुलस्त्य उवाच

विप्राणां वचनं श्रुत्वा स राजा श्रद्धयाऽन्वितः ॥

तीर्थयात्रापरो भूत्वा परिबभ्राम मेदिनीम्

॥३०॥

नियतो नियताहारो ददद्दानानि भूरिशः ॥

राज्ये पुत्रं प्रतिष्ठाप्य वसुं सत्यपराक्रमम्

॥३१॥

कस्यचित्त्वथ कालस्य तीर्थयात्रानुषंगतः ॥

यातोऽसौ नृपतिश्चैव ह्यर्बुदे निर्मलोदकम्

॥३२॥

स स्नानमकरोत्तत्र श्रद्धापूतेन चेतसा ॥

स्नातमात्रस्य तस्याथ तस्मिन्नेव जलाशये

॥३३॥

विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः ॥

ततो दिव्यविमानस्था दिव्यमाल्यांबरान्विताः

॥३४॥

तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना ॥

तीर्थस्यास्य प्रभावेण भविष्याश्च तथा दश

॥३५॥

आत्मा च पार्थिवश्रेष्ठ स्नानाच्च जलतर्पणात् ॥

यस्मात्कुलं त्वया पुत्र तीर्थेऽस्मिंस्तारितं ततः

॥३६॥

कुलसंतारणंनाम तीर्थमेतद्भविष्यति ॥

तस्मात्त्वमपि राजेंद्र सहाऽस्माभिर्दिवं प्रति ॥

आगच्छानेन देहेन तीर्थस्यास्य प्रभावतः

॥३७॥

पुलस्त्य उवाच

एवमुक्तः स राजेंद्रो दिव्यकांतिवपुस्तदा ॥

तं विमानमथारुह्य गतः स्वर्गं च तैः सह

॥३८॥

एष प्रभावो राजर्षे कुलसंतारणस्य च ॥

मया ते वर्णितः सम्यग्भूयः किं परिपृच्छसि

॥३९॥

ययातिरुवाच

स किंप्रभावो राजा स तथा पापसमन्वितः ॥

स्वदेहेन गतः स्वर्गमेतन्मे कौतुकं महत्

॥४०॥

पुलस्त्य उवाच

राकासोमव्यतीपात समकाले नृपोत्तम ॥

स स्नातो यत्र भूपालस्तन्महच्छ्रेयसे परम्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखंडे कुलसंतारणतीर्थमाहात्म्यवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥