गजतीर्थप्रभाववर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ गजतीर्थमनुत्तमम् ॥
यत्र पूर्वं तपस्तप्तं दिग्गजैर्भावितात्मभिः
॥१॥भूभारधरणैश्चान्यैरैरावणमुखैर्नृप ॥
तत्र स्नातो नरः सम्यग्गजदानफलं लभेत्
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गजतीर्थप्रभाववर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥