मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ८

3
प्रभासखण्डः · अर्बुदखण्डः · 8

ततो गच्छेन्नृपश्रेष्ठ भद्रकर्णं महाह्रदम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ भद्रकर्णं महाह्रदम् ॥

त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः

॥१॥

तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः ॥

यं दृष्ट्वा मानवस्तत्र त्रिनेत्रसदृशो भवेत्

॥२॥

भद्रकर्णगणोनाम पुरासीच्छिववल्लभः ॥

तेनात्र स्थापितं लिंगं ह्रदश्चैव विनिर्मितः

॥३॥

केनचित्त्वथ कालेन संग्रामे दानवैः सह ॥

युयुधे पुरतः शंभोर्नानागणसमन्वितः

॥४॥

नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते ॥

गतास्ते भयसंत्रस्ता महाकाले विनिर्जिते

॥५॥

बलवान्नमुचिर्नाम दानवो बलवत्तरः ॥

खड्गचर्मधरः शीघ्रं महेश्वरमुपाद्रवत्

॥६॥

भद्रकर्णस्तु तं दृष्ट्वा दानवं तदनंतरम् ॥

पतंतं संमुखस्तस्य तिष्ठतिष्ठेति चाब्रवीत्

॥७॥

छित्त्वाऽसिमसिना तस्य चर्म चापि महाबलः ॥

स्तनयोरंतरे दैत्यं कोपाविष्टोऽहनन्नृप

॥८॥

अथासौ निहतस्तेन प्रविश्य विपुलं तमः ॥

निपपात महीपृष्ठे वायुभग्न इव द्रुमः ॥

वधं प्राप्तस्तु दैत्योऽसौ नत्वा हरमसौ स्थितः ॥

सत्ये स्थितं च तं दृष्ट्वा ततस्तुष्टो महेश्वरः

॥१०॥

श्रीभगवानुवाच

तव वीर्येण संतुष्टो धर्मेण च विशेषतः ॥

वरं वरय भद्रं ते नित्यं यो हृदये स्थितः

॥११॥

भद्रकर्णं उवाच

यन्मया स्थापितं लिंगमर्बुदे सुरसत्तम ॥

अत्रास्तु तव सांनिध्यं ह्रदेऽस्मिंश्च स्थिरो भव

॥१२॥

श्रीभगवानुवाच

माघमासे चतुर्द्दश्यां कृष्णपक्षे सदा मम ॥

सांनिध्यं च विशेषेण ह्रदे लिंगे भविष्यति

॥१३॥

भद्रकर्णह्रदे स्नात्वा त्रिनेत्रं यः समाहितः ॥

द्रक्ष्यते स तु मे स्थानं शाश्वतं यास्यति धुवम्

॥१४॥

तस्मात्सर्वत्र यत्नेन स्नानं तत्र समाचरेत् ॥

पूजयित्वा च तल्लिंगं शिवलोकं स गच्छति

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥