मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५४

3
प्रभासखण्डः · अर्बुदखण्डः · 54

त्रिपुष्करमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततस्त्रिपुष्करं गच्छेदभीष्टं पद्मजस्य च ॥

ब्रह्मणा तत्समानीतं पर्वतेऽर्बुदसंज्ञके

॥१॥

वसिष्ठस्य पुरा सत्रे वर्त्तमाने नराधिप ॥

तस्मिन्नगे समायाता ब्रह्माद्याश्च सुरोत्तमाः

॥२॥

प्रतिज्ञातं महाराज ब्रह्मणाऽव्यक्तजन्मना ॥

यावत्स्थास्ये नृलोकेऽस्मिंस्तावत्सन्ध्यां त्रिपुष्करे ॥

वंदयिष्यामि संप्राप्ते संध्याकाले समाहितः

॥३॥

एतस्मिन्नेव काले तु प्रस्थितः पुष्करं प्रति ॥

संध्यार्थं पद्मजो यावद्वसिष्ठस्तावदब्रवीत्

॥४॥

वसिष्ठ उवाच

कर्मकालश्च सम्प्राप्तो यज्ञेऽस्मिन्सुरसत्तम ॥

स विना न त्वया देव सिद्धिं यास्यति कर्हिचित्

॥५॥

तस्मादानय चात्रैव पद्मयोने त्रिपुष्करम् ॥

संध्योपास्तिं ततः कृत्वा तत्र भूयः सुरेश्वर ॥

ब्रह्मत्वं कुरु देवेश सत्रे चास्मिन्दयानिधे

॥६॥

एवमुक्तो वसिष्ठेन ब्रह्मा लोक पितामहः ॥

ध्यात्वा तत्रानयामास ज्येष्ठमध्यकनिष्ठिकम् ॥

पुष्करत्रितयं चागात्सुपुण्ये सलिलाशये

॥७॥

ततःप्रभृति संजातमर्बुदेऽस्मिंस्त्रिपुष्करम्

॥८॥

तत्र यः कार्तिके मासि पौर्णमास्यां समाहितः ॥

स्नानं करोति दानं च तस्य लोकाः सनातनाः

॥९॥

तस्य चोत्तरदिग्भागे सावित्रीकुण्डमुत्तमम् ॥

स्नानदानादिकं कुर्वन्यत्र याति शुभां गतिम्

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे त्रिपुष्करमाहात्म्यवर्णनंनाम चतुष्पंचाशत्तमोऽध्यायः ॥ ५४ ॥