सिद्धेश्वरमहिमवर्णनम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ सिद्धलिंगं सुसिद्धिदम् ॥
सिद्धैस्तु स्थापितं लिंगं सर्वपातकनाशनम्
॥१॥तत्रास्ति शोभनं कुण्डं सुनिर्मलजलान्वितम् ॥
तत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया
॥२॥यंयं काममभिध्यायंस्तत्र स्नाति नरो नृप ॥
अवश्यं तमवाप्नोति निष्ठांते च परां गतिम्
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे सिद्धेश्वरमहिमवर्णनंनाम त्रयश्चत्वारिंशोऽध्यायः ॥ ४३ ॥