गौतमशिष्योत्तंकचरित्रवर्णनम्
वसिष्ठ उवाच
आसीत्पूर्वं मुनिर्नाम्ना गौतमश्च महातपाः ॥
अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी
॥१॥शिष्यानध्यापयामास स मुनिः शतशस्तदा ॥
श्रुताध्ययनसंपन्नान्विससर्ज ततो गृहान्
॥२॥तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः ॥
उत्तंको नाम मेधावी न्यवसत्तस्य मन्दिरे
॥३॥न तं विसर्जयामास जरयापि परिप्लुतम् ॥
उत्तंकोऽपि सुशिष्यत्वान्नो वेत्ति पलितं शिरः
॥४॥जातकार्यसमायुक्तो विद्यापारंगतोऽपि सः ॥
केनचित्त्वथ कालेन काष्ठार्थं स बहिर्ययौ
॥५॥प्रभूतानि समादाय आश्रमं परमं गतः ॥
अथासौ न्यक्षिपत्तत्र भूतले काष्ठसंचयम्
॥६॥काष्ठलग्नां तदा श्वेतां जटामेकां ददर्श सः ॥
स दृष्ट्वा दुःखमापन्नः कृपणं पर्यचिन्तयत्
॥७॥धिग्धिङ्मे जीवितं नष्टं कुतः कार्यरतस्य च ॥
कलत्र संग्रहं नैव मया कृतमबुद्धिना
॥८॥भविष्यति कुलच्छेदः शैथिल्यान्मम दुर्मतेः ॥
गुरुपत्न्या च संदृष्ट उत्तंको दुःखितस्तदा
॥९॥तस्य दुःखं तथा क्षिप्रं गौतमाय निेवेदितम् ॥
गौतमेन तथेत्युक्त्वा मृदुवाण्या स भाषितः
॥१०॥वत्स गच्छ गृहं त्वं च अग्निहोत्रादिकाः क्रियाः ॥
पालयस्व विधानेन पत्न्या सह न संशयः
॥११॥इत्युक्तो गुरुणा सोऽपि प्रत्युवाच गुरुं प्रति ॥
दक्षिणां प्रार्थय स्वामिन्नहं दास्याम्यसंशयम्
॥१२॥गौतम उवाच
सेवा कृता त्वया वत्स महती मम सर्वदा ॥
तेनैव परिपूर्णत्वं जातं मे नात्र संशयः
॥१३॥उत्तंक उवाच
किंचिद्ग्राह्यं त्वया स्वामिन्सन्तोषो जायते मम ॥
त्वत्प्रसादान्मुनिश्रेष्ठ विद्यापारंगतोऽस्म्यहम्
॥१४॥गौतम उवाच
न ग्राह्यं च मया पुत्र सन्तुष्टः सेवयास्म्यहम् ॥
नेच्छाम्यहं धनं त्वत्तः सुखं गच्छ गृहं प्रति
॥१५॥इत्युक्तो गुरुणा सोऽपि मातरं चाभ्यभाषत ॥
किंचिद्ग्राह्यं मया मातः सन्तोषो दीयतां मम
॥१६॥गुरुपत्न्युवाच
सौदासं गच्छ पुत्र त्वं ममाज्ञां कुरु सत्वरम् ॥
मदयन्ती प्रिया तस्य धर्मपत्नी यशस्विनी
॥१७॥कुण्डलेऽथानय क्षिप्रं मदयंत्याश्च पुत्रक ॥
नो चेच्छापं प्रदास्यामि पञ्चमेऽह्नि न आगतः
॥१८॥इत्युक्तो गुरुपत्न्या स प्रस्थितः सत्वरं तदा ॥
सौदासस्यगृहं प्राप व्याघ्रास्यं तं च दृष्टवान्
॥१९॥दृष्ट्वा प्राह तदा विप्रं भक्षणार्थमुपस्थितम् ॥
भक्षयिष्यामि वै विप्र त्वामहं नात्र संशयः
॥२०॥उत्तंक उवाच
अवश्यं भक्षय त्वं मामेकं शृणु नराधिप ॥
देहि मे कुण्डले तात दत्त्वाऽहं गुरवे पुनः ॥
आगमिष्यामि भक्षस्व मा त्वं कार्यविवर्जितम्
॥२१॥सौदास उवाच
गच्छ त्वं मन्दिरे दुर्गे यत्राऽऽस्ते दयिता मम ॥
तां त्वमासाद्य यत्नेन जीवितव्यभयाद्द्विज
॥२२॥याच्यतां मम वाक्येन सा ते दास्यति कुण्डले ॥
त्वया च नान्यथा कार्यं यत्सत्यं द्विजसत्तम
॥२३॥वसिष्ठ उवाच
मदयन्त्याः समीपं तु गत्वोवाच द्विजोत्तमः ॥
देहि मे कुण्डले देवि सौदासस्त्वां समादिशत्
॥२४॥मदयंत्युवाच
सन्देहोऽद्यापि मे विप्र कुण्डले द्विजसत्तम ॥
अभिज्ञानं त्वमानीय नृपस्य द्विज दर्शय
॥२५॥स गत्वा त्वरितं भूपमभिज्ञानमयाचत
॥२६॥सौदास उवाच
यैर्विना सुगतिर्नास्ति दुर्गतिं ये नयंति वै ॥
गत्वैवं ब्रूहि तां साध्वीं मम वाक्यं द्विजोत्तम ॥
प्रदास्यति ततो नूनं कुण्डले रत्नमंडिते
॥२७॥वसिष्ठ उवाच
प्रत्यभिज्ञानमादाय गत्वा तस्यै न्यवेदयत्
॥२८॥ततोऽसौ प्रददौ तस्मै गृह्ण मे कुण्डले द्विज ॥
उवाच यत्नमास्थाय नीयतां द्विजसत्तम
॥२९॥एते च वांछते नित्यं तक्षको द्विज कुण्डले ॥
स तथेति समादाय विस्मयोत्फुल्ललोचनः ॥
कौतुकात्पुनरागत्य राजानं वाक्यमब्रवीत्
॥३०॥अभिज्ञानान्मया भूप सम्प्राप्ते दीप्तकुण्डले ॥
वाक्यार्थस्तु न विज्ञातस्ततोऽहं पुनरागतः
॥३१॥कौतुकाद्वद मे राजन्स्वकार्ये च यथास्थितम् ॥
कैर्विना सुगतिर्नास्ति दुर्गतिं के नयंति च
॥३२॥सौदास उवाच
आराधिता द्विजा विप्र भवंति सुगतिप्रदाः ॥
असन्तुष्टा दुर्गतिदाः सद्यो मम यथा पुरा
॥३३॥एतावान्मम शापोऽयं वसिष्ठस्य महात्मनः ॥
तेनोक्तं त्वां यदा कश्चित्प्रश्नं विख्यापयिष्यति
॥३४॥तदा दोषविनिर्मुक्तो भविष्यसि न संशयः ॥
त्वत्प्रसादाद्विनिर्मुक्तो ह्यहं शापाद्द्विजोत्तम ॥
सात्त्विकं धाम चापन्नो गच्छ विप्र नमोऽस्तु ते
॥३५॥वसिष्ठ उवाच
उत्तंकस्तेन निर्मुक्तः सत्वरं पथमाश्रितः ॥
गच्छंश्चातिक्षुधाविष्टो ऽपश्यद्बिल्वफलानि सः
॥३६॥ततः कृष्णाजिने बद्ध्वा कुण्डले न्यस्य भूतले ॥
आरुरोह फलाकांक्षी स मुनिः क्षुधयाऽन्वितः
॥३७॥एतस्मिन्नेव काले तु तक्षकः पन्नगोत्तमः ॥
गृहीत्वा कुण्डले तूर्णमगमद्दक्षिणामुखः
॥३८॥अथोत्तंकः फलाहारी अवतीर्य धरातले ॥
सर्वतोऽन्वेषयामास वेगेन महता वृतः
॥३९॥स दृष्ट्वा सम्मुखं प्राप्तं समीपं पन्नगोत्तमः ॥
प्रविवेश बिलं रौद्रमन्धकारेण संवृतम्
॥४०॥उत्तंकोऽपि बिलं प्राप्तः प्रविश्य तमसावृतम् ॥
दण्डकाष्ठं समादाय कुपितोह्यखनत्तदा
॥४१॥तं तथा दुःखितं दृष्ट्वा सक्लेशं गुरुकार्यतः ॥
वज्रमारोपयामास दण्डांते पाकशासनः
॥४२॥ततो विदारयामास स शीघ्रं धरणीतलम् ॥
प्रविष्टश्चैव पातालं कुण्डलार्थं परिभ्रमन्
॥४३॥सोऽपश्यद्वाजिनं तत्र सर्वश्वेतं गुणान्वितम् ॥
तेनोक्तः स्पृश मे गुह्यं ततः कार्यं भविष्यति
॥४४॥स चकार तथा शीघ्रं ततो धूमो व्यजायत ॥
पातालं तेन सर्वत्र व्याप्तं भूधर वह्निना
॥४५॥ततश्च व्याकुलाः सर्वे पन्नगाः समुपाद्रवन् ॥
तक्षकं पुरतः कृत्वा संप्राप्ताः कुण्डलान्विताः ॥
उत्तंकाय ततो दत्त्वा प्रणिपत्य ययुर्गृहम्
॥४६॥वसिष्ठ उवाच
अथाश्वस्तमुवाचेदमहमग्निर्द्विजोत्तम ॥
यस्त्वयाऽऽराधितः पूर्वमुपाध्यायनिदेशतः
॥४७॥ज्ञात्वा त्वां दुःखितं प्राप्तमिह प्राप्तः कृपापरः ॥
सर्वथा त्वं च मे पृष्ठं भगवञ्छीघ्रमारुह
॥४८॥नयामि तत्र यत्रास्ते गुरुः सर्वगुणालयः ॥
आरूढस्तस्य पृष्ठे स प्रतस्थे ह्याश्रमं प्रति
॥४९॥तत्क्षणात्समनुप्राप्तो गौतमस्य निवेशनम् ॥
एतस्मिन्नेव काले तु अहिल्या कृतमंडना
॥५०॥स्नाता चाभ्येत्य भर्तारं साध्वी वाक्यमुवाच ह ॥
उत्तंकोऽद्य न संप्राप्तः शापं दास्याम्यहं ध्रुवम्
॥५१॥शिथिलो गुरुकृत्येषु स यदालक्षितो मया ॥
तस्या वाक्यावसाने तु उत्तंकः पर्य्यदृश्यत
॥५२॥प्रसन्नवदनो हृष्टः कुण्डलाभ्यां समन्वितः ॥
प्रणिपत्य स तां भक्त्या कुण्डले संन्यवेदयत्
॥५३॥सा दृष्ट्वा तत्क्षणात्साध्वी कर्णाभ्यां संन्यवेशयत् ॥
स्वगृहाय ततस्तूर्णमुत्तंकं विससर्ज ह
॥५४॥वसिष्ठ उवाच
एवं स विवरो जातस्तक्षकोत्तंककारणात् ॥
यथा मे चिंत्यते नित्यं धेन्वर्थं श्वभ्रपूरणे
॥५५॥तस्मात्त्वं पूरय क्षिप्रं नान्यः शक्तोऽत्र कर्मणि ॥
शीघ्रं कुरु नगश्रेष्ठ मम कार्यमसंशयम्
॥५६॥इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे विवरोत्पत्तिवृत्तांते गौतमशिष्योत्तंकचरित्रवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥