मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय २६

3
प्रभासखण्डः · अर्बुदखण्डः · 26

कनखलतीर्थमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥

तस्मिन्कनखलंनाम पर्वते पापनाशने

॥१॥

शृणु तत्राऽभवत्पूर्वं यदाश्चर्यं महीपते ॥

पार्थिवः सुमतिर्नाम संप्राप्तोऽर्बुदपर्वते

॥२॥

सूर्यग्रहे महीपाल तीर्थं कनखलं गतः ॥

तेन विप्रार्थमानीतं सुवर्णं जात्यमेव हि

॥३॥

प्रभूतं पतितं तोये प्रमादात्तस्य भूपतेः ॥

न लब्धं तेन भूपाल अन्वेषणपरेण च

॥४॥

ततः स्नात्वा गृहं प्राप्तः पश्चात्तापसमन्वितः ॥

ततः कालेन महता स भूयस्तत्र चागतः

॥५॥

स्नानार्थं भास्करे ग्रस्ते तं च देशमपश्यत ॥

चिंतयामास मेधावी ह्यस्मिन्देशे तदा मम

॥६॥

सुवर्णं पतितं हस्तान्न च लब्धं कथंचन

॥७॥

पुलस्त्य उवाच

एवं चिंतयतस्तस्य वागुवाचाशरीरिणी ॥

नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च

॥८॥

अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम् ॥

पश्चात्तापस्त्वया भूरि कृतो यद्द्रव्यनाशने

॥९॥

तस्मात्संख्या च संजाता तथैवाकल्पितस्य च ॥

येऽत्र श्रद्धासमायुक्ताः सुवर्णैर्नृपसत्तम ॥

यत्नाच्छ्राद्धं करिष्यंति सुवर्णं च विशेषतः

॥१०॥

ब्राह्मणेभ्यः प्रदास्यंति संख्या तस्य न विद्यते ॥

अत्रान्वेषय देशे त्वं प्राप्स्यसे नाऽत्र संशयः

॥११॥

स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप ॥

अन्वेषमाणोऽस्मिन्देशे सुवर्णं तच्च लब्धवान्

॥१२॥

शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः ॥

ज्ञात्वा तीर्थप्रभावं तं ब्राह्मणेभ्यः सहस्रशः ॥

प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः

॥१३॥

ततस्तस्य प्रभावेण स दानस्य महीपतिः ॥

संजातो धनदोनाम यक्षो नानाधनप्रदः

॥१४॥

तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप ॥

आकल्पं पितरस्तस्य तृप्तिं यांति सुतर्पिताः

॥१५॥

स्नानेन ऋषयो देवास्तुष्टिं यांति महोरगाः ॥

नाशः संजायते सद्यः पापस्य पृथिवीपते

॥१६॥

तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥

यथाशक्त्या तथा दानं श्राद्धं च नृपसत्तम

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कनखलतीर्थमाहात्म्यवर्णनंनाम षङ्विंशोऽध्यायः ॥ २६ ॥