यत्त्वया कीर्तितं ब्रह्मन्पूर्वं देवैः प्रसादितः
ययातिरुवाच
यत्त्वया कीर्तितं ब्रह्मन्पूर्वं देवैः प्रसादितः ॥
लिंगं संस्थापयामास स्थिररूपो महेश्वरः
॥१॥कस्मात्तत्पातितं लिंगं वालखिल्यैर्महात्मभिः ॥
कस्मात्तत्राचलो जातो देवदेवो महेश्वरः
॥२॥एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥
तस्मिन्दृष्टे च किं पुण्यं नराणां तत्र जायते
॥३॥पुलस्त्य उवाच
महेश्वरस्य माहात्म्यं शृणु पार्थिवसत्तम ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम्
॥४॥यदा पञ्चत्वमापन्ना सती सत्यपराक्रमा ॥
अपमानेन दक्षस्य यज्ञे न च निमंत्रिता
॥५॥तदा कामो द्रुतं गृह्य पुष्पचापं तमभ्यगात् ॥
कन्दर्प्पं सहसा दृष्ट्वा सन्धितेषुं सुदुर्जयम्
॥६॥आपतन्तं भयात्तस्य प्रणष्टस्त्रिपुरांतकः ॥
स तदा भ्रममाणश्च इतश्चेतश्च पार्थिव
॥७॥वालखिल्याश्रमं प्राप्तः पुण्यं सद्वृक्षशोभितम् ॥
स तत्र भगवांस्तेषां दारैर्दृष्टः सुरूपवान्
॥८॥दिग्वासाः सुप्रियालापस्ततस्ताः काममोहिताः ॥
त्यक्त्वा पुत्रगृहाद्यं च सर्वास्तत्पृष्ठसंस्थिताः ॥
बभूवुश्चानिशं राजन्मां भजस्वेति चाब्रुवन्
॥९॥चक्रुरालिंगनं काश्चिच्चुम्बनं च तथापराः ॥
अन्यास्तस्य हि लिंगं तत्स्पृशंति च मुहुर्मुहुः
॥१०॥स चापि भगवाञ्छम्भुर्निष्कामः परमेश्वरः ॥
जगद्व्याप्तिं समाश्रित्य सर्वप्राणिषु वर्तते
॥११॥स चापि भगवाच्छंभुस्तासां सरति प्राङ्मुखः ॥
भ्रांतस्तत्राश्रमे तेषां दारान्कामेन पीडयन्
॥१२॥अथ ते मुनयो दृष्ट्वा विकृतिं दारसंभवाम् ॥
अजानन्तो महादेवं रुष्टास्तस्य महात्मनः
॥१३॥ददुः शापं सुसंतप्ताः कलत्रार्थे परंतप ॥
पततां पततां लिङ्गमेतत्ते पापकृत्तम
॥१४॥विडम्बयसि नो दारानजस्रं चास्य दर्शनात् ॥
ततश्चैवापतल्लिंगं तत्क्षणात्तत्पुरद्विषः
॥१५॥ब्रह्मवाक्येन राजर्षे चकम्पे वसुधा ततः ॥
शीर्णानि गिरिशृंगाणि चुक्षुभुर्मकरालयाः
॥१६॥ततो देवगणाः सर्वे भयत्रस्ता नराधिप ॥
अकाले प्रलयं मत्वा त्रैलोक्ये पर्यवस्थितम्
॥१७॥तत पितामहं जग्मु स्तस्मै सर्वं न्यवेदयन् ॥
प्रलयस्येव चिह्नानि दृश्यन्ते परमेश्वर
॥१८॥किं निमित्तं सुरश्रेष्ठ न जानीमो वयं प्रभो ॥
तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः
॥१९॥अब्रवीत्पातितं लिंगं वालखिल्यैः पिनाकिनः ॥
तेनैते दारुणोत्पाताः संजाता भयसूचकाः
॥२०॥तस्मान्मया समायुक्ताः सर्वे तत्र दिवौकसः ॥
व्रजंतु येन तल्लिंगं स्थाने संस्थापयेच्छिवः
॥२१॥यावन्नो जायते लोके प्रलयोऽ कालसंभवः ॥
एवं संमंत्र्य ते सर्वे ततोऽर्बुदमुपाययुः
॥२२॥वालखिल्याश्रमे यत्र तल्लिंगं निपपात ह ॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोक्तैर्विनयान्विताः
॥२३॥देवा ऊचुः
नमस्ते देवदेवेश भक्तानां चाभयंकर ॥
नमस्ते सर्ववासाय सर्वयज्ञमयाय च
॥२४॥सर्वेश्वराय देवाय परमज्योतिषे नमः ॥
नमः स्फुटतर ज्ञानगम्याय वेधसे
॥२५॥त्र्यंबकाय च भीमाय पिनाकवरपाणये ॥
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव
॥२६॥संसारे विबुधश्रेष्ठ जगत्स्थावरजंगमम् ॥
न तदस्ति त्रिलोकेऽस्मिन्सुसूक्ष्ममपि शंकर ॥
यत्त्वया न प्रभो व्याप्तं सृष्टिसंहारकारणात्
॥२७॥पृथिव्यादीनि भूतानि त्वया सृष्टानि कामतः ॥
यास्यंति तानि भूयोऽपि तव काये जगत्पते
॥२८॥प्रसीद भगवंस्तस्माल्लिंगमेतत्सुरेश्वर ॥
स्थाने स्थापय भद्रं ते यावन्न स्यात्प्रजाक्षयः
॥२९॥श्रीभगवानुवाच
निर्विकारस्य मल्लिंगं वालखिल्यैः प्रपातितम् ॥
कथं भूयः प्रगृह्णामि यावच्छुद्धिर्न जायते
॥३०॥शक्तोऽहं वालखिल्यानां निग्रहं कर्त्तुमञ्जसा ॥
किन्तु मे ब्राह्मणा मान्याः पूज्याश्च सुरसत्तमाः
॥३१॥अचलं लिंगमेतद्धि नोद्धर्त्तुं शक्यते विभो ॥
एक एवात्र निर्दिष्ट उपायो नापरः स्मृतः
॥३२॥यदि मे त्वं पुरा लिंगं पूजयेथाः पितामह ॥
ततो देवगणाः सर्वे ततो विप्रास्ततोऽपरे
॥३३॥ततो नौ शांतिमागच्छेज्जगत्स्थावरजंगमम्
॥३४॥पुलस्त्य उवाच
एवमुक्तः स भगवाञ्छंकरेण नृपोत्तम ॥
ततस्तं पूजयामास ब्रह्मा पूर्वं सुभक्तितः
॥३५॥ब्रह्मणोऽनन्तरं विष्णुस्ततः शक्र स्ततोऽपरे ॥
वालखिल्यादयो विप्रा मन्त्रैश्च शतरुद्रियैः
॥३६॥ततस्ते दारुणोत्पाता उपशांताश्च तत्क्षणात् ॥
अभवत्सुमुखो लोको वृत्तो गन्धवहो मृदुः
॥३७॥अथोवाच महादेवः सर्वांस्तांस्त्रिदशालयान् ॥
वृणुध्वं सुवरं सर्वे मत्तो यन्मनसीप्सितम्
॥३८॥देवा ऊचुः
तव लिंगस्य संस्पर्शादपि पापकृतो नराः ॥
स्वर्गं यास्यंति देवेश नाशं यास्यति किल्बिषम् ॥
व्रतदानानि सर्वाणि तीर्थयात्रायुतानि च
॥३९॥तस्माद्वज्रेण देवेन्द्रस्तवैतल्लिंगमुत्तमम् ॥
छादयिष्यति सर्वत्र यदि त्वं मन्यसे प्रभो
॥४०॥श्रीभगवानुवाच
अभिप्रायो ममाप्येष वर्तते हृदि पद्मज ॥
एवं करोतु देवेन्द्रः सर्वधर्मविवृद्धये
॥४१॥पुलस्त्य उवाच
ततः संछादयामास वज्रेण त्रिदशाधिपः ॥
तल्लिंगं सर्वमर्त्यानां यथाऽदृश्यं व्यजायत
॥४२॥अद्यापि वज्रसंस्पर्शात्तत्सान्निध्यं गतो नरः ॥
आजन्ममरणात्पापान्मुच्यते नात्र संशयः
॥४३॥माहात्म्यं कीर्तितं यस्मात्तल्लिंगे शंकरेण तु ॥
वस्त्रेणाच्छादितं चैव शक्रेणैव धरातले
॥४४॥ततःप्रभृति लिंगस्य मर्त्त्ये पूजा व्यजायत ॥
पुरासीच्छंकरः पूज्यो यथान्ये त्रिदशालयाः
॥४५॥एवमेतत्पुरावृत्तमर्बुदे पर्वतोत्तमे ॥
लिंगस्य पतनात्पूजां यन्मां त्वं परि पृच्छसि
॥४६॥फाल्गुनान्तचतुर्द्दश्यां नैवेद्यं नूतनैर्यवैः ॥
यो ददात्यचलेशाय स भूयो नेह जायते
॥४७॥ब्राह्मणान्भोजयेद्यस्तु भक्त्या तस्मिन्नवैर्यवैः ॥
यवसंख्याप्रमाणानि युगानि दिवि मोदते
॥४८॥तत्र दानं प्रशंसन्ति सक्तूनां मुनिसत्तमाः ॥
नूतनानां महाराज यतः प्रोक्तं पुरारिणा
॥४९॥किं दानैर्विविधैर्दत्तैः किं यज्ञैश्च सुविस्तरैः ॥
किं तीर्थैर्विविधैहोमैस्तपोभिः किं च कष्टदैः
॥५०॥फाल्गुनान्तचतुर्द्दश्यां सुमहेश्वरसन्निधौ ॥
धर्माण्येतानि सर्वाणि कलां नार्हंति षोडशीम्
॥५१॥शृणु राजन्पुरा वृत्तं तत्राश्चर्यं यदुत्तमम् ॥
कश्चित्पापसमाचारः कुष्ठी क्षामतनुर्नरः
॥५२॥भिक्षार्थमागतस्तत्र लोकैरन्यैः समन्वितः ॥
तेन भिक्षार्जितं तत्र सक्तूनां कुडवं नृप
॥५३॥ततो रोग परिक्लेशाद्भोजनं न चकार सः ॥
दाघार्दितो जले तस्मिन्स्नातो भक्तिविवर्जितः ॥
सक्तून्कृत्वोपधाने तान्स च सुप्तो निशागमे
॥५४॥ततो निद्राभिभूतस्य सारमेयो जहार च ॥
भक्षयामास युक्तोऽन्यैः सारमेयैर्बुभुक्षितः
॥५५॥अथासौ विस्मयाद्राजन्पंचत्वं समुपस्थितः ॥
ततो जातिस्मरो जातो विदर्भाधिपतेर्गृहे
॥५६॥भीमोनाम नृपश्रेष्ठ दमयन्तीपिता हि यः ॥
तं प्रभावं हि विज्ञाय सक्तूनां तत्र पर्वते
॥५७॥फाल्गुनांतचतुर्दश्यां वर्षे वर्षे जगाम सः ॥
कृत्वा चैवोपवासं तु रात्रौ जागरणं तथा
॥५८॥अचलेश्वरसान्निध्ये ददौ सक्तूंस्ततो बहून् ॥
सहिरण्यान्द्विजेन्द्राणां पशुपक्षिमृगेषु च
॥५९॥अथ ते मुनयः सर्वे गालवप्रमुखा नृप ॥
पप्रच्छुः कौतुकाविष्टाः सक्तुदानकृते नृपम्
॥६०॥ऋषय ऊचुः
हस्त्वश्वरथदानानां शक्तिरस्ति तवाद्भुता ॥
कस्मात्सक्तून्प्रमुक्त्वा त्वं नान्यद्दातुमिहेच्छसि
॥६१॥पुलस्त्य उवाच
अथाऽसौ कथयामास पूर्वमेतत्समुद्भवम् ॥
सक्तुदानस्य माहात्म्यं मुनीनां भावितात्मनाम्
॥६२॥पूर्वं भक्त्या विहीनस्य शुना वै सक्तवो हृताः ॥
तत्प्रभावादियं प्राप्तिर्मम जाता द्विजोत्तमाः
॥६३॥सांप्रतं भक्तिद त्तानां किं स्याज्जानामि नो फलम् ॥
एतस्मात्कारणाद्दानं सक्तूनां प्रकरोम्यहम् ॥
तीर्थेऽस्मिन्भक्तिसंयुक्तः सत्येनात्मानमालभे
॥६४॥पुलस्त्य उवाच
ततस्ते मुनयो हृष्टाः साधुसाध्विति चाब्रुवन् ॥
चक्रुश्चैवात्मशक्त्या ते सक्तूनां दानमुत्तमम्
॥६५॥एष प्रभावो राजर्षे सक्तुदानस्य कीर्त्तितः ॥
महेश्वरस्य माहात्म्यं सत्यं चापि प्रकीर्त्तितम्
॥६६॥यश्चैतच्छृणुयाद्भक्त्या कथ्यमानं द्विजाननात् ॥
अहोरात्र कृतात्पापान्मुच्यते नात्र संशयः
॥६७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवलिंग महेश्वरमाहात्म्यवर्णनंपुरःसर सक्तुदानमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥