ततो गच्छेन्नृपश्रेष्ठ पिण्डोदकमनुत्तमम्
पुलस्त्य उवाच
ततो गच्छेन्नृपश्रेष्ठ पिण्डोदकमनुत्तमम् ॥
तीर्थं यत्र तपस्तप्तं पिण्डोदकद्विजातिना
॥१॥पुरा पिण्डोदकोनाम ब्राह्मणोऽभून्महामते ॥
मन्दप्रज्ञोऽल्पमेधावी सोपाध्यायेन पाठितः
॥२॥अशक्तोऽध्ययनं कर्तुं जाड्यभावान्महीपते ॥
स वैराग्यं परं गत्वा संप्राप्तो गिरिगह्वरे
॥३॥एतस्मिन्नेव कालेतु तत्रैव च सरस्वती ॥
वीणाविनोदसंयुक्ता विविक्ते तमुपस्थिता
॥४॥तं दृष्ट्वा ब्राह्मणं खिन्नं वैराग्येण समन्वितम् ॥
कृपाविष्टा महादेवी वाक्यमेतदुवाच ह
॥५॥सरस्वत्युवाच
कस्मात्त्वं खिद्यसे विप्र विरक्त इव भाससे ॥
कस्मान्न हृष्यसि हृदा कस्मादत्र त्वमागतः ॥
वद शीघ्रं महाभाग तवांतिके वसाम्यहम्
॥६॥पिण्डोदक उवाच
अहं वैराग्यमापन्न उपाध्यायतिरस्कृतः ॥
ज्ञानहीनो महाभागे मृत्युं वांछामि सांप्रतम्
॥७॥न मे सरस्वती देवी जिह्वाग्रे परिवर्तते ॥
कारणं नान्यदस्तीह मृत्योर्मम वरानने ॥
दृष्टोऽकस्मात्त्वया चाहं ततो यास्यामि चान्यतः ॥
मरणं हि मम श्रेयो मूकभावान्न जीवितम्
॥९॥सरस्वत्युवाच
अहं सरस्वती देवी सदास्मिन्वरपर्वते ॥
निशासुखे त्रयोदश्यां करोमि वसतिं द्विज ॥
तस्मात्त्वं प्रार्थय वरं यदभीष्टं सुदुर्लभम्
॥१०॥पिण्डोदक उवाच
प्रसादात्तव वै वाणि सर्वज्ञत्वं ममेप्सितम् ॥
एतत्तीर्थं तु मन्नाम्ना ख्यातिं यातु शुचिस्मिते
॥११॥सरस्वत्युवाच
अद्यप्रभृति सर्वज्ञो ह्यत्र लोके भविष्यसि ॥
नाम्ना तव तथा तीर्थमेतत्ख्यातिं प्रयास्यति
॥१२॥निशामुखे त्रयोदश्यां योऽत्र स्नानं करिष्यति ॥
भविष्यति स सर्वज्ञो यद्यपि स्यात्सुमन्दधीः
॥१३॥अत्र मे सततं वासो भविष्यति द्विजोत्तम ॥
यस्मात्तस्मात्सदा स्नानं कर्तव्यं सुसमाहितैः
॥१४॥एवमुक्त्वा ततो देवी तत्रैवांतरधीयत ॥
पिण्डोदको हि सर्वज्ञो भूत्वाथ स्वगृहं ययौ ॥
व्यस्मापयज्जनान्सर्वांस्तत्तीर्थस्य समाश्रयात्
॥१५॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिण्डोदकतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥