मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ७

3
प्रभासखण्डः · अर्बुदखण्डः · 7

तृतीयेऽर्बुदखंडेऽचलेश्वरप्रभाववर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ सुपुण्यमचलेश्वरम् ॥

यं दृष्ट्वा सिद्धिमाप्नोति नरः श्रद्धासमन्वितः

॥१॥

तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥

आश्विने फाल्गुने वापि स याति परमां गतिम्

॥२॥

यस्तु पूजयते भक्त्या दक्षिणां दिशमास्थितः ॥

पुष्पैः पत्रैः फलैश्चैव सोऽश्वमेधफलं लभेत्

॥३॥

पंचामृतेन यस्तत्र तर्पणं कुरु ते नरः ॥

सोऽपि देवस्य सांनिध्यं शिवलोकमवाप्नुयात्

॥४॥

प्रदक्षिणांते यस्तस्य प्रणामं कुरुते नरः ॥

नश्यंति सर्वपापानि प्रदक्षिणपदेपदे

॥५॥

तत्राश्चर्यमभूत्पूर्वं तत्त्वं शृणु महामते ॥

मया पूर्वं श्रुतं स्वर्गे नारदाच्छक्रसन्निधौ

॥६॥

तत्र पूर्वं शुको नीडं वृक्षे चैवाकरोद्द्विजः ॥

गतागतेन नीडस्य कुरुते तं प्रदक्षिणाम्

॥७॥

न च भक्त्या महाराज पक्षियोनिसमुद्भवः ॥

अथासौ मृत्युमापन्नः कालेन महता शुकः

॥८॥

संजातः पार्थिवे वंशे राजा वेणुरिति स्मृतः ॥

जातिस्मरो महाराज सर्वशत्रुनिकृन्तनः

॥९॥

स तं स्मृत्वा प्रभावं हि प्रदक्षिणासमुद्भवम् ॥

अचलेश्वरमासाद्य प्रदक्षिणामथाकरोत्

॥१०॥

नक्तं दिनं महाराज नान्यत्किंचित्करोति सः ॥

न तथा तपसे यत्नो न नैवेद्ये कथंचन

॥११॥

न पुष्पे धूपदाने च प्रदक्षिणापरः सदा ॥

केनचित्त्वथ कालेन मुनयोऽत्र समागताः

॥१२॥

नारदः शौनकश्चैव हारीतो देवलस्तथा ॥

गालवः कपिलो नंदः सुहोत्रः कश्यपो नृपः

॥१३॥

एते चान्ये च बहवो देवव्रतपरायणाः ॥

केचित्स्नानं कारयंति तस्य लिंगस्य भक्तितः

॥१४॥

अन्ये च विविधां पूजां जपमन्ये समाहिताः ॥

एके नृत्यंति राजेंद्र गायंति च तथा परे

॥१५॥

बलिमन्ये प्रयच्छंति स्तुतिं कुर्वंति चापरे ॥

अथाश्चर्यं परं दृष्ट्वा प्रदक्षिणापरं नृपम्

॥१६॥

परं कौतुकमापन्ना वाक्यमेतदथाब्रुवन् ॥

प्रदक्षिणासमुद्भूतं कारणं ज्ञातुमिच्छवः

॥१७॥

ऋषय ऊचुः

कस्मात्त्वं पार्थिवश्रेष्ठ प्रदक्षिणापरः सदा ॥

देवस्यास्य विशेषेण सत्यं नो वक्तुमर्हसि

॥१८॥

न ददासि जलं लिंगे प्रभूतं सुमनोहरम् ॥

पुष्पधूपादिकं वाथ स्तोत्राणि विविधानि च

॥१९॥

समर्थोऽसि तथान्येषां दानानां त्वं महीपते ॥

एतन्नः कौतुकं सर्वं यथावद्वक्तुमर्हसि

॥२०॥

वेणुरुवाच

यदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥

पूर्वदेहांतरे वृत्तं सर्वं सत्यं विशेषतः

॥२१॥

प्रासादेऽस्मिन्पुरा पक्षी शुकोऽहं स्थितवांस्तदा ॥

कृतवांश्च तदा देवं प्रदक्षिणामहर्निशम्

॥२२॥

कृपयाऽस्य प्रभावाच्च जातो जातिस्मरस्त्वहम् ॥

अधुना परया भक्त्या यत्करोमि प्रदक्षिणाम्

॥२३॥

न जाने किं फलं मेऽद्य देवस्यास्य प्रसादतः ॥

एतस्मात्कारणाच्चाहं नान्यत्किंचित्करोमि भोः

॥२४॥

पुलस्त्य उवाच

वेणुवाक्यं ततः श्रुत्वा मुनयः शंसितव्रताः ॥

विस्मयोत्फुल्लनयनाः साधुसाध्विति चाब्रुवन्

॥२५॥

ततः प्रदक्षिण पराः सर्वे तत्र महर्षयः ॥

बभूवुर्मुनयः सर्वे श्रद्धया परया युताः

॥२६॥

सोऽपि राजा महाभागो वेणुः शंभोः प्रसादतः ॥

शाश्वतं स्थानमापन्नो दुर्ल्लभं त्रिदशैरपि

॥२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरप्रभाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥