रक्तानुबन्धं वै गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
पुलस्त्य उवाच
रक्तानुबन्धं वै गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया
॥१॥पुराऽऽसीत्पार्थिवोनाम इंद्रसेनो महीपतिः ॥
तस्याऽऽसीत्सुप्रिया भार्या सुनन्दानाम भामिनी ॥
पतिव्रता पतिप्राणा सदा पत्युः प्रिये स्थिता
॥२॥कस्यचित्त्वथ कालस्य स राजा सपरिग्रहः ॥
परदेशं गतो हंतुं शत्रुसंघं दुरासदम्
॥३॥तं निहत्य धनं भूरि गृहीत्वा प्रस्थितो गृहम् ॥
ततोऽग्रे प्रेषयामास स दूतं कृत्रिमं नृप
॥४॥सुनन्दां ब्रूहि गत्वा त्वमिन्द्रसेनो हतो रणे ॥
तदाकारस्ततो लक्ष्यः पातिव्रत्ये ममाज्ञया
॥५॥यदि सा निश्चयं गच्छेन्मरणं प्रति भामिनी ॥
तदा रक्ष्या प्रयत्नेन वाच्यं हास्यं ममोद्भवम्
॥६॥एवमुक्तो गतो दूतस्तत्क्षणान्नृपसत्तम ॥
तस्यै निवेददामास यदुक्तं तेन भूभुजा
॥७॥अथ तस्य वचः श्रुत्वा सुनंदा चारुहासिनी ॥
गतप्राणा नृपश्रेष्ठ पतिप्राणा महासती
॥८॥यस्मिन्काले मृता सा तु सुनन्दा शीलमंडना ॥
तस्मिन्काले नृपः सोऽपि तत्पापेन समाश्रितः
॥९॥अथापश्यद्द्वितीयां स च्छायां गात्रस्य चोपरि ॥
तथा गुरुतरं कायं सालस्यं समपद्यत
॥१०॥तेजोहीनं सुदुर्गंधि विवर्णं नृपसत्तम ॥
अथ प्राप्तो गृहं राजा श्रुत्वा भार्यासमुद्भवम्
॥११॥विनाशं दुःखशोकार्तः करुणं पर्यदेवयत् ॥
स ज्ञात्वा पापमात्मानं स्त्रीहत्यासुविदूषितम्
॥१२॥ब्राह्मणानां समादेशात्तथा यात्रापरोऽभवत् ॥
कृत्वौर्द्ध्वदैहिकं तस्या लघुमात्र परिग्रहः ॥
वाराणस्यां गतः पूर्वं तत्र दानं ददौ बहु
॥१३॥कपालमोचने तीर्थे सर्वपापप्रणाशने ॥
त्रिनेत्रो यत्र निर्मुक्तः पुरा वै ब्रह्महत्यया
॥१४॥तस्य च्छाया द्वितीया सा न नष्टा तत्र भूपते ॥
ततः कनखलं प्राप्तः सुपुण्यं शुद्धिदं नृणाम्
॥१५॥तथैव पुष्करारण्यं तस्मादमरकण्टकम् ॥
कुरुक्षेत्रं ततो राजन्प्राप्तोऽसौ नृपसत्तमः
॥१६॥प्रभासं सोमतीर्थं च ततस्तु कृमिजांगले ॥
एकहंसं ततो राजन्पुण्यपारिप्लवं ततः
॥१७॥रुद्रकोटिं विरूपाक्षं ततः पंचनदं नृप ॥
एवमादीनि तीर्थानि पुण्यान्यायतनानि च ॥
परिभ्रमन्महीपाल परिश्रांतो नराधिपः
॥१८॥ततो वर्षसहस्रांते संप्राप्तोऽर्बुदपर्वते ॥
तत्रापश्यन्नरपतिस्तीर्थान्यायतनानि च
॥१९॥तपस्विसंघान्विविधान्ब्राह्मणान्वेदपारगान् ॥
ददौ दानानि बहुशो ब्राह्मणेभ्यो यदृच्छया
॥२०॥प्राप्तो रक्तानुबंधं च तीर्थं तत्रैव पर्वते ॥
तत्र स्नातो विनिष्क्रांतो यावत्पश्यति भूमिपः
॥२१॥तावन्न दृश्यते च्छाया द्वितीया स्त्रीवधोद्भवा ॥
लघुत्वं सर्वगात्राणि संप्राप्तानि महीपते
॥२२॥विगन्धता प्रणष्टा च तेजोवृद्धिः पराभवत् ॥
ततो हृष्टमना भूत्वा दत्त्वा दानानि भूरिशः ॥
स्तूयमानश्चतुर्दिक्षु बंदिभिः प्रस्थितो गृहम्
॥२३॥ततो रक्तानुबंधस्य सोमातिक्रमणं नृप ॥
यावत्करोति राजेन्द्र तावदस्य पुनस्तथा
॥२४॥सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम ॥
स एव गन्धो गात्रेषु तेजोहानिश्च सा नृप
॥२५॥ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात् ॥
रक्तबंधमनुप्राप्तो विपाप्मा सोऽभवत्पुनः
॥२६॥स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः ॥
तत्र दारूणि चाहृत्य चितां कृत्वा ततो नृप ॥
दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम्
॥२७॥ततो विमानमारुह्य परित्यज्य कलेवरम् ॥
दिव्यमाल्यांबरधरः शिवलोकमुपागमत्
॥२८॥शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे ॥
देवर्षयस्तदा वाक्यमिदमाहुः सुविस्मयात्
॥२९॥तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम् ॥
इन्द्रसेनो ह्यतः पापात्तीर्थसंगाद्व्यमुच्यत
॥३०॥ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले ॥
रक्तानां प्राणिनां यस्मादनुबन्धं करोति यत्
॥३१॥रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ ॥
तत्र सन्तर्प्य वै देवान्यः श्राद्धं कुरुते नृप
॥३२॥तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः ॥
श्रद्धया परया युक्तो मुच्यते ब्रह्महत्यया
॥३३॥पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः ॥
गयाश्राद्धसमं प्राहुः फलं तस्य महर्षयः
॥३४॥चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम ॥
यः करोति नरस्तत्र स कुलान्सप्त तारयेत्
॥३५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे रक्तानुबन्धमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥