मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय १०

3
प्रभासखण्डः · अर्बुदखण्डः · 10

कलियुगपभावात्सर्वतीर्थागमनवर्णनम्

ययातिरुवाच

केदारं श्रूयते ब्रह्मन्पर्वते च हिमाचले ॥

गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम्

॥१॥

तथा सरस्वती देवी चूतवृक्षाद्विनिर्गता ॥

पश्चिमं सागरं प्राप्ता गृहीत्वा वडवानलम्

॥२॥

कथमत्र समायातः केदारश्चात्र कौतुकम् ॥

सर्वं विस्तरतो ब्रूहि विचित्रं मम भूसुर

॥३॥

पुलस्त्य उवाच

सत्यमेतन्महाराज यन्नोऽत्र परिपृच्छसि ॥

शृणुष्वावहितो भूत्वा यथा जातं श्रुतं तु वै

॥४॥

गंगाद्यानि च तीर्थानि केदाराद्या दिवौकसः ॥

मया सह पुरा देवाः शक्राद्या नृपसत्तमाः

॥५॥

ब्रह्माणं प्रति राजेन्द्र गताः सर्वे महर्षयः ॥

सर्वे तत्र कथाश्चक्रुर्धर्म्या नाना पृथक्पृथक्

॥६॥

समुदाये च देवानां सर्वतीर्थानि पार्थिव ॥

क्षेत्राण्युप स्थितान्येव वनान्युपवनानि च

॥७॥

ततः कथाप्रसंगेन इन्द्रः प्राह चतुर्मुखम् ॥

कौतुकेन समायुक्तः पप्रच्छ नृपसत्तम

॥८॥

इन्द्र उवाच

भगवन्पुण्यमाहात्म्यं श्रोतुमिच्छामि सांप्रतम् ॥

प्रमाणं चैव सर्वेषां कृतादीनां पृथग्विधम्

॥९॥

ब्रह्मोवाच

लक्षं सप्तदश प्रोक्तं युगमानं सुराधिप ॥

अष्टाविंशतिभिः सार्द्धं सहस्रैः कृतमुच्यते

॥१०॥

लक्षद्वादशभिः प्रोक्तं युगं त्रेताभिसंज्ञितम् ॥

षण्णवत्यधिकैश्चैव सहस्रैः परिमाणितम्

॥११॥

लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम् ॥

ततो वै द्वापरं नाम युगं देवप्रकीर्तितम्

॥१२॥

लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा ॥

सहस्रैश्च सुरश्रेष्ठ युगमानमितीरितम्

॥१३॥

चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः ॥

न दुर्भिक्षं न च व्याधिस्तस्मिन्भवति वै क्वचित्

॥१४॥

क्रियते च तदा धर्मो नाकाले मरणं नृणाम् ॥

लांगलेन विना सस्यं भूरिक्षीराश्च धेनवः

॥१५॥

कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता ॥

तस्मिन्युगे सहस्राक्ष न भवंति कदाचन

॥१६॥

ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च ॥

चिरायुषो नरास्तस्मिन्रक्तवर्णो जनार्दनः

॥१७॥

तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः ॥

न कामादिप्रवृत्तिश्च तस्मिन्संजायते नृणाम्

॥१८॥

तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः ॥

तथा यज्ञैर्जपैर्होमैस्तत्र वृत्तिर्भवेन्नृणाम्

॥१९॥

ततस्तु द्वापरं नाम तृतीयं युग मुच्यते ॥

द्विपदो धर्मः सञ्जातः पीतवर्णो जनार्द्दनः

॥२०॥

फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च ॥

सत्यानृतान्वितो लोको द्वापरे सुरसत्तम

॥२१॥

तत्रान्योन्यं महीपाला युयुधुर्वसुधातले ॥

सुपूताश्च दिवं यांति यज्ञैरिष्ट्वा जनार्दनम्

॥२२॥

ततः कलियुगं घोरं चतुर्थं तु प्रव र्त्तते ॥

एकपादो भवेद्धर्मः संत्रस्तो नित्यपूजने

॥२३॥

कृष्णवर्णो भवेद्विष्णुः पापाधिक्यं प्रवर्तते ॥

माया च मत्सरश्चैव कामः क्रोधस्तथा भयम्

॥२४॥

अर्थलुब्धास्तथा भूपा लोभमोहशतान्विताः ॥

अल्पायुषो नरास्तत्र अल्पसस्या च मेदिनी

॥२५॥

अल्पक्षीरास्तथा गावः सत्यहीना द्विजातयः ॥

तत्र मायाविनो लोका जैह्व्यौपस्थ्यपरायणाः

॥२६॥

सत्यहीनास्तथा पापा भविष्यंति कलौ युगे ॥

तत्र षोडशमे वर्षे नराः पलितकुन्तलाः

॥२७॥

नार्यो द्वादशमे वर्षे भविष्यंति सुगर्भिताः ॥

भविष्यति क्रमाद्वर्णसंकरश्च सुराधिप

॥२८॥

एकाकारा भविष्यंति सर्ववर्णाश्रमाश्च वै ॥

नाशं यास्यंति यज्ञाश्च कुलधर्मः सनातनः

॥२९॥

व्यर्थानि तत्र तीर्थानि म्लेच्छस्पृष्टानि सर्वशः ॥

भविष्यंति सुरश्रेष्ठ प्रभावरहितानि च

॥३०॥

एतच्छ्रुत्वा ततो वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ॥

तत्र स्थितानि तीर्थानि ब्रह्माणमिदमब्रुवन्

॥३१॥

तीर्थान्यूचुः

कथं वयं भविष्यामः संप्राप्ते दारुणे कलौ ॥

स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि

॥३२॥

ब्रह्मोवाच

अर्बुदः पर्वतश्रेष्ठः कलिस्तत्र न विद्यते ॥

अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह

॥३३॥

अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः ॥

कलिदोषविनिर्मुक्तः स यास्यति परां गतिम्

॥३४॥

पुलस्त्य उवाच

एवमुक्त्वा चतुर्वक्त्रो ब्रह्मलोकं गतो नृप ॥

ततः सर्वाणि तीर्थानि गतानि च कलौ युगे

॥३५॥

भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात् ॥

गंगा सरस्वती चैव यमुना पुष्कराणि च

॥३६॥

कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च ॥

तिस्रःकोट्योऽर्द्धकोटिश्च यानि तीर्थानि भूतले

॥३७॥

तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके ॥

एवं तत्र समापन्ना गंगा चैव सरस्वती

॥३८॥

तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः ॥

श्राद्धं कृत्वा महाराज स्वर्गे यांति च पूर्वजाः

॥३९॥

शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते ॥

ऋषिर्मंकणकोनाम सरस्वत्यास्तटे स्थितः

॥४०॥

तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः ॥

तस्यैवं वर्तमानस्य क्षुतमासीत्कदाचन

॥४१॥

पित्तं प्रपतितं तत्र तच्च रक्तमयं बभौ ॥

तद्दृष्ट्वाऽतीव हृष्टः स मंकणर्षिर्बभूव ह

॥४२॥

सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः ॥

तस्यैवं वर्तमानस्य जगत्स्थावरजंगमम्

॥४३॥

तत्र संक्षोभमापन्नं सागरा अपि चुक्षुभुः ॥

गृहकृत्यानि संत्यज्य सर्वे विस्मयमा गताः

॥४४॥

तस्यैवं नृत्यमानस्य सर्वे लोका नृपोत्तम ॥

ननृतुः पार्थिवश्रेष्ठ प्रभावात्तस्य सन्मुनेः

॥४५॥

ततो देवगणाः सर्वे गत्वा कामनिषूदनम् ॥

यथाऽयं नृत्यते नैव तथा कुरु महेश्वर

॥४६॥

अथ ब्राह्मणरूपेण शंभुनोक्तो द्विजोत्तमः ॥

त्वया ब्रह्मंस्तपस्तप्तमधुना नृत्यते कथम्

॥४७॥

मंकण उवाच

किं न पश्यसि हे ब्रह्मन्रक्तं पित्तं च मे स्थितम् ॥

संजातं सिद्धिमापन्नो रक्तं पित्तं यतो मम

॥४८॥

एतस्मात्कारणाद्धर्षाद्द्विज नृत्यं करोम्यहम् ॥

एवमुक्तस्ततस्तेन देवदेवो महेश्वरः

॥४९॥

तर्जन्या ताडयामास स्वांगुष्ठं नृपसत्तम ॥

ततोंगुष्ठाद्विनिष्क्रांतं भस्म वै बिसपांडुरम्

॥५०॥

ततो मंकणकं प्राह पश्य विप्र करान्मम ॥

शुभ्रं भस्म विनिष्क्रांतं पश्य मे द्विज कौतुकम्

॥५१॥

पुलस्त्य उवाच

तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम् ॥

जानुभ्यामवनिं गत्वा वाक्यमेतदुवाच ह

॥५२॥

मंकण उवाच

नूनं भवान्महादेवः साक्षाद्दृष्टः प्रसीद मे ॥

निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते

॥५३॥

नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः ॥

मां समुद्धर देवेश कृपां कृत्वा महेश्वर

॥५४॥

श्रीमहादेव उवाच

सम्यग्ज्ञातोऽस्मि विप्रेन्द्र त्वयाऽहं नात्र संशयः ॥

वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम्

॥५५॥

मंकण उवाच

येऽत्र स्नानं प्रकुर्वंति सरस्वत्यां समाहिताः ॥

त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः

॥५६॥

श्रीमहादेव उवाच

येऽत्र स्नानं करिष्यंति सरस्वत्यां समाहिताः ॥

ते यास्यंति परं स्थानं जरामरणवर्जितम्

॥५७॥

अत्र गंगासरस्वत्योः संगमे लोकविश्रुते ॥

श्राद्धं कुर्युर्द्विजश्रेष्ठ ते यास्यंति परां गतिम्

॥५८॥

सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे ॥

सर्व पापविनिर्मुक्तास्ते यास्यन्ति परां गतिम्

॥५९॥

इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डेऽर्बुदाचले कलियुगपभावात्सर्वतीर्थागमनवर्णनंनाम दशमोऽध्यायः ॥ १० ॥