मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ६

3
प्रभासखण्डः · अर्बुदखण्डः · 6

वसिष्ठाश्रममाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ वसिष्ठं तपसां निधिम् ॥

यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात्

॥१॥

तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम् ॥

तस्मिन्कुण्डे नृपश्रेष्ठ वसिष्ठेन महात्मना

॥२॥

गोमती च समानीता तपसा नृपसत्तम ॥

तत्र स्नातो नरः सम्यक्पातकै र्विप्रमुच्यते

॥३॥

ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत् ॥

स पितृंस्तारयेत्सर्वान्पक्षयोरुभयोरपि

॥४॥

अत्र गाथा पुरा गीता नारदेन महात्म ना ॥

स्नात्वा पुण्योदके तत्र दृष्ट्वा तं मुनिसत्तमम्

॥५॥

किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः ॥

वसिष्ठस्याश्रमं प्राप्य यः श्राद्धं कुरुते नरः ॥

स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम

॥६॥

तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः ॥

पूजनीया विशेषेण सर्वकामप्रदा नृणाम्

॥७॥

बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥

वसिष्ठदर्शनात्सद्यो नराणां याति संक्षयम्

॥८॥

दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः ॥

सुखसौभाग्यसंयुक्तस्तेजस्वी जायते नरः

॥९॥

उपवासपरो यस्तु तत्रैका रजनीं नयेत् ॥

स याति परमं स्थानं यत्र सप्तर्षयोऽमलाः

॥१०॥

त्रिरात्रिं कुरुते यस्तु वसिष्ठाग्रे समाहितः ॥

स याति च महर्लोकं जरामरणवर्जितः

॥११॥

यस्तु मासोपवासं च वसिष्ठाग्रे करोति च ॥

सोऽपि मुक्तिमवाप्नोति न याति स भवार्णवम्

॥१२॥

श्रावणस्य सिते पक्षे पौर्णमास्यां समाहितः ॥

ऋषिं तर्पयते यस्तु ब्रह्मलोकं स गच्छति

॥१३॥

वसिष्ठस्याग्रतो यस्तु गायत्र्यष्टशतं जपेत् ॥

आजन्ममरणात्पापात्सद्यो मुच्येत मानवः

॥१४॥

वामदेवं यजेत्तत्र यदि श्रद्धासमन्वितः ॥

अग्निष्टोमफलं राजन्सद्यः प्राप्नोति मानवः

॥१५॥

तस्मात्सर्वप्रयत्नेन द्रष्टव्योऽसौ महामुनिः ॥

शुचिभिः श्रद्धया युक्तास्ते यास्यंति परं पदम्

॥१६॥

तस्मात्सर्वात्मना राजन्वामदेवं च पूजयेत्

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे वसिष्ठाश्रममाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥