मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अर्बुदखण्डः, अध्याय ५५

3
प्रभासखण्डः · अर्बुदखण्डः · 55

रुद्रह्रदमाहात्म्यवर्णनम्

पुलस्त्य उवाच

ततो गच्छेन्नृपश्रेष्ठ पुण्यं रुद्रह्रदं शुभम् ॥

यत्र स्नातो नरो भक्त्या गणाधीशत्वमाप्नुयात्

॥१॥

पुरा हत्वांऽधकं दैत्यं सगणो वृषभध्वजः ॥

ततः स्नातो ह्रदं कृत्वा ततो रुद्रह्रदोऽभवत्

॥२॥

चतुर्द्दश्यां महाराज यस्तत्र कुरुते नरः ॥

स्नानं तस्य भवेत्पुण्यं सर्वतीर्थसमुद्भवम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रुद्रह्रदमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥