मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 1

प्रश्नकरणवर्णनम्

श्रीगणेशाय नमः

अथ स्कांदे महापुराणे सप्तमे प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ॥

शौनक उवाच ॥

कथं सूत युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥

बहुपाखंडसंकीर्णे प्राप्स्यामो मधुसूदनम्

॥१॥

युगत्रये व्यतिक्रान्ते धर्माचारपरे सदा ॥

प्राप्ते कलियुगे घोरे क्व विष्णुर्भगवानिति

॥२॥

सूत उवाच

दिवं याते महाराजे रामे दशरथात्मजे ॥

दुष्टराजन्यभारेण पीडिते धरणीतले

॥३॥

देवानां कार्यसिद्ध्यर्थं भूभारहरणाय च ॥

वसुदेवगृहे साक्षादाविर्भूते जनार्दने

॥४॥

नंदव्रजं गते देवे पूतनाशोषणे सति ॥

घातिते च तृणावर्ते शकटे परिवर्तिते

॥५॥

दमिते कालिये नागे प्रलंबे च निषूदिते ॥

धृते गोवर्धने शैले परित्राते च गोकुले

॥६॥

सुरभ्या चाभिषिक्ते तु इन्द्रे च विमदीकृते ॥

रासक्रीडारते देवे दारिते केशिदानवे

॥७॥

अक्रूरवचनाद्देवे मथुरायां गते हरौ ॥

हते कुवलयापीडे मल्लराजे च घातिते

॥८॥

पश्यतां देव दैत्यानां भोजराजे निपातिते ॥

यदुपुर्यामभिषिक्त उग्रसेने नराधिपे

॥९॥

जरासंधबले रौद्रे यवने च हते क्षितौ ॥

राजसूये क्रतुवरे चैद्ये चैव निपातिते

॥१०॥

निवृत्ते भारते युद्धे भारे च क्षपिते भुवः ॥

यात्राव्याजसमानीते प्रभासं यादवे कुले

॥११॥

मद्यपानप्रसक्ते तु परस्परवधो द्यते ॥

कलहेनातिरौद्रेण विनष्टे यादवे कुले

॥१२॥

गात्रं संत्यज्य चात्रैव गतेऽनंते धरातलात् ॥

अश्वत्थमूललमाश्रित्य समासीने जनार्दने

॥१३॥

व्याधप्रहारभिन्नांगे परित्यक्ते कलेवरे ॥

स्वधामसंस्थिते देवे पार्थे च पुनरागते

॥१४॥

यदुपुर्य्यां प्लावितायां सागरेण समंततः ॥

शक्रप्रस्थं ततो गत्वा कारयित्वा हरेर्गृहम्

॥१५॥

द्वापरे च व्यतिक्रांते धर्माधर्मविमिश्रिते ॥

संप्राप्ते च महारौद्रे युगे वै कलिसंज्ञिते

॥१६॥

क्षीयमाणे च सद्धर्मे विधर्मे प्रबले तथा ॥

नष्टधर्मक्रियायोगे वेदवादबहिष्कृते ॥

एकपादे स्थिते धर्मे वर्णाश्रमविवर्जिते

॥१७॥

अस्मिन्युगे विलुलिते ह्यृषयो वनचारिणः ॥

समेत्यामंत्रयन्सर्वे गर्गच्यवनभार्गवाः

॥१८॥

असितो देवलो धौम्यः क्रतुरुद्दालकस्तथा ॥

एते चान्ये च बहवः परस्परमथाब्रुवन्

॥१९॥

पश्यध्वं मुनयः सर्वे कलिव्याप्तं दिगंतरम् ॥

समंतात्परिधावद्भिर्दस्युभिर्बाध्यते प्रजा

॥२०॥

अधर्मपरमैः पुंभिः सत्यार्जवनिराकृतैः ॥

कथं स भगवान्विष्णुः संप्राप्यो मुनिसत्तमाः

॥२१॥

को वा भवाब्धौ पततस्तारयिष्यति संगतान् ॥

न कलौ संभवस्तस्य त्रियुगो मधुसूदनः ॥

तं विना पुंडरीकाक्षं कथं स्याम कलौ युगे

॥२२॥

तेषां चिंतयतामेवं दुःखितानां तपस्विनाम् ॥

उवाच वचनं तत्र ऋषिरुद्दालकस्तदा

॥२३॥

उद्दालक उवाच

यावन्न कलिदोषेण लिप्यामो मुनिसत्तमाः ॥

अपापा ब्रह्मसदनं गच्छामः परिसंगताः

॥२४॥

पृच्छामो लोकधातारं स्थितं विष्णुं कलौ युगे ॥

यदि विष्णुः कलौ न स्याद्रुद्रेण ब्रह्मणाऽसह

॥२५॥

तं विना पुंडरीकाक्षं त्यक्ष्यामः स्वकलेवरम् ॥

विना भगवता लोके कः स्थास्यति कलौ युगे

॥२६॥

तच्छ्रुत्वा वचनं तस्य ऋषयः संशितव्रताः ॥

साधुसाध्विति ते चोक्त्वा प्रस्थिता ब्रह्मणोंऽतिकम्

॥२७॥

कथयन्तः कथां विष्णोः स्वरूपमनुवर्णनम् ॥

तापसाः प्रययुः सर्वे संहृष्टा ब्रह्मणोंऽतिकम्

॥२८॥

ददृशुस्ते तदा देवमासीनं परमासने ॥

पितामहभूतगणैर्मूर्तामूर्तैर्वृतं तथा

॥२९॥

दृष्ट्वा चतुर्मुखं देवं दंडवत्प्रणताः क्षितौ ॥

प्रणम्य देवदेवं तु स्तोत्रेण तुषुवुस्तदा

॥३०॥

ऋषय ऊचुः

नमस्ते पद्मसंभूत चतुर्वक्त्राक्षयाव्यय ॥

नमस्ते सृष्टिकर्त्रे तु पितामह नमोऽस्तु ते

॥३१॥

एवं स्तुतः सन्मुनिभिः सुप्रीतः कमलोद्भवः ॥

पाद्यार्घ्येणाभिवन्द्यैतान्पप्रच्छ मुनिपुंगवान्

॥३२॥

ब्रह्मोवाच

किमागमनकृत्यं वो ब्रूत तत्त्वेन पुत्रकाः ॥

कुशलं वो महाभागाः पुत्रशिष्याग्निबन्धुषु

॥३३॥

ऋषय ऊचुः

भवत्प्रसादात्सकलं प्राप्तं नस्तपसः फलम् ॥

यद्भवंतं प्रपश्यामः सर्वदेवगुरुं प्रभुम्

॥३४॥

शृण्वेतत्कारणं शंभो एते प्राप्तास्तवांतिकम् ॥

युगत्रये व्यतिक्रांते कृतादिद्वापरांतके

॥३५॥

प्राप्ते कलियुगे घोरे क्व विष्णुः पृथिवीतले ॥

यं दृष्ट्वा परमां मुक्तिं यास्यामो मुक्तबन्धनाः

॥३६॥

ब्रह्मोवाच

मत्स्यकूर्मादिरूपैश्च भगवाञ्ज्ञायते मया ॥

विष्णोः पारमिकां मूर्तिं न जानामि द्विजोत्तमाः

॥३७॥

ऋषय ऊचुः

यदि त्वं न विजानासि तात विष्णोरवस्थितिम् ॥

गत्वा प्रयागं तत्रैव संत्यक्ष्यामः कलेवरम्

॥३८॥

ब्रह्मोवाच

मा विषादं व्रजध्वं हि उपदेक्ष्यामि वो हितम् ॥

इतो व्रजध्वं पातालं यत्रास्ते दैत्यसत्तमः

॥३९॥

तं गत्वा परिपृच्छध्वं प्रह्लादं दैत्यसत्तमम् ॥

स ज्ञास्यति हरेः स्थानं याथातथ्येन भो द्विजाः

॥४०॥

तच्छुत्वा वचनं तस्य ब्रह्मणः परमात्मनः ॥

प्रणिपत्य च देवेशं प्रस्थितास्ते तपोधनाः

॥४१॥

जग्मुः संहृष्टमनसः स्तुवन्तो दैत्यसत्तमम् ॥

धन्यः स दैत्यराजोऽयं यो जानाति जनार्द्दनम्

॥४२॥

इति संचिंतयानास्ते प्राप्ता वै सुतलं द्विजाः

॥४३॥

गत्वा ते तस्य नगरं विविशुर्भवनोत्तमम् ॥

दूरादेव स तान्दृष्ट्वा बलिर्वैरोचनिस्तदा ॥

प्रत्युत्थायार्हयाञ्चक्रे प्रह्लादेन समन्वितः

॥४४॥

मधुपर्कं च गां चैव दत्त्वा चार्घ्यं तथैव च ॥

उवाच प्रांजलिर्भूत्वा प्रहृष्टेनांतरात्मना

॥४५॥

स्वागतं वो महाभागाः सुव्युष्टा रजनी मम ॥

भवतो यत्प्रपश्यामि ब्रूत किं करवाणि च

॥४६॥

एवं हि दैत्यराजेन सत्कृतास्ते द्विजोत्तमाः ॥

ऊचुः प्रहृष्टमनसो दानवेन्द्रसुतं तदा

॥४७॥

ऋषय ऊचुः

कार्यार्थिनस्तु संप्राप्ताः प्रह्लाद हरिवल्लभ ॥

तदस्माकं महाबाहो भवांस्त्राता भवार्णवात्

॥४८॥

कथं दैत्य युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥

भविष्यामो विना विष्णुं भीतानामभयप्रदम्

॥४९॥

अस्मिन्युगे ह्यधर्मेण जितो धर्मः सनातनः ॥

अनृतेन जितं सत्यं विप्राश्च वृषलैर्जिताः

॥५०॥

विटैर्जिता वेदमार्गाः स्त्रीभिश्च पुरुषा जिताः ॥

ब्राह्मणाश्चापि वध्यन्ते म्लेच्छ राजन्यरूपिभिः

॥५१॥

अस्मिन्विलुलितप्राये वर्णाश्रमविवर्जिते ॥

अविलुप्ते वेदमार्गे क्व विष्णुर्भगवानिति

॥५२॥

विना ज्ञानाद्विना ध्यानाद्विना चेंद्रियनिग्रहात् ॥

प्राप्यते भगवान्यत्र तद्गुह्यं कथयस्व नः

॥५३॥

दैत्यराज त्वमस्माकं सुहृन्मार्गप्रदर्शकः ॥

कथयस्व महाभाग यत्र तिष्ठति केशवः

॥५४॥

एवं स द्विजमुख्यैश्च संपृष्टो दैत्यसत्तमः ॥

प्रणम्य ब्राह्मणान्सर्वान्भक्त्या संहृष्टमानसः

॥५५॥

स नमस्कृत्य देवेभ्यो ब्रह्मणे परमात्मने ॥

भगवद्भक्तिर्युक्तः सन्व्याहर्त्तुमुपचक्रमे

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कलिभीतमहर्षिभिर्ब्रह्मवचनात्प्रह्लादसंनिधौ कलियुगे भगवत्स्थितिविषये प्रश्नकरणवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥