मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १५

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 15

ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनम्

प्रह्लाद उवाच

श्रुत्वा तमागतं देवं ब्रह्माणं पितरं स्वकम् ॥

सनकाद्या नमस्कर्त्तुं जग्मुः सर्वे पितामहम्

॥१॥

तं दृष्ट्वा लोककर्त्तारं दण्डवत्प्रणताः क्षितौ ॥

ततो दृष्ट्वा स तनयान्संगृह्य परिषस्वजे

॥२॥

पृष्टश्चानामयं तैस्तु पृष्ट्वा तान्समुवाच ह ॥

आराधितो यैर्भगवान्धन्या यूयं वयं तथा

॥३॥

संसिद्धिं परमां याता भगवद्दर्शनेन हि ॥

न ज्ञातं पुत्रकाः सम्यगज्ञानाद्बालबुद्धिभिः

॥४॥

येनार्चितो महादेवस्तस्य तुष्यति केशवः ॥

अनर्चिते नीलकण्ठे न गृह्णात्यर्चनं हरिः ॥

तस्मात्सर्वप्रयत्नेन पूज्यतां नीललोहितः

॥५॥

येन संपूर्णतां याति कृष्णपूजा कृता सदा ॥

तच्छ्रुत्वा वचनं तस्या ब्रह्मपुत्रा ययुस्तदा

॥६॥

देवागाराग्रतो गत्वा योगसिद्धा महर्षयः ॥

लिंगं संस्थापयामासुः शिवभक्तिपुरस्कृता

॥७॥

संस्थाप्य शिवलिंगं ते स्नानार्थं मुनिसत्तमाः ॥

कूपं चक्रुस्ततः सर्व ऋषयः संशितव्रताः

॥८॥

दृष्ट्वा तममृतप्रख्यं जलपूर्णं सुनिर्मलम् ॥

संहृष्टा ऋषयः सर्वे साधुसाध्विति चाब्रुवन्

॥९॥

स्थापितं शिवलिंगं च दृष्ट्वा लोकपितामहः ॥

उवाच वचनं ब्रह्मा प्रीतः पुत्रांस्तदा द्विजाः

॥१०॥

ब्रह्मोवाच

भवद्भिर्योगसंसिद्धैर्यस्मात्संस्थापितः शिवः ॥

तस्मात्सिद्धेश्वर इति ख्यातिं लोके गमिष्यति

॥११॥

समीपे शितिकण्ठस्य कूपोयमृषिभिः कृतः ॥

ऋषितीर्थमिति ख्यातं तस्माल्लोके भविष्यति

॥१२॥

विना श्राद्धेन विप्रेन्द्रा दानेन पितृतर्पणात् ॥

भक्तितः स्नानमात्रेण पितृभिः सह मुच्यते

॥१३॥

असत्यवादिनो ये च परनिन्दा परायणाः ॥

स्नानमात्रेण शुध्यन्ति ऋषितीर्थे न संशयः

॥१४॥

स्नानं प्रशस्तं विषुवे मन्वादिषु तथैव च ॥

तथा कृतयुगाद्यायां माघस्य द्विजसत्तमाः

॥१५॥

शिवरात्रौ वसेद्यस्तु लिंगे सिद्धेशसंज्ञिते ॥

स्नात्वा ऋषिकृते तीर्थे किं तस्यान्येन वै द्विजाः ॥

गत्वा तत्र महाभागा गृहीत्वा फलमुत्तमम्

॥१६॥

अर्घ्यं दत्त्वा विधानेन कृत्वा च करयोः कुशान् ॥

गृह्णंत्वर्घ्यमिमं देवा योगसिद्धा महर्षयः

॥१७॥

ऋषितीर्थे च पापघ्ने सिद्धेश्वरसमन्विते ॥

दत्त्वार्घ्यं मृदमालभ्य स्नानं कुर्यात्समाहितः

॥१८॥

तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥

ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयाऽन्वितः

॥१९॥

तथा च दक्षिणां दद्याद्वित्तशाठ्यविवर्जितः ॥

विशेषतः प्रदेयानि फलानि रसवंति च

॥२०॥

दद्याच्छयामाकनीवारान्विद्रुमं चाजिनानि च ॥

सप्तधान्यानि शालींश्च सक्तूंश्च गुडसंयुतान्

॥२१॥

गंधमाल्यानि तांबूलं वस्त्राणि च तथा पयः ॥

एवं कृत्वा समग्रं च कृतकृत्यो भवेन्नरः

॥२२॥

पूजयित्वा महादेवं सिद्धेश्वरमुमापतिम् ॥

सफलं जन्म मर्त्यस्य जीवितं च सुजीवितम्

॥२३॥

यः स्नात्वा ऋषितीर्थे तु पश्येत्सिद्धेश्वरं शिवम् ॥

पितरस्तस्य तुष्यन्ति तुष्यन्ति च पितामहाः

॥२४॥

अपुत्रा पुत्रिणः स्युस्ते पुत्रिणश्चापि पौत्रिणः ॥

निर्धना धनवंतश्च सिद्धेश्वररता नराः

॥२५॥

दुष्कृतं याति विलयं सुकृतं च विवर्द्धते ॥

भवेन्मनोरथावाप्तिः प्रणते सिद्धनायके

॥२६॥

ऋषितीर्थे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं हरम् ॥

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

॥२७॥

शिवरात्र्यां विशेषेण सिद्धेशः संप्रपूजितः ॥

यंयं कामयते कामं तं ददाति न संशयः ॥

चिन्तामणिसमः स्वामी ह्यथवा चाक्षयो निधिः

॥२८॥

श्रुत्वाध्यायमिमं पुण्यं सर्वाघहरणं परम् ॥

प्रयाति परमं स्थानं मानवः श्रद्धयान्वितः

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्य ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥