शिवलिंगस्थापनवर्णनम्
प्रह्लाद उवाच
ब्रह्मघोषध्वनिं श्रुत्वा दानवो दुर्मुखस्तदा ॥
क्रोधसंरक्तनयनो दुर्वाससमथाब्रवीत्
॥१॥हन्यमानस्त्वमस्माभिर्यदि मुक्तोसि वै द्विज ॥
कस्मात्पुनः समायातो मरणाय च दुष्टधीः
॥२॥इत्युक्त्वा मुष्टिना हन्तुं प्राद्रवद्दानवाधमः ॥
प्राह प्रधावमानं तं दुर्वासा मुनिसत्तमः
॥३॥स्पर्शं मा कुरु पापिष्ठ ब्राह्मणं मां कृताह्निकम् ॥
तं दृष्ट्वा दानवं विष्णुर्ब्राह्मणं हन्तुमुद्यतम्
॥१३॥तस्य क्रुद्धो जगन्नाथो दुर्वाससः कृते तदा ॥
चक्रेण क्षुरधारेण शिरश्चिच्छेद लीलया
॥५॥प्रह्लाद उवाच
दुर्मुखं निहतं दृष्ट्वा दानवो दुःसहस्तदा ॥
आक्रोशदुच्चैर्दितिजाञ्छीघ्रमागम्यतामिति
॥६॥श्रुत्वा दैत्यगणाः सर्वे दुर्मुखं निहतं तदा ॥
दुर्वाससं पुनस्तत्र परित्रातं च विष्णुना
॥७॥कूर्मपृष्ठो गोलकश्च क्रोधनो वेददूषकः ॥
यज्ञघ्नो यज्ञहंता च धर्मान्तकस्तपस्विहा
॥८॥एते चान्ये च बहवो विविधायुधपाणयः ॥
क्रोधसंरक्तनयनाः शपन्तो ब्राह्मणं तथा
॥९॥परिक्षिप्य तदात्रेयं विष्णुं संकर्षणं तथा ॥
तोमरैर्भिन्दिपालैश्च मुशलैश्च भुशुंडिभिः
॥१०॥अस्त्रैर्नानाविधैश्चापि युयुधुः क्रोधमूर्छिताः ॥
दानवैः संवृतो विष्णुः समन्ताद्घोरदर्शनैः
॥११॥संकर्षणश्च शुशुभे चंद्रादित्यौ घनैरिव ॥
गृहीत्वा धनुषी दिव्ये शीघ्रं संयोज्य चाशुगान्
॥१२॥तान्मार्गणगणैर्दैत्याञ्जघ्नतुस्ते महामृधे ॥
ते हन्यमानाः समरे विष्णुना विद्रुता दिशः
॥१३॥दानवान्विद्रुतान्दृष्ट्वा विष्णुना निहतान्परान् ॥
गोलकः कूर्मपृष्ठश्च मानं कृत्वा न्यवर्तताम्
॥१४॥संकर्षणं गोलकश्च ह्याजघान त्रिभिः शरैः ॥
अनन्तं व्यथितं दृष्ट्वा गोलकः क्रोधमूर्छितः
॥१५॥उत्पत्य तरसा मूर्ध्नि दुर्वाससमताडयत् ॥
स मुष्टिघाताभिहतश्चुक्रोश पतितः क्षितौ
॥१६॥संकर्षणस्तु पतितं दृष्ट्वा मूर्ध्नि प्रताडितम् ॥
दृष्ट्वा चुकोप भगवांस्तिष्ठतिष्ठेति चाब्रवीत् ॥
संगृह्य मुशलं वीरो जघान समरे रिपुम्
॥१७॥मुशलेनाहतो मूर्ध्नि गोलको विकलेन्द्रियः ॥
संभिन्नमस्तकश्चैव पपात च ममार च
॥१८॥गोलकं पतितं दृष्ट्वा क्रन्दंतं ब्राह्मणं तथा ॥
कूर्मपृष्ठं च भगवान्विष्णुर्हन्तुं मनो दधे ॥
नाराचेन सुतीक्ष्णेन जघान हृदये रिपुम्
॥१९॥स विष्णुबाणाभिहतस्त्यक्तशस्त्रः पलायितः ॥
तस्मिन्प्रभिन्नेऽतिबले गते वै कूर्मपृष्ठके ॥
अभज्यत बलं सर्वं विद्रुतं च दिशो दश
॥२०॥तत्प्रभग्रं बलं सर्वं निहतं गोलकं तथा ॥
द्वारस्थः कथयामास दैत्यराज्ञे कुशाय सः
॥२१॥गोलकं निहतं श्रुत्वा दैत्यानन्यांश्च दैत्यराट् ॥
योधानाज्ञापयामास सन्नद्धान्स्वबलस्य च
॥२२॥आज्ञां कुशस्य ते लब्ध्वा दैत्याः पंचजनादयः ॥
युद्धायाभिमुखाः सर्वे रथैर्नागैश्च निर्ययुः
॥२३॥अनीकं दशसाहस्रं कूर्मपृष्ठस्य निर्ययौ ॥
अयुते द्वे रथानां तु नागानामयुतं तथा
॥२४॥दशायुतानि चाश्वानामुष्ट्राणां च तथैव च ॥
बकश्च निर्ययौ दैत्यो बहुसैन्यसमन्वितः
॥२५॥तथा दीर्घनखो दैत्यः स्वेनानीकेन संवृतः ॥
मंत्रिपुत्रो महामायो दैत्यराज कुशस्य वै ॥
निर्ययौ विघसो दैत्यः प्रघसश्च महाबलः
॥२६॥ऊर्द्ध्वबाहुर्वक्रशिराः कञ्चुकश्च शिवोलुकैः ॥
ब्रह्मघ्नो यज्ञहा दैत्यो राहुर्बर्बरकस्तथा
॥२७॥सुनामा वसुनामा च मंत्रिणौ बुद्धिसत्तमौ ॥
सेनापतिश्चोग्रदंष्टस्तस्य भ्राता महाहनुः
॥२८॥एते चान्ये च बहवो दैत्याः क्रोधसमन्विताः ॥
महता रथघोषेण निर्ययुर्युद्धकांक्षिणः
॥२९॥स्नात्वा शुक्लांबरधरः शुक्लमालाविभूषितः ॥
कुशः शंभुं महादेवं भवानीपतिमव्ययम् ॥
आर्चयमास भूतेशं परमेण समाधिना
॥३०॥पंचामृतेन संस्नाप्य तथा गन्धैर्वि लिप्य च ॥
अर्चयामास दैत्येन्द्रो ह्यनेककुसुमोत्करैः
॥३१॥गीतवादित्रशब्दैश्च तथा मंगलवाचकैः ॥
पूजयित्वा महादेवं ब्राह्मणान्स्वस्ति वाच्य च
॥३२॥भूषयित्वा भूषणैश्च मणिवज्रविभूषणैः ॥
मुकुटेनार्कवर्णेन ज्वलद्भास्कररोचिषा
॥३३॥भ्राजमानो दैत्यराजो हारेणाऽतीव शोभितः ॥
संनह्य च महाबाहुः सारथिं समुदैक्षत
॥३४॥सुनामानं वसुं चैव मंत्रिणौ वाक्यमब्रवीत् ॥
कश्चायमसुरान्हंति किमर्थं ज्ञायतामिति
॥३५॥तस्य तद्वचनं श्रुत्वा रुरुर्वचनमब्रवीत् ॥
गतेह्नि ब्राह्मणः स्नातुं गोमत्याः संगमे किल
॥३६॥आगतः प्रतिषिद्धः सन्दैत्यैस्तत्र मही पते ॥
तेन विष्णुः समानीतः संकर्षणसमन्वितः
॥३७॥सोऽस्मान्हंति महाराज ब्रह्मण्यो जगदीश्वरः ॥
तेन ते बहवो दैत्या हताः केचित्पलायिताः
॥३८॥सुनामोवाच
स्नात्वा गच्छतु विप्रोऽसौ वासुदेवसमन्वितः ॥
राजन्वृथा विग्रहेण किं कार्यं कथयस्व नः
॥३९॥तस्य तद्वचनं श्रुत्वा कुशः क्रोधसमन्वितः ॥
कथं गोलकहंतारं न हनिष्यामि केशवम्
॥४०॥एतावदुक्त्वा स क्रुद्धो ययौ दैत्यपतिस्तदा ॥
ततो वादित्र शब्दैश्च भेरीशब्दैः समन्वितः
॥४१॥ददर्श तत्र देवेशं सहस्रशिरसं प्रभुम् ॥
तथा विष्णुं चक्रपाणिं दुर्वाससमकल्मषम्
॥४२॥ईश्वरांशं च तं दृष्ट्वा न हन्तव्योऽयमीश्वरः ॥
विष्णुमुद्दिश्य तान्सर्वान्प्रेरयामास दानवान्
॥४३॥नागैः पर्वतसंकाशै रथैर्जलदसन्निभैः ॥
अश्वैर्महाजवैश्चैव परिवव्रुः समंततः
॥४४॥ततो युद्धं समभवद्देवयोर्दानवैः सह ॥
आच्छादितौ तौ ददृशुर्दैत्यैर्देवगणास्तदा
॥४५॥ततो गृहीत्वा मुशलं हलं च बलवान्हली ॥
जघान दैत्यप्रवरान्कालानलयमोपमान्
॥४६॥ते हन्यमाना दैतेया बलेन बलशालिना ॥
सर्वतो विद्रुता भग्नाः कुशमेव ययुस्तदा
॥४७॥बकश्च यज्ञकोपश्च ब्रह्मघ्नो वेददूषकः ॥
महामखघ्नो जंभश्च राहुर्वक्रशिरास्तथा
॥४८॥एते चान्ये च बहवः प्रवरा दानवोत्तमाः ॥
क्रोधसंरक्तनयना बिभिदुस्ते जनार्द्दनम्
॥४९॥ततः क्रोधसमायुक्तौ संकर्षणजनार्दनौ ॥
चक्रलांगलघातेन जघ्नतुर्दानवोत्तमान्
॥५०॥चक्रेण च शिरः कायाच्चिच्छेदाशु बकस्य वै ॥
चूर्णयामास मुशली यज्ञहंतारमेव च
॥५१॥राहुं जघान चक्रेण तथान्यान्मुशलेन च ॥
ते हता हन्यमानाश्च भग्ना जग्मुर्दिशो दश
॥५२॥कुशः स्वां वाहिनीं दृष्ट्वा विद्रुतां निहतां तथा ॥
क्रोधसंरक्तनयनः प्राह याहीति सारथिम्
॥५३॥स तयोरंतिकं गत्वा नाम विश्राव्य चात्मनः ॥
उवाच कस्त्वं दैतेयान्मम हंसि गदाधर
॥५४॥श्रीवासुदेव उवाच
यस्माद्विमुक्तिदं पुण्यं गोमत्युदधिसंगमम् ॥
रुद्धं दुरात्मभिः पापैस्तस्मात्ते निहता मया
॥५५॥कुश उवाच
मां न जानासि चात्रस्थं कथं जीवन्प्रयास्यसि ॥
युध्यस्व त्वं स्थिरो भूत्वा ततस्त्यक्ष्यसि जीवितम्
॥५६॥इत्युक्त्वा पंचविंशत्या ताडयामास केशवम् ॥
अनंतं चाष्टभिर्बाणैर्हत्वाऽऽत्रेयं निरीक्ष्य तम् ॥
ईश्वरांशं च तं दृष्ट्वा प्राह याहीति मा चिरम्
॥५७॥स बाणैर्भिन्नसर्वांगः शार्ङ्गं हि धनुषां वरम् ॥
विकृष्य घातयामास चतुर्भिश्चतुरो हयान्
॥५८॥सारथेस्तु शिरः कायादर्द्धचंद्रेण पत्त्रिणा ॥
चिच्छेद धनुरेकेन ध्वजमेकेन चिच्छिदे
॥५९॥स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
प्रगृह्य च महाखङ्गमुवाच वचनं तदा
॥६०॥यदि त्वां पातयिष्यामि कीर्तिर्मे ह्यतुला भवेत् ॥
पातितोऽहं त्वया वीर यास्यामि परमां गतिम्
॥६१॥तिष्ठतिष्ठ हरे स्थाने शरणं मे सदाशिवः ॥
धावंतमतिसंक्रुद्धं खङ्गहस्तं निरीक्ष्य तम् ॥
चक्रेण शितधारेण शिरश्चिच्छेद लीलया
॥६२॥तं छिन्नशिरसं भूमौ पतितं वीक्ष्य दानवम् ॥
अथोवाह रथेनाजौ दैत्यः खंजनकस्तथा
॥६३॥अपयाते कुशे दैत्ये विष्णुः संकर्षणस्तदा ॥
दुर्वाससा च सहितः संन्यवर्तत हर्षितः
॥६४॥शिवालये तु पतितं कुशं निक्षिप्य दानवः ॥
स्नानगन्धार्चनैर्धूपैर्गीतवाद्यैरतोषयत्
॥६५॥अवाप जीवितं सद्यः प्रसादाच्छंकरस्य च ॥
उत्थितः स तदा दैत्यो ब्रुवञ्छिवशिवेति च
॥६६॥तं पुनर्जोवितं दृष्ट्वा दैत्यं दैत्यगणस्तदा ॥
उवाच सुमना वाक्यं वर्द्धस्व सुचिरं विभो
॥६७॥स्नापयित्वा यदि पुनर्ब्राह्मणं विनिवर्त्तते ॥
यथेष्टं गच्छतु तदा किं वृथा विग्रहेण ते
॥६८॥तस्य तद्वचनं श्रुत्वा कुशो वचनमब्रवीत् ॥
गच्छ प्रेषय तौ शीघ्रं विप्रत्राणकरावुभौ
॥६९॥स च राज्ञा समादिष्ट सुमना मुनिसत्तमाः ॥
उवाच विष्णुमानम्य नमस्कृत्य हलायुधम्
॥७०॥कुशेन प्रेषितश्चास्मि समीपे ते जनार्दन ॥
किं तवापकृतं नाथ येन दैत्याञ्जिघांससि
॥७१॥दुर्वाससं स्नापयित्वा गच्छ मुक्तोऽसि मानद ॥
अमरत्वं महादेवात्प्राप्तं विद्धि कुशेन हि
॥७२॥श्रीविष्णुरुवाच
मुक्तितीर्थमिदं रुद्धं भवद्भिः पापकर्मभिः ॥
तस्माद्धनिष्ये सर्वांश्च दानवान्नात्र संशयः
॥७३॥दुर्वाससश्च ये दर्भास्तिलाश्चैवाक्षतैः सह ॥
पुनस्तानानयध्वं हि क्षिप्ता ये वरुणालये
॥७४॥सवाहनपरीवाराः सजातिकुलबांधवाः ॥
पुण्यतीर्थमिदं हित्वा प्रविशध्वं धरातले
॥७५॥सुमनास्तद्वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥
युध्यध्वमिति तं चोक्त्वा नैतदेवं भविष्यति
॥७६॥कुशाय कथयामास यदुक्तं शार्ङ्गधन्विना ॥
क्रुद्धस्तद्वचनं श्रुत्वा मंत्रिणा समुदीरितम्
॥७७॥रथमारुह्य वेगेन ययौ योद्धुमरिंदमः ॥
संस्मृत्य मनसा देवं पिनाकिं वृषभध्वजम्
॥७८॥ततः प्रववृते युद्धं सुमहल्लोमहर्षणम् ॥
अन्येषां दानवानां च केशवस्य कुशस्य च
॥७९॥यज्ञघ्नो गदया गुर्व्या संकर्षणमताडयत् ॥
संकर्षणहतः शीर्ष्णि मुसलेन पपात ह
॥८०॥कञ्चुकं च जघानाशु चक्रेण भगवान्हरिः ॥
उल्मुकश्चाथ निहतो ब्रह्मघ्नश्च निपातितः
॥८१॥एते चान्ये च बहवो घातिताः केशवेन हि ॥
दानवान्पतितान्दृष्ट्वा कुशः परमकोपितः
॥८२॥जघान युधि संरब्धः परमास्त्रेण केशवम् ॥
भगवान्क्रोधसंयुक्तश्चक्रेण चाहरच्छिरः
॥८३॥तं छिन्नशिरसं भूमौ पातितं वीक्ष्य केशवः ॥
चिच्छेद बाहू पादौ च खङ्गेन तिलशस्तथा
॥८४॥खंडशो घातितं दृष्ट्वा केशवेन कुशं तदा ॥
संगृह्य ते पुनर्देत्या निन्युः सर्वे शिवालयम्
॥८५॥प्रसादाच्छूलिनः सद्यो जीवितं प्राप्य दानवः ॥
उत्थितः सहसा क्रुद्धः क्व विष्णुरिति चाब्रवीत्
॥८६॥गदामुद्यम्य संक्रुद्धो योद्धुमागाज्जनार्द्दनम् ॥
तमुद्यतगदं दृष्ट्वा निहतं जीवितं पुनः
॥८७॥दुर्वाससमथोवाच किमिदं न म्रियेत यत् ॥
मयाऽसकृच्छिरश्छिन्नं खंडशस्तिलशः कृतम्
॥८८॥जीवत्ययं पुनः कस्मात्कारणं कथ यस्व नः ॥
इत्युक्तश्चिंतयामास ध्यानेन ऋषिसत्तमः
॥८९॥ज्ञात्वा तत्कारणं सर्वमुवाच मधुसूदनम् ॥
महादेवेन तुष्टेन कुशोऽयममरः कृतः
॥९०॥खंडशश्च कृतश्चापि न च प्राणैर्वियुज्यते ॥
ततः स विस्मयाविष्टो हंतव्योऽयं मया कथम्
॥९१॥उपायं च करिष्यामि येनायं न भवे दिति ॥
ततः स जीवितं प्राप्य प्रसादाच्छंकरस्य च ॥
चर्मखङ्गमथादाय तिष्ठतिष्ठेति चाब्रवीत्
॥९२॥तमायांतं ततो दृष्ट्वा कुशं शिवपरिग्रहम् ॥
जघान गदया गुर्व्या गदाहस्तं तदा कुशम्
॥९३॥स भिन्नमूर्द्धा न्यपतत्केशवेनाभिताडितः ॥
भूमौ निपतितं वेगात्परिगृह्य कुशं हरिः
॥९४॥गर्ते निक्षिप्य तद्देहं पूरयामास वै पुनः ॥
लिंगं संस्थापयामास तस्योपरि जनार्द्दनः
॥९५॥स लब्धसंज्ञो दनुजः शिवलिंगमपश्यत ॥
आत्मोपरिस्थितं तच्च तदा चिन्तापरोऽभवत्
॥९६॥इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे राक्षसकुशविष्णुयुद्धे कुशराक्षसोपरि विष्णुना शिवलिंगस्थापनवर्णनंनाम विंशतितमोऽध्यायः ॥ २० ॥