द्वादशीजागरणमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
प्रह्लादं सर्वधर्मज्ञं वेदशास्त्रार्थपारगम् ॥
वैष्णवागमतत्त्वज्ञं भगवद्भक्तितत्परम्
॥१॥सुखासीनं महाप्राज्ञमृषयो द्रष्टुमागताः ॥
सर्वशास्त्रार्थतत्त्वज्ञाः स्वधर्मप्रतिपालकाः
॥२॥ऋषय ऊचुः
विना ज्ञानाद्विना ध्यानाद्विना चेन्द्रियनिग्रहात् ॥
अनायासेन येनैतत्प्राप्यते परमं पदम्
॥३॥संक्षेपात्कथय स्नेहाद्दृष्टादृष्टफलोदयम् ॥
धर्मान्मनुजशार्दूल ब्रूहि सर्वानशेषतः
॥४॥इत्युक्तोऽसौ महाभागो नारायणपरायणः ॥
कथयामास संक्षेपात्सर्वलोकहितोद्यतः
॥५॥श्रीप्रह्लाद उवाच
श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं महत् ॥
यस्य संश्रवणादेव सर्वपापक्षयो भवेत्
॥६॥अष्टादशपुराणानां सारात्सारतरं च यत् ॥
तदहं कथयिष्यामि भुक्तिमुक्तिफलप्रदम्
॥७॥सुखासीनं महादेवं जगतः कारणं परम् ॥
पप्रच्छ षण्मुखो भक्त्या सर्वलोकहितोद्यतः
॥८॥स्कन्द उवाच
भगवन्सर्वलोकानां दुःखसंसारभेषजम् ॥
कथयस्व प्रसादेन सुखोपायं विमुक्तये
॥९॥ईश्वर उवाच
चतुर्विधं तु यत्पापं कोटिजन्मार्जितं कलौ ॥
जागरे वैष्णवं शास्त्रं वाचयित्वा व्यपोहति
॥१०॥वैष्णवस्य तु शास्त्रस्य यो वक्ता जागरे हरेः ॥
मद्भक्तं तं विजानीयाद्विपन्नस्त्वन्यथा भवेत्
॥११॥हरिजागरणं कार्यं मद्भक्तेन विजानता ॥
अन्यथा पापिनो ज्ञेया ये द्विषन्ति जनार्द्दनम्
॥१२॥जागरं ये च कुर्वंति गायंति हरिवासरे ॥
अग्निष्टोमफलं तेषां निमिषार्द्धेन षण्मुख
॥१३॥जागरे पश्यतां विष्णोर्मुखं रात्रौ मुहुर्मुहुः ॥
येषां हृष्यंति रोमाणि रात्रौ जागरणे हरेः ॥
कुलानि दिवि तावंति वसंति हरिसन्निधौ
॥१४॥यमस्य पथि निर्मुक्ता जनाः पापशतैर्वृताः ॥
गीतशास्त्रविनोदेन द्वादशीजागरान्विताः
॥१५॥सुप्रभाता निशा तेषां धन्याः सुकृतिनो नराः ॥
प्राणात्ययेन मुह्यंति यैः कृतं जागरं हरेः
॥१६॥पुत्रिणस्ते नरा लोके धनिनः ख्यातपौरुषाः ॥
येषां वंशोद्भवाः पुत्राः कुर्वंति हरिजागरम्
॥१७॥इष्टं मखैः कृतं दानं दत्तं पिंडं गयाशिरे ॥
स्नातं नित्यं प्रयागे तु यैः कृतं जागरं हरेः
॥१८॥दयिता विष्णुभक्ताश्च नित्यं मम षडानन ॥
कुर्वंति वासरं विष्णोर्यस्माज्जागरणं हितम्
॥१९॥श्रुत्वा हर्षं न चाप्नोति जागरं न करोति यः ॥
प्रकटीकरोति तन्नूनं जनन्या दुर्विचेष्टितम्
॥२०॥संप्राप्य वासरं विष्णोर्न येषां जागरो हरेः ॥
व्यर्थं गतं च तत्पुण्यं तेषां वर्षशतोद्भवम्
॥२१॥पुत्रो वा पुत्रपुत्रो वा दौहित्रो दुहिताऽपि वा ॥
करिष्यति कुलेऽस्माकं कलौ जागरणं हरेः
॥२२॥पात्यमानाः प्रजल्पंति पितरो यमकिंकरैः ॥
मुक्तिर्भविष्यत्यस्माकं नरकाज्जागरे कृते
॥२३॥नान्यथा जायतेऽस्माकं मुक्तिर्यज्ञशतैरपि ॥
विना जागरणेनैव नरलोकात्कथंचन ॥
तस्माज्जागरणं कार्यं पितॄणां हितमिच्छता
॥२४॥भक्तिर्भागवतानां च गोविंदस्यापि कीर्तनम् ॥
न देहग्रहणं तस्मात्पुनर्लोके भविष्यति
॥२५॥जागरं कुरुते यश्च संगमे विजयादिने ॥
पुनर्द्देहप्रजननं दग्धं तेनाऽऽत्मना स्वयम्
॥२६॥त्रिस्पृशा वासरं येन कृतं जागरणान्वितम् ॥
केशवस्य शरीरे तु स लीनो नात्र संशयः
॥२७॥उन्मीलिनी कृता येन रात्रौ जागरणान्विता ॥
प्रभवंति न पापानि स्थूलसूक्ष्माणि तस्य तु
॥२८॥सतालवाद्यसंयुक्तं संगीतं जागरं हरेः ॥
यः कारयति देवस्य द्वादश्यां दानसंयुतम्
॥२९॥तस्य पुण्यं प्रवक्ष्यामि महाभागवतस्य हि ॥
तिलप्रस्थहस्रं तु सहिरण्यं द्विजातये ॥
दत्त्वा यत्फलमाप्नोति ह्ययने रविसंक्रमे
॥३०॥हेमभारशतं नित्यं सवत्सं कपिलायुतम् ॥
प्रेक्षणीयप्रदानेन तत्फलं प्राप्नुयात्कलौ
॥३१॥यः पुनर्वासरे पुत्र दिव्यैर्ऋषिकृतैः स्तवैः ॥
तोषयेत्पद्मनाभं वै वैदिकैर्विष्णुसामभिः
॥३२॥ऋग्यजुःसामसम्भूतैवैष्णवैश्चैव पुत्रक ॥
संस्कृतैः प्राकृतैः स्तोत्रैरन्यैश्च विविधैस्तथा
॥३३॥प्रीतिं करोति देवेशो द्वादश्यां जागरे स्थितः ॥
शृणु पुण्यं समासेन यद्गीतं ब्रह्मणा मम
॥३४॥त्रिःसप्तकृत्वो धरणीं त्रिगुणीकृत्य षण्मुख ॥
दत्त्वा यत्फलमाप्नोति तत्फलं प्राप्नुयान्नरः
॥३५॥गवां शतसहस्रेण सवत्सेनापि यत्फलम् ॥
तत्फलं प्राप्नुयान्मर्त्त्यः स्तोत्रैर्यस्तोषयेद्धरिम्
॥३६॥वैदिकी दशगुणा प्रीतिर्यामेनैकेन जागरे ॥
एवं फलानुसारेण कार्य्यं जागरणं हरेः
॥३७॥यः पुनः पठते रात्रौ गीतां नामसहस्रकम् ॥
द्वादश्यां पुरतो विष्णोर्वेष्णवानां समीपतः
॥३८॥पुण्यं भागवतं स्कांदपुराणं दयितं हरेः ॥
माधुरं बालचरितं गोपीनां चरितं तथा
॥३९॥एतान्पठति रात्रौ यः पूजयित्वा तु केशवम् ॥
न वेद्म्यहं फलं वत्स यदि ज्ञास्यति केशवः
॥४०॥दीपं प्रज्वालयेद्रात्रौ यः स्तवैर्हरिजागरे ॥
न चास्तं गच्छते तस्य पुण्यं कल्पशतैरपि
॥४१॥मंजरीसहितैः पत्रैस्तुलसीसम्भवैर्हरिम् ॥
जागरे पूजयेद्भक्त्या नास्ति तस्य पुनर्भवः
॥४२॥स्नानं विलेपनं पूजा धूपं दीपं च संस्तवम् ॥
नैवेद्यं च सतांबूलं जागरे दत्तमक्षयम्
॥४३॥ध्यातुमिच्छति षड्वक्त्रं यो मां भक्तिपरायणः ॥
स करोतु महाभक्त्या द्वादश्यां जागरं हरेः
॥४४॥वासरे वासुदेवस्य सर्वे देवाः सवासवाः ॥
देहमाश्रित्य तिष्ठंति ये प्रकुर्वंति जागरम्
॥४५॥जागरेवासुदेवस्य महाभारतकीर्तनम् ॥
ये कुर्वंति गतिं यांति योगिनां ते न संशयः
॥४६॥चरितं रामदेवस्य ये वधं रावणस्य च ॥
पठंति जागरे विष्णोस्ते यांति परमां गतिम ॥
४७ अधीत्य चतुरो वेदान्कृत्वा चैवार्चनं हरेः ॥
स्नात्वा च सर्वतीर्थेषु जागरे तत्फलं हरेः
॥४९॥रथानामयुतैर्यत्तु सहस्रैर्वरवारणैः ॥
लक्षेणाश्ववराणां तु तत्फलं जागरे हरेः
॥४९॥धान्यशैलसहस्रैस्तु तुलापुरुषको टिभिः ॥
यत्फलं मुनिभिः प्रोक्तं तत्फलं जागरे हरेः
॥५०॥कन्याकोटिप्रदानं च स्वर्णभारशतं तथा ॥
दत्तं रत्नायुतशतं यैः कृतो जागरो हरेः
॥५१॥अष्टादशपुराणैस्तु पठितैर्यत्फलं भवेत् ॥
तत्फलं शतसाहस्रं कृते जागरणे हरेः
॥५२॥मन्वादि पठतां शास्त्रं यत्फलं हि द्विजन्मनः ॥
अधिकं फलमाप्नोति कुर्वाणो जागरं हरेः
॥५३॥दुर्भिक्षे चान्नदातॄणां पुंसां भवति यत्फलम् ॥
संन्यासिनां सहस्रैस्तु यत्फलं भोजितैः कलौ ॥
फलं तत्समवाप्नोति कुर्वतां जागरं हरेः
॥५४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः ॥ २६ ॥