मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय २२

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 22

रुक्मिणीपूजनमाहात्म्यवर्णनम्

श्रीप्रह्लाद उवाच

शृणुध्वं द्विजशार्दूला यथावत्कथयामि वः ॥

स्नापयित्वा जगन्नाथं तथा गंधैर्विलिप्य च ॥

पूजयित्वा तुलस्या तु भूषयित्वा च भूषणैः

॥१॥

नैवेद्येन च सन्तर्प्य तथा नीराजनादिभिः ॥

दुर्वाससं तथा पूज्य पुंडरीकाक्षमेव च

॥२॥

अनंतं वैनतेयादीन्भक्त्या सम्पूज्य मानवः ॥

दद्याद्दानं स्वशक्त्या च वित्तशाठ्यविवर्जितः

॥३॥

दीनांधकृपणांस्तत्र तर्पयेच्च समाश्रितान्

॥४॥

रुक्मिणीं च ततो गच्छेद्विदर्भतनयां नरः ॥

उपहृत्योपहारांश्च बलिभिर्गंधदीपकैः

॥५॥

पीडयंति ग्रहास्तावद्व्याधयोऽभिभवंति च ॥

भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

॥६॥

उपसर्गभयं तावद्दुःखं च भूतसंभवम् ॥

भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

॥७॥

भवेद्दरिद्री दुःखी च तावद्वै परयाचकः ॥

भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

॥८॥

तावन्मृतप्रजा नारी दुर्भाग्या दुःखसंयुता ॥

भक्त्या न पश्यति यदा नारीकृष्णप्रियां तथा

॥९॥

तावच्छत्रुभयं पुंसां गृहभंगं च मूर्खता ॥

भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

॥१०॥

संपूज्य क्रृष्णं विधिवद्रुक्मिणीं पूजयेत्ततः ॥

स्नापयेद्दधिदुग्धाभ्यां मधुशर्करया तथा

॥११॥

घृतेन विविधैर्गन्धैस्तथैवेक्षुरसेन च ॥

तीर्थोदकेन संस्नाप्य सर्वान्कामानवाप्नुयात्

॥१२॥

एवं यः स्नापये द्देवीं रुक्मिणीं क्रृष्णवल्लभाम् ॥

न तस्य दुर्ल्लभं किंचिदिह लोके परत्र च

॥१३॥

श्रीखण्डकुंकुमेनैव तथा मृगमदेन च ॥

विलेपयेदपुत्रस्तु स पुत्रं लभते धुवम्

॥१४॥

सदा स भोगी भवति रूपवाञ्जनपूजितः ॥

पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः

॥१५॥

करवीरैर्मल्लिकाभिश्च चम्पकैस्तु विशेषतः ॥

कमलैर्वारिसंभूतैः केतकीभिश्च पाटलैः

॥१६॥

धूपेनागुरुणा चैव पूजयेद्गौग्गु लेन च ॥

वस्त्रैः सुकोमलैः शुभ्रैर्नानादेशसमुद्भवैः

॥१७॥

भक्त्या संछाद्य वैदर्भीं रुक्मिणीं कृष्णवल्लभाम् ॥

भूषणैर्भूषयेद्देवीं मणिरत्न समन्वितैः

॥१८॥

तस्मिन्कुले नाऽसुखः स्यान्नाऽधर्मो नाऽधनस्तथा ॥

नाऽपुत्रो न विकर्मस्थः कितवो नीचसेवकः

॥१९॥

यैः पूजिता जगन्माता रुक्मिणी मानवैः कलौ ॥

नैवेद्यैर्भक्ष्यभोज्याद्यैर्देवी मे प्रीयतामिति ॥

तांबूलं च सकर्पूरं भावेन विनिवेदयेत्

॥२०॥

गृहीत्वा च फलं शुभ्रं ह्यक्षतैश्च समन्वितम् ॥

मन्त्रेणानेन वै विप्रा ह्यर्घ्यं दद्याद्विधानतः

॥२१॥

कृष्णप्रिये नमस्तुभ्यं विदर्भाधिपनंदिनि ॥

सर्वकामप्रदे देवि गृहाणार्घ्यं नमोऽस्तु ते

॥२२॥

आरार्तिकं ततः कुर्याज्ज्वलन्तं भावनान्वितः ॥

नीराजनं प्रकर्तव्यं कर्पूरेण विशेषतः

॥२३॥

शंखे कृत्वा तु पानीयं भ्रामयेद्भावसंयुतः ॥

भ्रामयित्वा च शिरसा धारणीयं विशुद्धये

॥२४॥

दण्डवत्प्रणमेद्भूमौ नमः कृष्णप्रियेति च ॥

विप्रपत्नीश्च विप्रांश्च पूजयेच्छक्तितो द्विजाः

॥२५॥

ग्रीवासूत्रकसिन्दूरैर्वासोभिः कञ्चुकैस्तथा ॥

सुगन्धकुसुमैरर्च्य कुंकुमेन विलिप्य च

॥२६॥

कौसुंभकैः कज्जलेन तांबूलेन च तोषयेत् ॥

भक्ष्यैर्भोज्यैमोदकैश्च इक्षुभिर्मधुसर्पिभिः

॥२७॥

प्रीतो भवति देवेशो रुक्मिण्या सह केशवः ॥

विशेषतः फलानीह दातव्यानि द्विजोत्तमाः

॥२८॥

उन्मत्तकं ततो देवं द्वारपालं प्रपूजयेत् ॥

स्नापयित्वा सुगन्धेन कुंकुमेन विलिप्य च

॥२९॥

धूपेन धूपयित्वा तु पुष्पाद्यैः संप्रपूजयेत ॥

नैवेद्यैर्भक्ष्यभोज्यैश्च मांसेन सुरया तथा

॥३०॥

प्रभूतबलिभिश्चैव पिष्टेन विविधेन च ॥

योगिनीनां चतुःषष्टिं तस्मिन्पीठे प्रपूजयेत्

॥३१॥

अर्चयेद्धरसिद्धिं च क्षेत्रपालं च सर्वशः ॥

विरूपस्वामिनीं तत्र तथा वै सप्तमातरः

॥३२॥

अष्टमूर्तीः कृष्णपत्नीः पीठे तस्मिन्प्रपूजयेत् ॥

रुक्मिणीं सत्यभामां च शुभां जांबवतीं तथा

॥३३॥

मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा ॥

अष्टमीं लक्ष्मणां तत्र पूजयेत्कृष्णवल्लभाः

॥३४॥

एताः संपूज्य विधिवत्संतर्प्य दधिपायसैः ॥

गीतवादित्रघोषेण दीपैर्जागरणेन च

॥३५॥

पुत्र पौत्रसमायुक्तो धनधान्यसमन्वितः ॥

सर्वान्कामानवाप्नोति तस्य विष्णुः प्रसीदति

॥३६॥

किं तस्य वहुदानैस्तु किं व्रतैर्नियमैस्तथा ॥

येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

॥३७॥

किं यज्ञैर्बहुभिस्तस्य संपूर्णवरदक्षिणैः ॥

येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

॥३८॥

तेन दत्तं हुतं तेन जप्तं तेन सनातनम् ॥

येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

॥३९॥

हेलया तेन संप्राप्ताः सिद्धयोऽष्टौ न संशयः ॥

गत्वा द्वारवतीं येन दृष्टा केशववल्लभा

॥४०॥

सफलं जीवितं तस्य सफलाश्च मनोरथाः ॥

कलौ कृष्णपुरीं गत्वा दृष्ट्वा माधववल्लभाम्

॥४१॥

देव राज्येन किं तस्य तथा मुक्तिपदेन च ॥

न दृष्टा चेज्जगन्माता रुक्मिणी कृष्णवल्लभा

॥४२॥

तस्मात्सर्वप्रयत्नेन रुक्मिणी कृष्णवल्लभा ॥

सदाऽर्चनीया मनुजैर्द्रष्टव्या सर्वकामदा

॥४३॥

विशेषतः पूजनीया नवरात्रे सदाश्विने ॥

नवम्यां तु नरैर्यैस्तु पूजिता हरिवल्लभा

॥४१॥

स्नानगन्धादि वस्त्रैस्तु प्रभूतबलिभिस्तथा ॥

गीतवादित्रघोषेण दीपजागरणेन च ॥

तोषिता भीष्मकसुता सर्वान्कामान्प्रयच्छति

॥४५॥

तथा दीपोत्सवदिने चतुर्द्दश्यां समाहितः ॥

पूजयित्वा यथाशास्त्रमीप्सितं लभते फलम्

॥४६॥

माघमासे सिताष्टम्यां कन्दर्प्पजननी तु यैः ॥

पूजिता गन्धपुष्पाद्यैरुपहारैरनेकशः ॥

सफलं जीवितं तेषां सफलाश्च मनोरथाः

॥४७॥

द्वादश्यां चैत्रमासे तु कृष्णेन सह रुक्मिणीम् ॥

ये पश्यंति नरा देवीं रुक्मिणीं मधुमाधवे ॥

कृष्णेन सह गच्छन्तीं धन्यास्ते मानवा भुवि

॥४८॥

पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः ॥

जीविते व्याधिनिर्मुक्ताः पदं गच्छन्त्यनामयम्

॥४९॥

ज्येष्ठाष्टम्यां नरैर्यैस्तु पूजिता कुष्णवल्लभा ॥

तेषां मनोरथावाप्तिर्जायते नात्र संशयः

॥५०॥

तथा भाद्रपदे मासि मातुः पूजा कृता तु यैः ॥

सर्वपापविनिर्मुक्ता यांति विष्णुपदे नराः

॥५१॥

कार्त्तिके मासि द्वादश्यां रुक्मिणीं कृष्णसंयुताम् ॥

ये पश्यंति नरास्तेषां न भयं विद्यते क्वचित्

॥५२॥

यस्त्वेकत्र स्थितां पश्येद्रुक्मिणीं कृष्णसंयुताम् ॥

सफलं जीवितं तस्य ह्यक्षया पुत्रसंततिः ॥

अक्षयं धनधान्यं च कदा नैव दरिद्रता

॥५३॥

य एवं रुक्मिणीं पश्येत्पूजयेत्कृष्णवल्लभाम् ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥५४॥

यः स्नायात्सर्वतीर्थेषु दानं शक्त्या ददाति यः ॥

तस्य पुण्यफलं चैव लोके यज्जायते द्विजाः ॥

कथितं तदशेषेण कलौ कृष्णस्य संस्थितौ

॥५५॥

द्वारावतीं विना विप्रा मुक्तिर्न प्राप्यते कलौ ॥

पुराणसंहितामेतां कृतवान्बलिबन्धनः ॥

ददौ स तु प्रसादेन पूर्वं मह्यं द्विजोत्तमाः

॥५६॥

इहार्थे च पुरा प्रोक्तं इतिहासो द्विजोत्तमाः ॥

प्रद्युम्नेन सुसंवादे मार्कण्डेन महात्मना

॥५७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीपूजनमाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥