दिव्यस्वप्रभया ध्वांतं भूतानां नाशयन्सदा
प्रह्लाद उवाच
दिव्यस्वप्रभया ध्वांतं भूतानां नाशयन्सदा ॥
जनयन्परमानंदं भक्तानां च भयापहः
॥१॥पताकाभिर्ध्वजस्थाभिर्द्वारकाजयवर्द्धनः ॥
दिव्यपुण्यप्रकाशेन राजते गिरिराडिव
॥२॥दृष्ट्वाऽऽलयं तदा विष्णोस्तदायुधविभूषितम् ॥
विहाय पादुके च्छत्रं दण्डवत्पतिता भुवि
॥३॥भूमिसंलुठनं तेषां तीर्थानामद्भुतं महत् ॥
अभवद्विप्र शार्दूलाः क्षेत्रादीनां च सर्वशः
॥४॥वाराणसी कुरुक्षेत्रं प्रयागो जाह्नवी तथा ॥
यमुना नर्मदा पुण्या पुण्या प्राची सरस्वती
॥५॥गोदावरी महापुण्या गया तिस्रस्तु मंगलाः ॥
शालिग्रामं महाक्षेत्रं पुण्या चक्रनदी शुभा
॥६॥पयोष्णी तपती कृष्णा कावेर्य्याद्याः सुपुण्यदाः ॥
पुष्करादीनि तीर्थानि सागराः पर्वतोत्तमाः
॥७॥अयोध्या मथुरा माया अवंत्याद्याश्च मुक्तिदाः ॥
श्रीरंगाख्यमनंतं च प्रभासं च विशेषतः
॥८॥पुरुषोत्तमं महाक्षेत्रमरण्यान्यादयः शुभाः ॥
त्रैलोक्ये वर्त्तमानानि सर्वतीर्थानि सर्वशः
॥९॥दृष्ट्वा कृष्णालयं पुण्यं मुहुर्मुहुः प्रहर्षिताः ॥
जय शब्दैर्नमःशब्दैर्गर्जंतो हरिनामभिः
॥१०॥आनंदाश्रूणि मुंचंतः प्रेम्णा गद्गदया गिरा ॥
स्तुवंति मुनयः सर्वे तीर्थादीनि च सर्वशः
॥११॥अथ संस्तुवतां तेषामन्योन्यं मुदितात्मनाम् ॥
वीक्ष्य वक्त्राणि सर्वेषां महर्षिर्नारदोऽब्रवीत्
॥१२॥श्रीनारद उवाच
राशयः पुण्य पुंजानां कृता युष्माभिरुत्तमाः ॥
तज्जन्मना सहस्रैस्तु यद्दृष्टं कृष्णमंदिरम्
॥१३॥दर्शनं कृष्णदेवस्य द्वारकागमने मतिः ॥
दृढभक्तिर्महाविष्णोर्नाल्पस्य तपसः फलम्
॥१४॥धन्या वै पूर्वजास्तेषां वंशजाः कृष्णदर्शनं ॥
सोत्सवा द्वारकां यांति पश्यंति च हरिप्रियाम्
॥१९॥धन्येयं गौतमी गंगा गौतमोऽयं महातपाः ॥
यत्प्रसादेन सर्वेषां कल्याणं समुपस्थितम्
॥१६॥यज्ञाध्ययनदानानां तपोव्रतसमाधिनाम् ॥
संप्राप्तफलमस्माभिर्युष्माभिः सर्वतीर्थकाः
॥१७॥यूयं सर्वाणि तीर्थानि क्षेत्राणि चैव कृत्स्नशः ॥
कृष्णाज्ञया सर्वकालं तिष्ठध्वं सर्वदैवतैः
॥१८॥वसंति येऽत्र ते धन्या एकाहमपि पावनाः ॥
पश्यंतु सुमहाभागा गोदावर्य्यत्र जाह्नवी
॥१९॥इयं च शोभते पुण्या द्वारका कृष्ण वल्लभा ॥
प्रपश्यंतु महाभागास्तथा वाराणसीं शुभाम्
॥२०॥क्षेत्राणि कुरुमुख्यानि पश्यंतु द्वारकां प्रभोः ॥
तादृशी मथुरा काशी मायाऽध्योध्या च राजते
॥२१॥अवन्ती न च कांची च क्षेत्रं च पुरुषोत्तमम् ॥
सूर्योपरागकालेऽपि कुरुक्षेत्रं न राजते
॥२२॥ईदृशं न गयातीर्थं यादृगेतत्प्रकाशते
॥२३॥ग्रहनक्षत्रताराणां यथा सूर्य्यो विराजते ॥
सक्षेत्रतीर्थराजानां द्वारकार्को विराजते
॥२४॥प्रह्लाद उवाच
निशम्य नारदेनोक्तं प्रहृष्टाश्च तथा द्विजाः ॥
क्षेत्राणि सर्वतीर्थानि पुरस्कृत्य च गौतमम्
॥२५॥विहाय गौतमीं तत्र प्रययुर्ह्यग्रतोग्रतः ॥
प्रहृष्टा गौतमी तत्र प्रणम्य त्वरिता ययौ
॥२६॥गीतवाद्यैश्च नृत्यैश्च पताकाभिः समंततः ॥
प्रययुः स्तोत्रपाठैश्च सर्वे ते द्वारकाश्रये
॥२७॥स तीर्थान्यग्रतः कृत्वा मध्ये कृत्वा तु शोभनम् ॥
प्रयागं तीर्थराजं च प्रहृष्टं क्षेत्रदर्शनात्
॥२८॥ततः पश्चात्सरित्स्नानं चकार ऋषिसत्तमः ॥
जाह्नवी गौतमी रेवा यमुनाप्राक्सरस्वती
॥२९॥सरयूर्गंडकी तापी पयोष्णी यमुना तथा ॥
कृष्णा भीमरथी गंगा कावेरी चाघनाशिनी
॥३०॥मंदाकिनी महापुण्या पुण्या भोगवती नदी ॥
व्रजंति युगपत्सर्वाः पश्यंत्यो द्वारकां पुरीम्
॥३१॥ततस्ते सागराः सप्त स्वैःस्वैस्तीर्थैः समन्विताः ॥
ततः पश्चादरण्यान्याश्रमैः पुण्यैयुतानि च
॥३२॥ततस्तु पर्वता रम्या मेर्वाद्यास्तु सुशोभनाः ॥
नृत्यंतो गायमानाश्च स्तवाद्यैस्तु महर्षिभिः
॥३३॥ततश्च ऋषयो देवाः समंताद्धृष्टमानसाः ॥
गायंतो नृत्यमानाश्च गर्जंतो हरिनामभिः
॥३४॥वादित्रनिनदैरुच्चैर्जयशब्दैः प्रहर्षिताः ॥
प्राप्तास्ते गोमतीतीरं सर्वयज्ञसमन्विताः ॥
ववंदिरे महापुण्याः सर्वे ते हृष्टमानसाः
॥३५॥श्रीनारद उवाच
हे भागीरथि हे रेवे यमुने शृणु गौतमि ॥
श्रेष्ठा श्रीगोमतीदेवी विख्याता भुवनत्रये
॥३६॥यस्याः सकृज्जलस्नानं स्पर्द्धते ब्रह्मविद्यया ॥
तेन वै गोमती सेयं सर्वतीर्थोत्तमोत्तमा ॥
ब्रह्मज्ञानेन मुच्यंते प्रयागमरणेन वा ॥
स्नानमात्रेण गोमत्यां मुच्यते पूर्वजैः सह
॥३७॥प्रह्लाद उवाच
निशम्य तानि तीर्थानि माहात्म्यं महदद्भुतम् ॥
गोमत्याः श्रद्धया स्नात्वा उत्सवैरग्रतो ययुः
॥३८॥ततः क्षेत्राणि तीर्थानि सरितः सागरादयः ॥
ददृशुर्द्वारकां रम्यामागता द्वारमण्डपे
॥३९॥स्थितां सिंहासने दिव्ये मणिकांचनभूषिते ॥
सुन्दरां शुक्ल वर्णां च रुद्रादित्यसमप्रभाम्
॥४०॥दिव्यवस्त्रां सुगंधाढ्यां रत्नाभरणभूषिताम् ॥
किरीटकुण्डलैर्दिव्यैः शोभितां कंकणादिभिः
॥४१॥वरदाभयहस्तां च शंखचक्रगदायुधाम् ॥
श्वेतातपत्रशोभाढ्यां चामरव्यजनादिभिः
॥४२॥संस्तवैः स्तूयमानां च गीतवाद्यादिहर्षिताम् ॥
महासिंहासनस्थां तु दृष्ट्वा द्वारवतीं पुरीम् ॥
प्रणेमुर्युगपत्सर्वे सर्वाणि च सुभक्तितः
॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये मूर्तिमतीद्वारवतीदर्शनवर्णनंनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥