अथान्यच्च प्रवक्ष्यामि गुह्याद्गुह्यतरं महत्
प्रह्लाद उवाच
अथान्यच्च प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ॥
द्वारकायाः परं पुण्यं माहात्म्यं ह्युत्तमोत्तमम्
॥१॥इतिहासं पुरावृत्तं वर्णयिष्ये मनोहरम् ॥
तीर्थक्षेत्रादिदेवानामृषीणां संशयापहम्
॥२॥सौभाम्यमतुलं दृष्ट्वा सिंहराशिगते गुरौ ॥
गोदावर्य्यां द्विजश्रेष्ठा नारदो भगवत्प्रियः
॥३॥गौतमस्याऽभितो दृष्ट्वा त्रैलोक्यसंभवानि वै ॥
तीर्थानि सरितः सर्वा विस्मयं परमं गतः
॥४॥तत्र काशी कुरुक्षेत्रमयोध्या मथुरापुरी ॥
माया कांची ह्यवंती च अरण्यान्याश्रमैः सह
॥५॥हरिक्षेत्रं गया मिश्रक्षेत्रं च पुरुषोत्तमम् ॥
प्रभासादीनि पुण्यानि मुक्तिक्षेत्राण्यशेषतः
॥६॥जाह्नवी यमुना रेवा तत्र पुण्या सरस्वती ॥
सरयूर्गंडकी तापी पयोष्णी सरितां वरा
॥७॥कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥
स्वर्गे मर्त्ये च पाताले वर्त्तमानाः सतीर्थकाः
॥८॥स्थिता गोदावरीतीरे सिंहराशिं गते गुरौ ॥
तथा च पुष्करादीनि सप्तसिंधुसरांसि च
॥९॥मेर्वादिपर्वताः पुण्या दर्शनात्पापनाशनाः ॥
तीर्थराज प्रयागश्च सर्वतीर्थसमन्वितः
॥१०॥वेदोपवेदाः शास्त्राणि पुराणानि च सर्वशः ॥
सिद्धा मुनिगणाः सर्वे देवर्षिपितृदेवताः
॥११॥चंद्रादित्यौ सुरगणाः सिंहस्थे च बृहस्पतौ ॥
स्थिता गोदावरीतीरे वर्षमेकं प्रहर्षिताः
॥१२॥यानि कानि च पुण्यानि तीर्थक्षेत्राणि संति वै ॥
त्रैलोक्ये तानि सर्वाणि गौतम्यां वीक्ष्य विस्मिताः
॥१३॥देवर्षिर्नारदस्तत्र मुनिभिर्मुदितोऽवसत् ॥
सिंहस्यांते(स्थांते) च सर्वाणि स्वस्थानगमनाय वै
॥१४॥आमन्त्र्य गौतमीं देवीं स्थितानि पुरतस्ततः ॥
सर्वेषां शृण्वतां विप्रा गौतमी खिन्नमानसा ॥
तप्ता दुर्जनसंसर्गान्नारदं दुःखिताऽब्रवीत्
॥१५॥गौतम्युवाच
पश्यैतानि सुतीर्थानि गंगाद्याः सरितोऽमलाः ॥
सागरा गिरयः पुण्या गयात्रितयमेव च
॥१६॥क्षेत्राणि मोक्षदान्यंग त्रैलोक्यजानि नारद ॥
देवाश्च पितरः सिद्धा ऋषयो मानवादयः
॥१७॥तीर्थ राज प्रयागश्च सर्वतीर्थसमन्वितः ॥
एतेषामेव सर्वेषां मत्संसर्गान्महामुने ॥
विशुद्धानां प्रकाशेन राजते भुवनत्रयम्
॥१८॥प्रयांति तानि सर्वाणि स्वंस्वं स्थानं प्रति प्रभो ॥
अधुनाऽहं परिश्रांता दह्यमाना त्वहर्निशम्
॥१९॥दुर्जनानां सुसंपर्काद्भृशं पापात्मना प्रभो ॥
सौभण्यमधुना प्राप्तं सत्संसर्गेण नारद
॥२०॥प्रयांत्येतानि सर्वाणि स्वस्थानं मुदितानि च
॥२१॥एतानि मत्प्रसादेन पुण्यानि कथितानि च ॥
कथय श्रमशांत्यर्थं दुःखि ता किं करोम्यहम्
॥२२॥प्रह्लाद उवाच
गोदावर्य्या वचः श्रुत्वा भगवान्नारदो द्विजाः ॥
क्षणं ध्यात्वा तु दुःखार्त्तः प्राह संशयमानसः
॥२३॥नारद उवाच
अहो अत्यद्भुतं ह्येतद्गौतम्या व्यसनं महत् ॥
पश्यन्त्वसंशयं देवास्तीर्थक्षेत्रसरिद्वराः
॥२४॥सत्पुण्यनिचयो यस्यां युष्माकं समभूद्ध्रुवम् ॥
तस्याः पापाग्निशमनं कथं स्यादिति चिन्त्यताम्
॥२५॥श्रीप्रह्लाद उवाच
तदा चिन्तयतां तेषां सर्वेषां भावितात्मनाम् ॥
गौतमो भगवांस्तत्र समायातो मुनीश्वराः
॥२६॥दृष्ट्वा तमृषयो देवा यथोचितमपूजयन् ॥
जाह्नवी यमुना पुण्या नर्मदा च सरस्वती
॥२७॥अन्याश्च सर्वाः सरितस्त्रैलोक्यमनुवर्तिताः ॥
वाराणसी कुरुक्षेत्र प्रमुखान्याश्रमैः सह ॥
युगपत्तानि सर्वाणि संपूज्य मुनिमबुवन्
॥२८॥त्वत्प्रसादेन वै त्राताः सम्यक्छुद्धा महामुने ॥
यदानीता त्वया गंगा गौतमी भूतलं प्रति
॥२९॥कृतार्था मानवाः सर्वे सर्वपापविवर्जिताः ॥
किंतु दुर्जनसंपर्कात्संतप्ता गौतमी भृशम्
॥३०॥कथं पापैर्विनिर्मुक्ता परमानन्दसंप्लुता ॥
सुप्रभा जायते देवी तद्गौतम विचिन्त्यताम्
॥३१॥प्रह्लाद उवाच
एवमुक्तो मुनिस्तैस्तु चिन्ताकुलितमानसः ॥
नारदस्य मुखं वीक्ष्य प्रहसन्गौतमोऽब्रवीत्
॥३२॥गौतम उवाच
सर्वेषां क्षेत्रतीर्थानां महाशुभविनाशिनी ॥
गौतमीयं महाभागा अस्यास्तापः क्व शाम्यति
॥३३॥नास्ति लोकत्रये तीर्थं स्नातुं सिंहगते गुरौ ॥
यद्वै नायाति गौतम्यां क्षेत्रं चापि विशुद्धये ॥
काशीप्रयागमुख्यानि राजंते यत्प्रसादतः
॥३४॥वदंतु मुनयः सर्वे क्षेत्रतीर्थसमाश्रिताः ॥
शुद्धं विचार्यं यत्कार्य्यं मयाऽस्मिञ्जातसंकटे
॥३५॥प्रह्लाद उवाच
इत्युक्त्वा मुनयः सर्वे नोचुः किञ्चिद्विमोहिताः ॥
तत्रोपायमविज्ञाय गौतमीं गौतमोऽब्रवीत्
॥३६॥गौतम उवाच
आनीतासि मया देवि तपसाऽऽराध्य शंकरम् ॥
वदिष्यति स चोपायमित्युक्त्वाऽचिन्तयत्तदा
॥३७॥गौतमः श्रद्धया भक्त्या गंगामौलिमखंडधीः ॥
तदाऽभून्महदाश्चर्यं शृण्वंतु ऋषयोऽमलाः
॥३८॥ध्यायमाने महादेवे गौतमेन महात्मना ॥
अकस्मादभवद्वाणी हर्षयन्ती जगत्त्रयम्
॥३९॥नादयन्ती दिशः सर्वा आब्रह्मभुवनं द्विजाः ॥
अरूपलक्षणाकारा विषादशमनी शुभा
॥४०॥दिव्यवाण्युवाच
अहो बत महाश्चर्य्यं सर्वेषां सुखदे शुभे ॥
प्रसंगेऽत्र महाक्षेत्रे मग्ना दुःखार्णवे बुधाः
॥४१॥अहो हे गौतमाचार्य्य ऋषयो नारदादयः ॥
शृण्वंतु तीर्थक्षेत्राणि कृपया संवदाम्यहम्
॥४२॥पश्चिमस्य समुद्रस्य तीरमाश्रित्य वर्तते ॥
अस्माच्च दिशि वायव्यां द्वारकाक्षेत्रमुत्तमम्
॥४३॥यत्राऽऽस्ते गोमती पुण्या सागरेण समन्विता ॥
पश्चिमाभिमुखो यत्र महाविष्णुः सदा स्थितः
॥४४॥अनेकपापराशीनामुग्राणामपि सर्वदा ॥
दाहस्थान समाख्यातमिन्धनानां यथाऽनलः
॥४५॥देवविश्वद्रुहो यत्र दग्ध्वा पातकमद्भुतम् ॥
लोकत्रयवधाज्जातं विराजतेऽर्कवत्सदा
॥४६॥तद्गम्यतां महाभागा गोमतीमघदाहकाम् ॥
गोदावरीं पुरस्कृत्य क्षेत्रतीर्थसमन्विताम्
॥४७॥प्राप्य द्वारवतीं पुण्यां मत्प्रसादाद्द्विजोत्तमाः ॥
प्रभावाद्द्वारकायाश्च सत्यमाविर्भविष्यति
॥४८॥प्रह्लाद उवाच
इत्युक्ते सति ते सर्वे हर्ष निर्भरमानसाः ॥
श्रुत्वा सर्वोत्तमं क्षेत्रं जगर्जुर्हरिनामभिः
॥४९॥जितं भो जितमस्भाभिर्धन्या धन्यतमा वयम् ॥
दैवादपगतो मोहो ज्ञातं तीर्थोत्तमोत्तमम्
॥५०॥तदा सर्वाणि तीर्थानि क्षेत्रारण्याश्रमैः सह ॥
वाराणसीप्रयागादि सरांसि सिन्धवो नगाः
॥५१॥गया च देवखातानि पितरो देवमानवाः ॥
श्रुत्वा प्रमुदिता वाचं प्रोचुर्जयजयेति च
॥५२॥अहो सर्वोत्तमं क्षेत्रं सर्वेषां नोऽघनाशनम् ॥
राजानं तीर्थराजानं द्वारकां शिरसा नमः
॥९३॥श्रीप्रह्लाद उवाच
श्रुत्वा सर्वोत्तमं क्षेत्रं तीर्थं सर्वोत्तमोत्तमम् ॥
देवोत्तमोत्तमं देवं श्रीकृष्णं क्लेशनाशनम्
॥५४॥उत्कण्ठा ह्यभवत्तेषां तीर्थादीनां ह्यनुत्तमा ॥
प्रोचुरन्योन्यतो वाचं सर्वाणि युगपत्तदा
॥५५॥ऋषितीर्थदेवा ऊचुः
कदा द्रक्ष्यामहे पुण्यां द्वारकां कृष्णपालिताम् ॥
श्रीकृष्णदेवमूर्तिं च कृष्णवक्त्रं सुशोभितम्
॥५६॥कदा नु गोमतीस्नानमस्माकं तु भविष्यति ॥
चक्रतीर्थे कदा स्नात्वा कृष्णदेवस्य मंदिरम् ॥
द्रक्ष्यामः सुमहापुण्यं मुक्तिद्वारमपावृतम्
॥५७॥दुर्ल्लभो द्वारकावासो दुर्ल्लभं कृष्णदर्शनम् ॥
दुर्ल्लभं गोमती स्नानं रुक्मिणीदर्शनं द्विजाः
॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गौतमीतीरस्थसमस्ततीर्थक्षेत्रादीनां देववाण्या द्वारकाप्रभावं श्रुत्वा द्वारकागमनोत्सुकतापूर्वक गोमतीवर्णनंनामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥