मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३९

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 39

जया च विजया चैव जयंती पापनाशिनी

श्रीप्रह्लाद उवाच

जया च विजया चैव जयंती पापनाशिनी ॥

उन्मीलिनी वंजुली च त्रिस्पृशा पक्षवर्द्धिनी

॥१॥

पुण्यं सर्वपुराणानां ते लभंते दिनेदिने ॥

पक्वान्नं ये प्रकुर्वंति हविर्द्धान्यसमुद्भवम्

॥२॥

जागरे पद्मनाभस्य घृतेनैव सुपाचितम् ॥

वर्तिद्वयसमायुक्तं दीपं घृतसमन्वितम्

॥३॥

यः कुर्य्याज्जागरे विष्णोः शालिग्रामशिलाग्रतः ॥

शालग्रामशिलाग्रे तु ये प्रकुर्वंति जागरम्

॥४॥

कुर्वंति नृत्यवाद्ये च लोकानां रंजनाय च ॥

संछादयंति कुसुमैः शालिग्रामशिलां च ये

॥५॥

चक्रांकितां विशेषेण प्रतिमां वैष्णवीं द्विजाः ॥

चंदनं च सकर्पूरं कृष्णागुरुसमन्वितम्

॥६॥

युक्तं मृगमदेनापि यः करोति विलेपनम् ॥

द्वादश्यां देवदेवस्य रात्रौ जागरणे सदा

॥७॥

तस्य पुण्यं प्रवक्ष्यामि संक्षेपेण च वोऽग्रतः ॥

तत्फलं कोटितीर्थे तु उज्जयिन्यां महालये

॥८॥

वाराणस्यां कुरुक्षेत्रे मथुरायां त्रिपुष्करे ॥

अयोध्यायां प्रयागे च तीर्थे सागरसंगमे

॥९॥

सर्वपुण्येषु तीर्थेषु देवतायतनेषु च ॥

कृतैर्यज्ञायुतैस्तत्र व्रतदानैश्च पुष्कलैः

॥१०॥

वेदैरधीतैर्यत्पुण्यं पुराणैश्चावगाहितैः ॥

तपोभिश्चरितैः पुण्यं सम्यगाश्रम पालनैः

॥११॥

यत्फलं मुनिभिः प्रोक्तं वेदव्यासेन पुत्रक ॥

तत्फलं जागरे विष्णोः पक्षयोः शुक्लकृष्णयोः

॥१२॥

हैमवत्यै पुरा प्रोक्तं कैलासे शूलपाणिना ॥

नारदाय पुरा प्रोक्तं ब्रह्मणा मत्समीपतः

॥१३॥

अरुणेन वज्रहस्ताय कथितं पृच्छते पुरा ॥

द्वादशीजागरस्योक्तं फलं विप्रा मया च वः ॥

तत्कुरुध्वं द्विजा यूयं जागरं विष्णुवासरे

॥१४॥

सूत उवाच

इत्युक्त्वा ब्राह्मणान्प्राह बलिं पौत्रं स्वकं ततः ॥

त्वमपि श्रद्धया पौत्र कुरु जागरणं हरेः

॥१५॥

द्वारका मनसा ध्याता पापं वर्षशतान्वितम् ॥

कीर्तनाच्छतजन्मोत्थं दहते नात्र संशयः

॥१६॥

पापं जन्मसहस्रोत्थं पदमात्रेण गच्छताम् ॥

द्वारका हरते नूनं मुक्तिः कृष्णस्य दर्शनात्

॥१७॥

न शक्नोति यदा गंतुं द्वारकां चैव मानवः ॥

माहात्म्यं पठनीयं तु द्वारकासंभवं गृहे

॥१८॥

दातव्यं वैष्णवानां तु श्रोतव्यं भक्तिभावतः ॥

द्वादश्यां च विशेषेण पठनीयं तु जागरे

॥१९॥

द्वारका संभवं पुण्यं स संप्राप्नोति मानवः ॥

प्रसादाद्वासुदेवस्य सत्यंसत्यं च भाषितम्

॥२०॥

गृहे संतिष्ठते नित्यं मथुरा द्वारका तथा ॥

अवंती च तथा माया प्रयागं कुरुजांगलम्

॥२१॥

त्रिपुष्करं नैमिषं च गंगाद्वारं च सौकरम् ॥

चंद्रेशं चैव केदारं तथा रुद्रमहालयम्

॥२२॥

वस्त्रापथं महादेवं महाकालं तथैव च ॥

भूतेश्वरं भस्मगात्रं सोमनाथमुमापतिम्

॥२३॥

कोटिलिंगं त्रिनेत्रं च देवं भृगुवनेचरम् ॥

दीपेश्वरं महानादं देवं चैवाचलेश्वरम्

॥२४॥

ब्रह्मादयः सुरगणा गृहे तिष्ठंति सर्वदा ॥

पितरो नागगंधर्वा मुनयः सिद्धचारणाः

॥२५॥

तीर्थानि यानि कानि स्युरश्वमेधादयो मखाः ॥

कृष्णजन्माष्टमीं पौत्र यः करोति विशेषतः

॥२६॥

यथा भागवतं शास्त्रं तथा भागवतो नरः ॥

उभयोरंतरं नास्ति हरहर्योस्तथैव च

॥२७॥

नीलीक्षेत्रं तु यो याति मूलकं भक्षयेत्तु यः ॥

नैवास्ति नरकोद्धारं कल्पकोटिशतैरपि

॥२८॥

नीलीकर्म तु यः कुर्य्याद्ब्राह्मणो लोभमोहितः ॥

नाप्नोति सुकृतं किंचित्कुर्य्याद्वा रसविक्रयम्

॥२९॥

प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥

अश्वत्थं छेदयेद्यो वै एकैकस्मिंश्च पर्वणि

॥३०॥

मन्वंतराणि तावंति रौरवे वसतिर्भवेत् ॥

अरिष्टकाष्ठैर्दैत्येंद्र कार्य्यं यः कुरुते क्वचित् ॥

न पूजामर्घदानं च तस्य गृह्णाति भास्करः

॥३१॥

छेदापकस्य चार्के तु च्छेदकस्य च दैत्यज ॥

शतं जन्मानि दारिद्यं जायते च सरोगता

॥३२॥

रोपयेत्पालयेद्यो वै सूर्य्यवृक्षं नरोत्तमः ॥

सप्तकल्पं वसेत्सोऽत्र समीपे भास्करस्य हि

॥३३॥

रोपितैर्देववृक्षैस्तु यत्फलं लक्षकोटिभिः ॥

न्यग्रोधवृक्षेणैकेन रोपितेन फलं हि तत्

॥३४॥

धात्रीद्रुमेऽप्येवमेव फलं भवति रोपिते ॥

तुलसीरोपणे चैव अधिकं चापि सुव्रत ॥

अमरत्वं च ते यांति नात्र कार्य्या विचारणा

॥३५॥

द्वारकां कलिकाले तु प्रातरुत्थाय कीर्तयेत् ॥

स सर्वपापनिर्मुक्तः स्वर्गं याति न संशयः

॥३६॥

रोहिणीसहिता ये न द्वादशी समुपोषिता ॥

महापातकसंयुक्तः कल्पांते नाकमाप्नुयात्

॥३७॥

वासरः को विना सूर्य्यं विना सोमेन का निशा ॥

विना वृक्षेण को ग्रामो द्वादशी किं व्रतं विना

॥३८॥

गृहं च नरकं तस्य यमदण्डं द्वितीयकम् ॥

न यत्र पठते नित्यं विष्णोर्नामसहस्रकम्

॥३९॥

नरकं च भवेत्तस्य द्वितीयं यमशासनम् ॥

नैव भागवतं यत्र पुराणं गीयते कलौ ॥

अन्धकूपेषु क्षिप्यंते ज्वलितेषु हुताशने

॥४०॥

द्विषंति ये भागवतं न कुर्वंति दिनं हरेः ॥

यमदूतैश्च नीयन्ते तथा भूमौ भवंति ते

॥४१॥

वाच्यमानं न शृण्वंति हरेश्चरितमुत्तमम् ॥

करपत्रैश्च पीड्यंते सुतीव्रैर्यम शासनात्

॥४२॥

निन्दां कुर्वंति ये पापा वैष्णवानां महात्मनाम् ॥

तेषां निरयपातस्तु यावदाभूतसंप्लवम्

॥४३॥

गोकोटितीर्थादधिकं स्नानं तत्राधिकं भवेत् ॥

ये पश्यंति महापुण्या गोपीचंदनमृत्तिकाम् ॥

गंगास्नानफलं तेषां जायते नात्र संशयः

॥४४॥

वैष्णवानां प्रयच्छंति गोपीचं दनमृत्तिकाम् ॥

येषां ललाटे तिलकः गोपीचंदनसंभवम्

॥४५॥

गोपीचंदनपुंड्रेण द्वादश्यां जागरे कृते ॥

विष्णोर्नामसहस्रस्य पाठेन मुक्तिमाप्नुयात्

॥४६॥

ये नित्यं प्रातरुत्थाय वैष्णवानां तु कीर्तनम् ॥

गोमतीस्मरणं कुर्युः कृष्णतुल्या न संशयः

॥४७॥

ये नित्यं प्रातरुत्थाय द्वारकेति वदंति च ॥

तीर्थकोटिभवं पुण्यं लभंते च दिनेदिने

॥४८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीव्रतादिमाहात्म्यवर्णनंनामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९ ॥