मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ७

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 7

गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनम्

श्रीप्रह्लाद उवाच

ततो गच्छेद्द्विजश्रेष्ठा रथांगाख्यं महोदधिम् ॥

चक्रांका यत्र पाषाणा दृश्यंते मुक्तिदायकाः

॥१॥

यैः पूज्यते जगन्नाथः प्रत्यहं भाव संयुतैः ॥

सदा नेत्रैरनिमिषैर्वीक्ष्यते च जनार्दनः

॥२॥

यच्च साक्षाद्भगवता दृष्टं कृष्णेन दृष्टितः ॥

तत्तीर्थं सर्वपापघ्नं चक्राख्यं परमं हरेः

॥३॥

यस्य प्रसिद्धिः परमा त्रैलोक्ये सचराचरे ॥

प्रयागादधिकं यच्च मुक्तिदं ह्यस्ति पावनम्

॥४॥

सुरैरपि प्रपूज्यंते यत्रांगानि शरीरिणाम् ॥

अंकितानि च चक्रेण षण्मासान्नात्र संशयः

॥५॥

यद्दृष्ट्वा मुच्यते पापात्प्रसंगेनापि मानवः ॥

तत्तीर्थं सर्वतीर्थानां पावनं प्रवरं स्मृतम्

॥६॥

तत्र गत्वा द्विजश्रेष्ठाः प्रक्षाल्य चरणौ मुदा ॥

करौ चास्यं चैव पुनः प्रणमेद्दंडवत्पुनः

॥७॥

प्रणिपत्य गृहीत्वार्घ्यं पंचरत्नसमन्वितम् ॥

सपुष्पाक्षतगंधैश्च फलहेमसुचंदनैः

॥८॥

संपन्नमर्घ्यमादाय मंत्रमेतमुदीरयेत् ॥

प्रत्यङ्मुखः सुनियतः संमुखो वा महोदधेः

॥९॥

ॐ नमो विष्णु रूपाय विष्णुचक्राय ते नमः ॥

गृहाणार्घ्यं मया दत्तं सर्वकामप्रदो भव

॥१०॥

अग्निश्च तेजो मृडया च रुद्रो रेतोधा विष्णुरमृतस्य नाभिः ॥

एतद्ब्रुवन्वाडवाः सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्

॥११॥

मृदमालभ्य सजलां विप्रा देवकरच्युताम् ॥

धारयित्वा तु शिरसा स्नानं कुर्य्याद्यथाविधि

॥१२॥

तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥

तर्पयित्वा हविर्द्रव्यं प्रोक्षयित्वा च भक्तितः

॥१३॥

अश्वमेधसहस्रेण सम्यग्यष्टेन यत्फलम् ॥

स्नानमात्रेण तत्प्रोक्तं चक्रतीर्थे द्विजोत्तमाः

॥१४॥

प्रयागे यत्फलं प्रोक्तं माघ्यां माधवपूजने ॥

स्नानमात्रेण तत्प्रोक्तं चक्र तीर्थे द्विजोत्तमाः

॥१५॥

कारयेच्च ततः श्राद्धं पितॄणां श्रद्धयान्वितः ॥

विश्वेदेवान्सुवर्णेन राजतेन तथा पितॄन्

॥१६॥

संतर्प्य भोजनेनैव वस्त्रालंकारभूषणैः ॥

दीनान्धकृपणेभ्यश्च दानं देयं स्वशक्तितः

॥१७॥

चक्रतीर्थे तीर्थवरे विशेषाद्द्विजसत्तमाः ॥

रत्नदानं प्रकुर्वीत प्रीणनार्थं जगत्पतेः

॥१८॥

गन्त्रीमनडुहा युक्तां सर्वास्तरणसंयुताम् ॥

सोपस्करां च दद्याद्वै विष्णुर्मे प्रीयतामिति

॥१९॥

सुविनीतं शीलयुतं तथा सोपस्करं हयम् ॥

भूषयित्वा च विप्राय दद्याद्दक्षिणया सह

॥२०॥

एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥

मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः

॥२१॥

प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥

पच्यंते नरके ये च महारौरवसंज्ञके

॥२२॥

ते सर्वे तृप्तिमायांति चकतीर्थ प्रभावतः ॥

श्राद्धे कृते द्विजश्रेष्ठा गयाश्राद्धफलं लभेत्

॥२३॥

या गतिर्मातृभक्तानां यज्वनां या गतिः स्मृता ॥

चक्रतीर्थे द्विजश्रेष्ठाः स्नात्वा तां लभते नरः

॥२४॥

श्राद्धं प्रशस्तं विप्रेंद्राः संप्राप्ते चंद्रसंक्षये ॥

सूर्यग्रहे विशेषेण कुरुक्षेत्रफलं स्मृतम् ॥

श्राद्धे स्नाने तथा दाने पितॄणां तर्पणे तथा

॥२५॥

प्रशस्तं चक्रतीर्थं च नात्र कार्य्या विचारणा

॥२६॥

सर्वदा पावनं विप्राश्चक्रतीर्थं न संशयः ॥

यस्तु श्राद्धं प्रकुर्वीत यात्रायामागतो नरः

॥२७॥

चक्रतीर्थे द्विजश्रेष्ठाः संपूज्य मधुसूदनम् ॥

पूजितेषु द्विजेंद्रेषु विष्णुसांनिध्यमाप्नुयात्

॥२८॥

वाचा कृतं कर्मकृतं मनसां समुपार्जितम् ॥

स्नानमात्रेण तत्पापं नश्यते नात्र संशयः

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥